संदेश

September, 2010 की पोस्ट दिखाई जा रही हैं

हताः पाणिनिना वयम्

नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः।
तत्तु तत्रैव रमते हताः पाणिनिना वयम्।।

श्रीरामजन्‍मभूमि: भगवत: श्रीरामचन्‍द्रस्‍य अभवत् ।।

चित्र
सर्वेषां भारतीयानां कृते मम हार्दिकं अभिवादनमस्ति अतीवहर्षस्‍य विषय: अस्ति यत् भगवत: श्रीरामस्‍य जन्‍मभूमि: अद्य न्‍यायालयेन भगवत: एव अस्ति इति निर्णय: स्‍थापित: श्रीउच्‍चन्‍यायालयस्‍य त्रय: न्‍यायाधीशा: अपि एकस्‍वरेणेव स्‍वीकृतवन्‍त: यत् तत्र भगवत: श्रीरामस्‍य जन्‍मं अभवत् । यदा बाबर आगत: स: मीरबाकीं निर्देशितवान् । मीरबाकी श्रीरामजन्‍मभूमिं अत्रोटयत् अनन्‍तरं तत्र मस्जिद निर्माणं अकारयत् ।। अत: अद्य श्रीन्‍यायाधीशमहोधया: मिलित्‍वा निर्णयं दत्‍तवन्‍त: यत् सा भूमि: भगवत: एव भवेत् ।।
भवन्‍त: सर्वे मया सह एकस्‍वरेण उच्‍चै: भगवत: श्रीरामस्‍य जय इति वदन्‍तु ।।
जय श्रीराम ।।

"भारत-भारती-वैभवं"

"भारत-वैभवं"
वन्दे नितरां भारतवसुधाम्।
दिव्यहिमालय-गंगा-यमुना-सरयू-कृष्णशोभितसरसाम् ।।
मुनिजनदेवैरनिशं पूज्यां जलधितरंगैरंचितसीमाम् ।
भगवल्लीलाधाममयीं  तां नानातीर्थैरभिरमणीयाम् ।।
अध्यात्मधरित्रीं गौरवपूर्णां शान्तिवहां श्रीवरदां सुखदाम् ।
सस्यश्यामलां कलिताममलां कोटि-कोटिजनसेवितमुदिताम् ।।
वीरकदम्बैरतिकमनीयां सुधिजनैश्च परमोपास्याम् ।
वेद्पुराणैः नित्यसुगीतां राष्ट्रभक्तैरीड्याम्  भव्याम् ।।
नानारत्नै-र्मणिभिर्युक्तां  हिरण्यरूपां  हरिपदपुण्याम् ।
राधासर्वेश्वरशरणोsहं  वारं  वारं  वन्दे रम्याम्  ।।
**********************************************************************************


"देवभारती-वैभवं"
सर्वेश्वर !  सुखधाम !  नाथ् ! मे संस्कृते रुचिरस्ति ।
संस्कृतमनने संस्कृतपठने संस्कृतवरणे संस्कृतशरणे ।
चेतो  नितरां भवतात्कृपया ममाsभिलाषोsस्ति ।।
श्रुतिशास्त्रेषु  मनुशास्त्रेषु नयशास्त्रेषु रसशास्त्रेषु,
प्रगतिस्तीव्रा भवतादिति मे भावनाsस्ति ।।
लेखन-पतुत प्रवचनपटुता कर्मणि पतुत सेवा पटुता,
सततं माधव !  भवतादिह्  मे याचनाsस्ति ।।
वचने मृदुता चेतसि रसता स्वात्मनि वरता दृ…

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या- वर्तमानकाल: ।।

चित्र
अद्यतनीयं एतावत् एव अग्रिम कक्ष्‍यायां वर्तमानकालस्‍य कानिचन् इतोपि वाक्‍यानि निर्मापयितुं बोधयाम: ।।
जयतु संस्‍कृतम्
भवदीय:-आनन्‍द:

पुण्यमयी मम भारतमाता

चित्र
शान्तिमयी यस्या वर-वाणी, असुर-मर्दिनी या शर्वाणी श्री-स्वरूपिणी या कल्याणी  ज्ञान-शक्ति-सुखदा सुरधरणी
पुण्यमयी मम भारतमाता

कालिदासस्य मेघदूतं--खंड१.

तसिमन्नाद्रौ  कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढ़स्य  प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥



तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥

कालिदासस्य मेघदूतं--खंड१.

