संदेश

May, 2010 की पोस्ट दिखाई जा रही हैं

एकं इतोपि ददातु कलह: जायमान: अस्ति ।

चित्र
एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।

स: क्रेतां (दुकानदार) प्रति एकचसक (ग्‍लास) सूप: (जूस) दातुम् उक्‍तवान् ।

यदा क्रेता तं एकचसक सूप: दत्‍तवान् तदा स: सूपं पीत्‍वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्‍तवान ।
एकं इतोपि पीत्‍वा स: तथैव पुन: उक्‍तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति ।
एतत् श्रुत्‍वा क्रोधेन क्रेता उक्‍तवान यत् कदा केन वा सह कलह: जायमान: अस्ति ।
स: उत्‍तरं दत्‍तवान यत् भवता सह भविष्‍यति यदा भवान धनस्‍य कृते वदिष्‍यति तर्हि ।।

हाहा हाहा

हिन्‍दी भाषायां टंकणं (टाइप) अवगन्‍तुम् एकं महद्भूतं साफ्टवेअर

चित्र
अत्र मया दीयते एकं जालपुटसंकेतं (नेटलिंक) यत्र भवन्‍त: हिन्‍दी भाषायां टंकणं (टाइप) कर्तुं एकं साफ्टवेयर प्राप्‍स्‍यन्ति ।
एतत् अस्ति बहूपयोगी (टाइपिंग ट्यूटर) इति नाम्‍नी साफ्टवेयर
स्‍वीकर्तुम् अत्र बलाघात: करणीय:

एहि हसाम: ।।

चित्र
एकदा चत्वार: जना: कुत्रचित् एकं लघुआयोजनं (पार्टी) कर्तुं गतवन्‍त: । 
ते आपणत: (दुकान) चत्वार: त्रिकोणपिष्‍टकं (समोसा) स्‍वीकृतवन्‍त: । 
यदा ते आनन्‍दायोजनं कर्तुम् उद्युक्‍ता: आसन् तेषां स्‍मरणम् आगतम् यत् ते इदानीं पर्यन्‍तं शीतपेयं (पेप्‍सी इत्‍यादि) न स्‍वीकृतवन्‍त: ।
ते विचारितवन्‍त: यत् तेषु कश्चित् पुन: विपणीं (बाजार) गत्‍वा शीतलपेयं स्‍वीकुर्यात् ।

तेषु एक: गन्‍तुं स्‍वीकृति: दत्तवान  । 
किन्‍तु यदा पर्यन्‍तम् अहं न आगच्‍छानि तदा पर्यन्‍तं कोपि एकमपि पिष्‍टकं न भुंजेत (खाये) इति स: अवदत् ।
सर्वे अंगीकृतवन्‍त: (स्‍वीकार किया)
स: गत: । 
एक: दिवस: गत:, स: न आगतवान । 
द्वितीय: दिवस: गत:,   पुनरपि स: न आगतवान ।
सर्वे विचारितवन्‍त: यत् सम्‍भवत:  स: विस्‍मृतवान शीतलपेयं आनेतुम् अत: इदानीं वयं स्‍व-स्‍व पिष्‍टकं भुंजेयम  (खायें) ।
अत: तृतीये दिवसे ते पिष्‍टकं भोक्‍तुम्  उद्यता: अभवन । 
यदैव जैसे ही ते पिष्‍टकं हस्‍ते स्‍वीकृतवन्‍त: चतुर्थ: वृक्षस्‍य पृष्‍ठत: (पेड के पीछे से) बहि: आगत: उक्‍त: च 
यदि भवन्‍त: पिष्‍टकं खादिस्‍यन्ति चेत् अहं शीतलपेयं आनेतुं न गच्‍छामि ।।

दैनिकवाक्‍यानि- :तृतीय: अभ्‍यास:

कानिचन् दैनिकवाक्‍यानि-प्रथम: अभ्‍यास:
कानिचन् दैनिकवाक्‍यानि- द्वितीय: अभ्‍यास:


