सप्तप्रमुखवैदिकयज्ञेषु दर्शपौर्णमासयज्ञौ विशिष्टौ स्त: ।
दर्शयाग: - दर्शयागा: अमावश्यायां करणीयानां त्रयाणां यज्ञानां समन्वयमस्ति । एते त्रय: यज्ञा: क्रमश:
1- अग्निप्रीत्यर्थकपुरोडाशयाग:
2- इन्द्रप्रीत्यर्थकपुरोडाशयाग:,
3- इन्द्रप्रीत्यर्थकपयोद्रव्ययागश्च सन्ति ।
पौर्णमासयाग: - एते यज्ञा: पूर्णिमायां क्रियन्ते । पौर्णमासयज्ञेषु अपि त्रयाणां यज्ञानां समन्वयमस्ति । एते तु क्रमश:
1- अष्टकपालपुरोडाशयाग:
2- उपांशुयाग:,
3- एकादशकपालपुरोडाशयागश्च वर्तन्ते ।
दर्शयागानामग्न्याधानं अमावश्यायां, पौर्णमासयागानामग्न्याधानं तु पूर्णिमायां च क्रियते किन्तु एतयो: द्वयो: अपि यागविधि: प्रतिपदायामेव सम्पाद्यते । समानफलदायिन: सन एतौ मिलित्वा दर्शपौर्णमासयाग इति नाम्नाभिधीयते ।
-->
आख्यानम्
विधे: स्वरूपं हृदयंगमं कर्तुं, विषयस्य रोचकत्वं वर्धितु च आख्यानानि समायोज्यन्ते । एतानि आख्यानानि द्विधा सन्ति ।
1- दीर्घकायम् - दीर्घकायाख्यानेषु पुरुरवा-उर्वशी, सरमा-पणि, यम-यमी आदीनि सन्ति प्रमुखानि ।
2- लघुकायम् - लघुकायं विधे: सयुक्तिकतां प्रतिपादयति ।
-->
Subscribe to:
Posts
(
Atom
)