चित्र
१.- कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त:     शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।
    यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु     स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु


माननीया शारदामहोदयया प्रेषिता देवीवन्‍दना ।।

चित्र
या कुंदेंदुतुषारहारधवला, या शुभ्रवस्त्रावृता.
या वीणावरदंडमंडितकरा, या श्वेतपद्मासना.
या ब्रह्माच्युतशंकरभृतिभिर्देवै: सदा वन्दिता.
सा मां पातु सरस्वती भगवती नि:शेष जाड्यापहा.

या देवी सर्वभूतेषु माँ रूपेण संस्थिता
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता
या देवी सर्वभूतेषु बुद्धि रूपेण संस्थिता
या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता.
नमस्तस्यै नमस्‍तस्‍यै नमस्‍तस्‍यै नमो नम: 

एषा विद्या हितकरी ।।

नित्यप्रार्थना 

विद्या विलास मनसो धृत शील शिक्षा.  सत्यः व्रता, रहित मान मलाप हारः संसार  दुःख दलनेन सुभूषिता ये  धन्या नरः विहित कर्म परोपकारः



जाल ज्योतिषं राशि ज्ञानं

चित्र

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या- धातु प्रकरणम्

चित्र

जाल ज्योतिषं

सर्वेभ्यः नमो नमः
वयं प्रारम्भे चरणे ग्रहाणां नामानि पठितवन्तः अधुना राशयः के इति ज्ञास्यामः राशिः - नव चरणैः मिलित्वा भवति ( नक्षत्राणां चरणानि) नक्षत्राणि २७ भवन्ति॥ प्रत्येकस्मिन् नक्षत्रे ४ चरणानि भवन्ति ॥ अश्विनी-          चू               चे                 चो                  ला भरणी -          ली              लू                  ले                  लो कृत्तिका -        अ               इ                   उ                   ए रोहिणी -         ओ               व                  वी                    वू मृगशिरा-        वे                वो                   का                  की आर्द्रा -           कु               घ                    ङ्                    छ पुनर्वसु -        के               को                  हा                    ही पुष्य-             हू                 हे                    हो                   डा  अश्लेषा -        डी                डू                      डे                   डो मघा -           मा               मी                    मू                    मे  पू…

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - शब्‍दरूप प्रकरणम् ।

हिन्‍दीभाषायां पठितुमत्र आघात: करणीय:

नमस्‍कार:
अद्यतनीयां कक्ष्‍यायां वयं शब्‍दरूपाणां प्रयोगं पठाम:। शब्‍दरूपे प्राय: कर्ता, कर्मादिकै: सह नियोक्‍तव्‍यानां रूपाणां परिचय: भवति
अपि च धातुरूपाणि क्रियाया: कृते प्रयुज्‍यन्‍ते । अर्थात् वाक्‍यनिर्माणे क्रियातिरिक्‍तं अन्‍यत्र शब्‍दरूपाणां प्रयोग: भवति
केवलं क्रियाया: कृते एव धातुरूपाणां प्रयोग: क्रियते ।
उदाहरणम् - राम साइकिल से विद्यालय जाता है । उपर्युक्‍ते पदे 'जाना' इति क्रियापदमस्ति, अत: 'जाना' इति पदेन् सह धातुरूपाणां प्रयोग: क्रियते
अन्‍यपदेषु यथोचितं शब्‍दरूपाणां प्रयोग: भविष्‍यति । एवं विधा वाक्यं निर्माति - राम: साइकिल यानेन (द्विचक्रिकया) विद्यालयं गच्‍छति ।
अत्रापि ध्‍यातब्‍यमस्ति यत् पुलिंगं, स्‍त्रीलिंगं अपि च नपुंसकलिंगस्‍य शब्दानां रूपाणि पृथक्-पृथक् भवन्ति
किन्‍तु धातुरूपाणि सर्वत्र यथावत् एव चलन्ति ।
उदाहरणार्थम् - राम के पास साइकिल है - रामस्‍य पार्श्‍वे द्विचक्रिका अस्ति । रमा के पास साइकिल है - रमाया: पार्श्‍वे द्विचक्रिका अस्ति ।।
अत्र शब्‍दरूपं राम: रमाया: च रूपाणि षष्‍ठी विभक्ते: एकवचनानुसारं प्रयुज…