कार्यक्रम: कदा ?            कार्यक्रम कब है  ?
अद्य न , स्‍व:                 आज नहीं कल (आने वाला)
तद् ह्य: एव समाप्‍तम्     वह कल (बीता हुआ) ही समाप्‍त हुआ ।
इदानीम् एव ?
               अभी  ?
आम्,          
                  हाँ
प्राप्‍तं किम् ?                 मिला क्‍या ?
कस्मिन् समये ?
            कितने बजे  ?
पंच (वादने)                  पांच (बजे)
आवश्‍यकं नासीत्
      नहीं चाहिये था ।
महान् आनन्‍द:            बहुत अच्‍छा, बहुत खुशी की बात है
प्रयत्‍नं करोमि   
            प्रयास करूंगा\करूंगी
न शक्‍यते भो:  
             नहीं हो सकता
तथा न वदतु                   ऐसा मत कहिये
कदा ददाति ?                   कब दोगे ?
अहं किं करवाणि ?              मैं क्‍या करूँ ?


क्रमश:,,,,,,,,,,,,,,,

हिन्‍दुधर्म: रक्षणीय: चेत्

चित्र
ब्‍लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्‍दुधर्मस्‍योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् हिन्‍दुधर्म: नास्ति विशिष्‍ट: अन्येषाम् अपेक्षा । 
अद्य ब्‍लागजगति अटनं कुर्वन्2 अहं एकं ब्‍लाग उपरि गतवान् तत्र लिखितमासीत् यत् ईश्‍वर: अल्‍ला च एके न स्‍त: । तौ द्वौ स्‍त:, तत्रैव पुन: लिखितमासीत् यत् अल्‍लोपनिषद् मध्‍ये अल्‍ला श्रेष्‍ठ: अस्ति इति अपि उक्‍तमस्ति । 
            तस्‍य नाम अहं अत्र स्‍वीकर्तुं न इच्‍छामि , एतदर्थ न यत् अहं विभेयम्3 अपितु तादृशजनानां नाम स्‍वीकर्तुं मम मन: एव न इच्‍छति । 
           स: मत्‍त: न जानाति यत् यदा कस्‍यचित् अपि धर्मस्‍य अस्तित्‍वम् अपि नासीत् तदा संस्‍कृते ग्रन्‍थानां प्रणयनं जातमासीत् । 
स: इत्‍यपि न जानाति यत् अल्‍ला शब्‍दस्‍य उत्‍पत्ति: अपि संस्‍कृत भाषात: एव अभवत् । 
अल्‍ला इत्‍यस्‍य निर्माणं अद् धातुना सह् अणादि प्रत्‍ययस्‍य योगं भूत्‍वा निर्मित: ।
अस्‍य अर्थ: माता भवति ।
             मम पन्‍थाह्वानम्4 अस्ति यत् स: मुगल: अद्य पर्यन्‍तं अपि अल्‍ला इति शब्‍दस्‍य अर्थ: न जानीयात्5 । केवलं रटनमेव नास्ति पर्याप्‍तम् । ज्ञानमपि भवेत् ।


    …

महाजनो येन गत: स पन्‍था ।।

अद्य दूरदर्शने एकं समाचारं दृष्‍टवान ।
एष: समाचार: सचिनस्‍य महानताविषयक: आसीत् ।
तत्र कस्‍यचित् पुरातन मित्रस्‍य सहायतां कर्तुं धनम् अपेक्षितम्1 आसीत् यत् सचिनेन दत्‍तम् ।
अहं प्रायश: दृष्‍टवान्2 अस्मि यत् जना: यदा प्रशिद्धि: प्राप्‍नुवन्ति चेत् ते सर्वप्रथम स्‍वपुरातन मित्राणि विस्‍मरन्ति3 ।
यतोहि पुरातन मित्राणि अस्‍माकं सर्वं व्‍यवहारं,  अस्‍माकं मूलं जानन्‍ति, अपि च तै: सह् सम्‍पूर्ण अतीतस्‍य स्‍मृति: भवति  अत: तान विस्‍मृत्‍य4 जना: स्‍व भूतकालं विस्‍मरन्ति इति तेषां विश्‍वास: खलु भवति ।

