संहिता-ब्राह्मण-आरण्यक-उपनिषद् इति वेदस्य चतुर्विभागा: सन्ति । वेदरूपीवृक्षस्य यदि ब्राह्मणग्रन्था: शाखा: सन्ति चेत् आरण्यकग्रन्था: तासां शाखानां पुष्पाणि सन्ति । एवं च उपनिषदग्रन्था: तेषां पुष्पाणां सुगन्धि: सन्ति ।
तात्पर्यमस्ति यत् प्राचीनकाले ऋषय: यान् बीजान् आरण्यकेषु वपितवन्त:, ते एव उपनिषत्सु पुष्पिता: पल्लविता: अभवन् । वेदानाम् अन्तिम: भाग: सन् एता: वेदान्त नाम्नापि अभिधीयन्ते ।
शंकराचार्यदृष्ट्या उपनिषद: 'ब्रह्मविद्या' इति सन्ति । उपनिषद् शब्दस्योत्पत्ति: उप, नि च उपसर्गयो: पूर्वकं सदलृ धातुना अभवत् । अत्र सदलृ धातो: प्रयोग: 1-विशरण, 2-गति: एवं च 3-अवसादनम् एतेषु त्रिषु अर्थेषु भवति । एवं विधा उपनिषदस्याभिप्राय: - अविद्याया: विशरणम्, ब्रह्मविद्याया: प्राप्ति: तथा च सांसारिकदु:खानां शिथिलीकरणमस्ति । यद्यपि उपनिषदस्याभिप्राय: ब्रह्मविद्यया अस्ति किन्तु गौणरूपेण ब्रह्मविद्याया: प्रतिपादकग्रन्था: अपि उपनिषद् कथ्यन्ते ।
मुख्योपनिषदानां संख्या निम्नोक्ता अस्ति -
ऋग्वेदसंहिता - ऐतरेयोपनिषद्, कौषीतकि उपनिषद्, बाष्कलोपनिषद् ।
यजुर्वेदसंहिता - ईशावास्योपनिषद्, वृहदारण्यकोपनिषद्, कठोपनिषद्, मैत्रायण्युपनिषद्, तैत्तिरीयोपनिषद्, श्वेताश्वतरोपनिषद् ।
सामवेदसंहिता - छान्दोग्योपनिषद्, केनोपनिषद् ।
अथर्ववेदसंहिता - प्रश्नोपनिषद्, मुण्डकोपनिषद्, माण्डूक्योपनिषद् ।
-->
आरण्यकम् ।
संहिता-ब्राह्मण-आरण्यक-उपनिषद् इति वेदस्य चतुर्विभागा: सन्ति । आरण्यकग्रन्था: ते गूढग्रन्था: सन्ति येषामध्ययनं ग्रामात् बहिं एकान्तस्थाने भवति स्म । सायणाचार्यानुसारं -येषामाध्यात्मिकग्रन्थानाम् अध्ययनं मननं चितनं वा च ग्राम/नगरस्य कोलाहलपूर्णे वातावरणे सम्भवं नासीत् तदर्थं तेषामध्ययनपरम्परा अरण्ये एव विकसिता, वेदेषु निहितानामनेकानां रहस्यानामुद्घाटनं यस्मिन् ग्रन्थे कृतम्, तथा च यै: प्राणविद्याया: दार्शनिकविवेचनम् अभवत् ते एव आरण्यकग्रन्था: कथ्यन्ते ।
आरण्यकग्रन्था: ब्राह्मणानामेव पूरकग्रन्था एवं सहैव एते उपनिषदग्रन्थानां प्रारम्भिकविभागा: अपि सन्ति । ब्राह्मणग्रन्थेषु यज्ञानां जटिलविधानं प्रदत्तमस्ति किन्तु आरण्यकग्रन्थे सरलोपाया: वर्णिता: सन्ति । एवं विधा वयं वक्तुं शक्नुम: यत् मन्त्रब्राह्मणात्मक: स: वेदविभाग: यस्मिन् आध्यात्मिकतत्वानां मीमांसा, प्राणविद्या प्रतीकोपासनाया: च विषय: वर्णित: स: अंश: आरण्यकम् इति नाम्ना ज्ञायते ।
महाभारतस्य आदिपर्वे कथनमस्ति -
ऋग्वेदसंहिता - ऐतरेय, शांखायन
यजुर्वेदसंहिता - वृहदारण्यक (शुक्लयजुर्वेदस्य द्वयो: विभागयो:), तैत्तिरीय, मैत्रायणी (कृष्णयजुर्वेदस्य) ।
सामवेदसंहिता - तवलकार (जैमिनीयोपनिषद्), छान्दोग्य ।
अथर्ववेदसंहिता - अथर्ववेदे सम्प्रति एकमपि आरण्यकं न प्राप्यते ।

नवनीतं यथा दध्नो, मलयाच्चन्दनं यथा ।
आरण्यकं च वेदेभ्य:, औषधिभ्यो मृतं यथा ।।
प्रमुखारण्यकग्रन्था: निम्नोक्ता: सन्ति ।ऋग्वेदसंहिता - ऐतरेय, शांखायन
यजुर्वेदसंहिता - वृहदारण्यक (शुक्लयजुर्वेदस्य द्वयो: विभागयो:), तैत्तिरीय, मैत्रायणी (कृष्णयजुर्वेदस्य) ।
सामवेदसंहिता - तवलकार (जैमिनीयोपनिषद्), छान्दोग्य ।
अथर्ववेदसंहिता - अथर्ववेदे सम्प्रति एकमपि आरण्यकं न प्राप्यते ।
-->
Subscribe to:
Posts
(
Atom
)