ज्योतिष-शास्त्रम्

नमो नमः 
अत्र भवतां सर्वेषां अतीव स्वागतम् ॥ मम एषः सौभाग्यः यत् भवतां समक्षे किमपि वक्तुं अवसरः मया लब्धः ॥ तर्हि तदनुगुणं- अद्य आरभ्य वयं ज्योतिष विषये क्रमशः चर्चां करिष्यामः ॥ वयं सर्वे जानीमः यत् भारते विज्ञानस्य तादृशी परम्परा आसीत् यत् दृष्ट्वा,पठित्वा वयं गौरवं अनुभवामः - तस्य वैज्ञानिकी-परम्परायां ज्योतिषं अपि आयाति॥ ज्योतिष अर्थात प्रकाशः एषः सामान्यार्थः विशेष-दर्शन शक्तिः नाम अपि ज्योतिषमिति ॥ शनैः-शनैः वयं यदा अस्य अभ्यासं करिष्यामः तदा अन्ये अर्थाः अपि अस्माकं मस्तिष्के आगमिष्यन्ति ॥  ज्योतिष-नामक शास्त्रे त्रीणि रूपाणि कथितानि - होरा, सिद्धान्त, संहिता च अत्र क्वचित् भेदाः अपि दृश्यन्ते परम् सः  नैव अस्माकं विषयः ॥ तत्र होरा अन्तर्गते एव फलितम् इति॥ फलितम् नाम फल-ज्ञानम् ॥ किं च फल-ज्ञानम् ? अर्थात् कर्मणः फलम् प्रायशः अस्माकं मनसि एषा शङ्का अपि आयाति यत् कर्म प्रधानं व भाग्य प्रधानं ? अस्मिन विषये अपि ज्योतिष-शास्त्र सम्यक् निर्णयं ददाति ॥ अग्रे सः विषयः अपि समक्षे भविष्यति ॥  प्रथमं अस्माभिः प्रारम्भे चरणे ग्रहाणां नामानि ज्ञातव्यानि- सूर्यः चन्द्रः, भौमः,बुधः,गुरुः,शुक्रः,…

स्‍वागतं कुर्वन्‍तु अस्‍माकं ज्‍योतिषाचार्यश्रीभूपेन्‍द्रपाण्‍डयवर्यस्‍य ।।

चित्र
अस्‍माकं संस्‍कृतपरिवारे एक: नूतन: सदस्‍य: समाहित: लेखक रूपेण ।
एष: महाभाग: अस्ति श्री भूपेन्‍द्रपाण्‍डेयवर्य: ।।
एष: अ‍स्‍माकं ज्‍योतिषज्ञानं वर्धयिष्‍यति ।
समये-समये वयं एतस्‍य मार्गदर्शनं प्राप्नुम: अथ च स्‍वग्रहविषयकानां शंकासमाधानमपि प्राप्‍नुम: ।।

अत: साम्‍प्रतं स्‍वागतं कुर्वन्‍तु अस्‍माकं ज्‍योतिषाचार्यस्‍य श्री भूपेन्‍द्रपाण्‍डेयवर्यस्‍य ।।
भूपेन्‍द्र जी, भवत: स्वागतमस्ति ।।

भवदीय:-आनन्‍द:

संस्‍कृतलेखनप्रशिक्षणकक्ष्‍या - लिंग-वचन प्रकरणम्

अद्य संस्‍कृतभाषायां लेखनाय यत् द्वितीयस्‍तरे सर्वाधिकमहत्‍वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् । अत: अत्र लिंग-वचनयो: प्रस्‍तुति: क्रियते । एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।
लिंगानि त्रीणि भवन्ति 
पुलिंगम् स्‍त्रीलिंगम् नपुंसकलिंगम्
उदाहरणम् -  राम: , रमा , फलम् 
वचनानि अपि त्रीणि एव भवन्ति
एकवचनम् द्विवचनम् बहुवचनम् राम: रामौरामा: रमा रमेरमा: फलम् फलेफलानि
अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति 
रमा (स्‍त्रीलिंगम्) एकवचनमस्ति , रमे (स्‍त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्‍त्रीलिंगम्) बहुवचनमस्ति
अस्मिन क्रमे एव
फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।
वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्‍य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्‍यस्‍य अपि भवति ।
यथा - राम: उत्‍तमेन मित्रेण सह् विद्यालयं गच्‍छति
अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्‍य विश…