आसीत् कश्चित् सचिनस्‍य मित्रं यस्‍य पाद: खंज:5, सचिन: तस्‍य शल्‍यचिकित्‍साकार्यार्थं 6 लक्ष रूप्यकाणि दत्‍तवान् ।
षड लक्ष रूप्‍यकाणि तु सचिनस्‍य कृते किमपि नास्ति किन्‍तु तस्‍य मित्रस्‍य सम्‍पूर्ण जीवनं अनेन नूतनं जातम् ।
अस्‍माकं समाजे अद्य सचिन स‍दृशस्‍य एव जनानां न्‍यूनता अस्ति ।

सत्‍यमेव उक्‍तम् अस्ति खलु महाजनो येन गत: स पन्‍था ।।
मैत्रीकार्यं तु सरलं किन्‍तु वहनं6 कठिनमेव । किन्तु ये महानजना: भवन्ति तेषां कृते किमपि कठिनं नास्ति इति अद्य सचिनेन दर्शितम् ।
तेन एषोपि सन्‍देश: समाजे प्रसारित: यत्…

संस्‍कृतं वदतु- व्‍याकरण कक्ष्‍या ।।

संस्‍कृतभाषायां ब्‍लागजगति अपि लेखनं प्रारभ्‍येत इति भावनया अद्य ब्‍याकरण कक्ष्‍याया: प्रथम सोपानं प्रकाश्‍यते । अनेन जनानां ब्‍याकरणज्ञानं तेन वाक्शुद्धि च भविष्‍यति ।
सर्वप्रथम वयं कारक, विभक्ति विषये पठाम: ।।

षट कारकाणि भवन्ति , एतेषां नामानि प्रयोगचिन्‍हं च अत्र दीयते
विभक्ति:
कारकम्हिन्‍दी प्रयोगचिन्‍ह
प्रथमा            कर्ता  -     ने     
द्वितीया -         कर्म -     को      
तृतीया -         करण -   से, के द्वारा   
चतुर्थी -         सम्‍प्रदान - के लिये 
पंचमी -         अपादान -  से       
*षष्‍ठी -         सम्‍बन्‍ध -  का, की, के 
सप्‍तमी -      अधिकरण - मे, पर

* षष्‍ठी विभक्ति तु अस्‍ति किन्‍तु सम्‍बन्‍धं कारकं नास्ति ।। अतएव षट् एव कारकाणि भवन्ति ।
उपरि एतेषां क्रमश: कार्यं दत्‍तम् अस्ति । उदाहरणं - 'राम ने' रावण को मारा - अत्र राम ने इति दर्शयति यत् राम कर्ता अस्ति । कर्ता- कृते प्रथमा विभक्ति: योज्‍यते अत: राम शब्‍दे प्रथमा विभक्ति: योजयाम: ।  राम इत्‍यस्‍य प्रथमा विभक्ति एकवचन  - राम: इति भवति । तर्हि राम: रावणं हतवान् इति वाक्‍यनिर्माणं जातम् ।।

