चन्‍द्रे जलम् अस्ति इति वाराहमिहिरेण षष्‍ठसताब्‍द्याम् एव सम्‍पादितम् आसीत्।।




हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।।


किंचित कालपूर्वम् एव भारतस्‍य चन्‍द्रयानेन् प्रमाणितं यत् चन्‍द्रे जलम् अस्ति एव।  इत: पूर्वं नासावैज्ञानिका: एतस्‍य अन्‍वेषणं बहु वारं कृतवन्‍त: किन्‍तु चन्‍द्रे जलम् अस्ति इत्‍येतस्मिन् विषये ते किमपि वक्‍तुं न शक्‍तवन्‍त: । अस्‍य विषयस्‍य अन्‍वेषणं कर्तुं भारतदेश: चन्‍द्रयानम् इति कश्‍चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्‍द्रे जलम् अस्ति इति रहस्‍योद्घाटनं कृतवान् ।
 य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्‍माकं भारतस्‍य एव खगोलविद: सहस्राधिकेभ्‍य: वर्षेभ्‍य: (6तमे शताब्‍दे:) पूर्वम् एव स्‍वग्रन्थे लिखितवान् आसीत्।
तदा गगनस्‍य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्‍यं साधनम् एव आसीत् अस्‍य विषयस्‍य ज्ञानं कर्तुम्। किन्‍तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्‍य सर्वै: स्‍वीकृतम्।
प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्‍योत्‍पत्ति: कथम् इति कथयन् वदति- 
             ''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो नैश्‍यम्। 
             क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्‍यान्‍त:।।'' इति- (बृहत्‍संहिता-4)
चन्‍द्रे यत् जलमयत्‍वं दृश्‍यते तस्‍मात् एव सूर्यकिरणस्‍य प्रतिफलनं कौमुद्या: च उत्‍पत्ति: भवति इति तस्‍य कथनस्‍य सार:।। 
1030तमे वर्षे अल्‍बरूनि: नाम खगोलशास्‍त्रज्ञ: भारतम् आगत्‍य अत्रत्‍यान् विचारान् ज्ञात्‍वा स्‍वीये ''ऐहिक् म लिल् हिन्‍दु'' इत्‍येतस्मिन् महाग्रन्‍थे वराहमिहिरादिभि: उक्‍तं सर्वं संगृहीतवान् अस्ति।
 तत्र स: लिखति- जलांशकारणत: एव चन्‍द्रे शीतलता परिदृश्‍यते, सूर्यकिरणा: चन्‍द्रतले प्रतिफलनं प्राप्‍य प्रकाशन्‍ते इति वराहमिहिर: बृहत्‍संहितायाम् उक्‍तवान् अस्ति इति। (अल्‍बेरूनीस् इण्डिया, अनुवाद:- एड्कर्ससच्यौ पृष्‍ठसंख्‍या -370)
प्राचीनकाले वैज्ञानिकसाधनानि, अन्‍यग्रहं प्रति प्रयाणं वा असम्‍भवम् आसीत् तथापि पूर्वजै: ऋषिभि: सूर्यचन्‍द्रादीनां गतिस्‍वरूपादय: निर्दुष्‍टतया उक्‍ता: सन्ति। तै: उक्‍तेन क्रमेण या गणना क्रियते तदनुगुणम् एव सूर्य-चन्‍द्रादीनाम् उदय-अस्‍तादय: अद्यापि भवन्ति, इत्‍यत: स्‍पष्‍टं यत् तेषां कथने वैज्ञानिकता अस्ति एव इति। 


एवं विधा बहूनां सिद्धान्तानां प्रतिपादनं अस्‍माकं मनीषिभि: पूर्वं एव कृतं आसीत्। 
साम्‍प्रतं ये वदन्ति यत् भारते किमपि नास्ति अथवा भारतदेश:  अन्‍यदेशानाम्  अनुशरणं करोति तेषां मुखपिधानं कर्तुं अस्‍माभि: अस्‍माकं ग्रन्‍थानां गहनाध्‍ययनम् आवश्‍यकम् एव इति। 
अत: एतेषां तथ्‍यानां संकलनं सर्वै: अपि करणीयम् ।।
अस्‍माकं संस्‍कृति: अस्‍माभि: एव रक्षणीया।। 


।।जयतु भारतम्, जयतु संस्‍कृतम्।।
                                                  सम्‍भाषण सन्‍देश पुस्‍तकात् साभार गृहीत:
भवदीय:- आनन्‍द:

टिप्पणियाँ

  1. संस्कृतवाङ्मयादुद्धृतो वैज्ञानिकविषयोऽत्र प्रशंस्यते।एतादृशानां गवेषणमितोऽधिकं करणीयमिति प्रोत्सहते मा
    मेष प्रस्तावः।लेखोऽयमभिनन्द्यते।

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।