अग्रिम व्‍याकरण…

।। भारतस्‍य सुष्‍ठु संरचनायां सहयोगं दद्म: ।।

सम्‍पूर्ण जगत: एतत् एव प्रचलनम् अस्ति यत् जना: तत् एव  इच्‍छन्ति यत् तान रोचते किन्‍तु अपरजनान किं रोचते इति कश्चित् अपि न चिन्‍तयति । अहं बहुधा दृष्‍टवान् 1 अस्मि यत् जना:  स्‍वार्थपूर्ति: कर्तुम् एव अन्‍यै: सह अपि सम्‍बन्‍धं स्‍थापयन्ति । अनन्‍तरं परिणाम: किम् आगच्‍छति, भवान स्‍वयमेव ज्ञातुं शक्‍नोति । 
            एकं उदाहरणं ददामि, चिन्‍तयतु यत् भवत: इच्‍छा अस्ति आम्रफलं भोक्‍तुं 2, भवत: एक: मित्रं अपि आम्रमेव भोक्‍तुमिच्‍छति किन्‍तु भवत: पार्श्‍वे एकम् एव आम्रफलमस्ति । इदानीं भवत: कर्तब्‍यं तु अस्ति यत् अर्धं भवान स्‍वीकरोतु अर्धं मित्राय ददातु, किन्‍तु अद्य जना: किं कुर्वन्ति । ते सम्‍पूर्णं स्‍वयम् एव भुंक्‍ते 3 , मित्राय किमपि न त्‍यजन्ति 4 । अस्‍य परिणाम: किम् आगच्‍छति, भवत: मित्रस्‍य मनसि 5 अपि एष: एव भाव: आगच्‍छति । 
अद्य अस्‍माकं राजनीतिका: एवमेव कुर्वन्ति । ते सर्वं स्‍वयं स्‍वीकर्तुम् इच्‍छन्ति, किंचिदपि 6 अपरस्‍य 7 कृते त्‍यक्‍तुं न इच्‍छन्ति । एतदर्थम् एव अस्‍माकं भारतदेश: इदानीं सर्वाधिक भ्रष्‍ट देशानां सूच्‍यां परिगण्‍यते 8 । भवन्‍त: चिन्‍त…

संस्‍कृतगीतम्

चित्र
मनसा सततं स्‍मरणीयम्
वचसा सततं वदनीयम् ।।
लोकहितं मम करणीयम् ।।

न भोगभवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ।।

न जातु दु:खं गणनीयम्
न च निजसौख्‍यं मननीयम्
कार्यक्षेत्रे त्‍वरणीयम्
लोकहितं मम करणीयम् ।।

दु:खसागरे तरणीयम्
कष्‍टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ।।

गहनारण्‍ये घनान्‍धकारे
बन्‍धुजना ये स्थिता गह्वरे
तत्र मया संचरणीयम्
लोकहितं मम करणीयम्

वेदानां विषये कानिचन् रोचकं महत्‍तत्‍वानि- अवश्‍यं पठेयु:।।

चित्र
।। हिन्‍दी भाषायां पठितुं अत्र बलाघात: करणीय: ।।

             सनातन धर्मस्‍य प्राणवत्, विश्‍वस्‍य महानतम: आदिग्रन्‍थ: ''वेद'' न केवलं हिन्‍दुधर्मस्‍य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणां उत्‍पत्ति: अनेन एव अभवत् इति ।

             अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्‍वपूर्ण तथ्‍यानां उद्घाटनं करोमि ।    एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्‍यपि उक्‍तमेव अस्ति- ''धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:'' ।

           वस्‍तुत: वेदानां प्रादुर्भाव: श्रृष्‍ट्यारम्‍भे एव अभवत किन्‍तु केचन् पाश्‍चात्‍यीयानां दुराग्रहकारणात् एव अस्‍माकं विद्वान्‍स: अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्‍यन्‍ते । ते अवधानं न ददति यत् वेदानां परम्‍परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्‍वरेण ब्रह्मा, तेन वशिष्‍ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन: च वेदानां ज्ञानं प्राप्‍तवान् ।  वेदानां विस्‍तारकारणात् एव तस्‍य नाम वेदव्‍यास: इति अभवत ।

          …

चन्‍द्रे जलम् अस्ति इति वाराहमिहिरेण षष्‍ठसताब्‍द्याम् एव सम्‍पादितम् आसीत्।।

चित्र
हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।।


किंचित कालपूर्वम् एव भारतस्‍य चन्‍द्रयानेन् प्रमाणितं यत् चन्‍द्रे जलम् अस्ति एव।  इत: पूर्वं नासावैज्ञानिका: एतस्‍य अन्‍वेषणं बहु वारं कृतवन्‍त: किन्‍तु चन्‍द्रे जलम् अस्ति इत्‍येतस्मिन् विषये ते किमपि वक्‍तुं न शक्‍तवन्‍त: । अस्‍य विषयस्‍य अन्‍वेषणं कर्तुं भारतदेश: चन्‍द्रयानम् इति कश्‍चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्‍द्रे जलम् अस्ति इति रहस्‍योद्घाटनं कृतवान् ।
 य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्‍माकं भारतस्‍य एव खगोलविद: सहस्राधिकेभ्‍य: वर्षेभ्‍य: (6तमे शताब्‍दे:) पूर्वम् एव स्‍वग्रन्थे लिखितवान् आसीत्।
तदा गगनस्‍य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्‍यं साधनम् एव आसीत् अस्‍य विषयस्‍य ज्ञानं कर्तुम्। किन्‍तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्‍य सर्वै: स्‍वीकृतम्।
प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्‍योत्‍पत्ति: कथम् इति कथयन् वदति- 
''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो नैश्‍यम्। 
             क्षपयन्ति दर्पण…

संस्‍कृतगीतम्

चित्र
सुरस सुबोधा विश्‍वमनोज्ञा ललिता हृद्या रमणीया 
अमृतवाणी संस्‍कृतभाषा नैव क्लिष्‍टा न च कठिना ।।

कविकुलगुरू वाल्मीकि विरचिता रामायण रमणीय कथा 
अतीवसरला मधुर मंजुला नैव क्ल्ष्टिा न च कठिना ।। 


व्‍यास विरचिता गणेश लिखिता महाभारत पुण्‍य कथा 
कौरव पाण्‍डव संगर मथिता नैव क्लिष्‍टा न च कठिना ।। 


कुरूक्षेत्र समरांगणगीता विश्‍ववंदिता भगवद्गीता 
 अतीव मधुरा कर्मदीपिका नैव क्लिष्‍टा न च कठिना ।। 

कवि कुलगुरू नव रसोन्‍मेषजा ऋतु रघु कुमार कविता 
विक्रम शाकुन्तल मालविका नैव क्लिष्‍टा न च कठिना ।। 


''गेय संस्‍कृतम्'' पुस्‍तकात् साभार ग्रहीत:

भारतस्‍य एकत्‍वे का बाधा।।

चित्र
कदाचित् सम्‍पूर्ण विश्‍वस्‍य सिरमौरवत् भारतवर्षस्‍य अद्य का गति: अस्ति इति वयं सम्‍यकतया जानिम:।
अस्‍माकं भारत: सुवर्णखग इति आसीत खलु किन्‍तु अद्य न सा स्थिति: नैव सा सम्‍पन्‍नता इति विचारणीय: विषय:।
अस्‍य भारतस्‍य क्रोडे आगन्‍तुं देवा: अपि उत्‍सुका: भवन्ति। देवा अस्‍य देशस्‍य महिमागानम् कुर्वन्ति।
गायन्ति देवा: किल गीतकानि धन्‍यास्‍तु ते भारतभूमिभागे
स्‍वर्गापवर्गास्‍पदमार्गभूते भवन्‍तु भूय: पुरूष: सुरत्‍वात्।।
इति विष्‍णु पुराणे निगदितम्
चेत् अद्य किमर्थं अस्‍माकं दुर्गति:जायमाना अस्ति इति सोचनीय:।।

कानिचन् कारणानि सन्ति यत् अस्‍माकं प्रगति: दुर्गते: परिवर्तिता भवति।
प्रथम: तु अस्‍माकं परस्‍पर द्वेषभावना ।
अद्य पर्यन्‍तं अस्‍माकं मन: विश्‍वबन्‍धुत्‍वं इति भावनया न प्रचोदित:।
वयं अद्यापि मनसा विभिन्‍नधर्मावलम्विन: न तु मानवता इति एकस्‍य एव धर्मस्‍य पोषका:।
वयं अद्य पर्यन्‍तं हिन्‍दव:, मुस्लिमा: न तु केवलं भारतीया: इति
एतदर्थमेव अद्य अस्‍माकं ऐक्‍यसम्‍बन्‍ध: क्षीयते न तु वर्धते।

द्वितीयं इदं यत् अद्य अस्‍मासु केचन मूर्ख-पण्डिता: ये केवलं ग्रन्‍थानां समालोचनायां स्‍व आत्‍मतुष्टि: प…