संदेश

November, 2010 की पोस्ट दिखाई जा रही हैं

।। उपनिषदामृतम् ।।

चित्र

ईशावास्यमिदं सर्वँ यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥  ( ईशावास्‍योपनिषद् -1 )

एकं दृश्यं द्वौ विचारौ

चित्र
एकं दृश्यं द्वौ विचारौ
नेहा राहुलः च मातृ-पितृभ्यां सह शिवालयं गच्छतः स्म ।  नगरात् बहिः मार्गे तैः एकः आम्रवृक्षः दृष्टः ।  वृक्षस्य शाखासु बहूनि आम्रफ़लानि आसन् ।  वृक्षस्य अधः कश्चन मनुष्यः यष्ट्या शाखासु ताडयन् आम्रफ़लानि पातयति स्म ।  नेहा राहुलः च एतद् दृश्यं अवलोकयतः स्म ।  प्रहारं कृत्वा अपि फ़लम् न पतितं चेत् सः वारंवारं बलेन प्रहारं करोति स्म ।
"एतद् दृष्ट्वा भवतोः मनसोः के के विचाराः आगताः?"---- पिता पृष्टवान् ।
" सः मनुष्यः शाखासु यष्ट्या ताडयन् अस्ति ।  तदा एव वृक्षतः आम्रफ़लं पतति ।  यत् किमपि वयम् इच्छामः तत् प्राप्तुम् आक्रमणम् आवश्यकम् इति अहं मन्ये।"---राहुलः उक्तवान्।
" मम विचारः भिन्नः ।  यद्यपि सः वृक्षं ताडयति तथापि वृक्षः फ़लानि एव ददाति तस्मै ।  " ------नेहा विचारं प्रकटितवती । " शोभनम् ।  नेहे , उत्तमः विचारः ।  वृक्षः परोपकारार्थम् एव जीवति ।  मरणोत्तरम् अपि परोपकारम् एव करोति । राहुल, एषः तु अस्माकं पुरतः आदर्शः ।  " --- माता उक्तवती।

श्रीमद्भगवद्गीता - शारदा महोदयया प्रेषिता: श्‍लोका: ।।

चित्र
1- यदा संहरते चायं कुर्मोंगानीव सर्वश:,
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता.


2- विषया विनिवर्तन्ते निराहारस्य देहिन:
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते 


3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित:
इन्द्रियाणि प्रमाथिनी हरन्ति प्रसभम मन: ।।


4- तानिं सर्वाणि संयभ्य युक्त आसीत् मत्पर:
वशे हि यस्येद्रियाणि तस्य प्रज्ञां प्रतिष्ठा  ।।



।। मूल्‍यम् ।।

चित्र

सुभाषितानि - रामदास सोनी महोदयेन संकलितानि ।।

चित्र
1- शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने ।। (हितोपदेश)

2- एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु | तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मॄतम् ।।
3- सर्वं परवशं दु:खं सर्वम् आत्मवशं सुखम् |
एतद् विद्यात् समासेन लक्षणं सुखदु:खयो: ।।

4- अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |
अधनस्य कुतो मित्रम् अमित्रस्य कुतो सुखम् ।।

5- आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेवनमस्कार: केशवं प्रति गच्छति ।।

6- नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत् |
विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क: ।।

7- पापं प्रज्ञा नाशयति क्रियमाणं पुन: पुन: |
नष्टप्रज्ञ: पापमेव नित्यमारभते नर: ।। ( विदुरनीति )



8- अल्पानामपि वस्तूनां संहति: कार्यसाधिका तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिन: ।।



एतानि सुभाषितानि श्रीरामदास वर्येण संकलितानि सन्ति । तेन एतेषां सुभाषितानां हिन्‍दीअर्थ: अपि दत्‍त: अस्ति यत् टिप्‍पणीपेटिकायां प्रकाश्‍यते ।।

तत्र क: संशयः?

चित्र
कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नितराम् अरोचत। शुकं क्रेतुकामः महाराजः तं पुरुषम् अपृच्छत्, "भद्र! किम् अस्य शुकस्य मूल्यम्?" इति। पुरुषोऽवदत्, "सहस्रं सुवर्णनाणकानि" इति। चकितः महाराजः पुनरपि अब्रवीत्, "कस्मात् एतावत् मूल्यम् अस्य सामान्यस्य शिकस्य?" इति। तदा पुरुषेण उक्तम्, "महाराज, नायं सामान्यः शुकः। अयं तु पृष्टानां प्रश्नानाम् उत्तराणि वक्तुं समर्थः" इति। महराज उवाच, "नाहं विश्वसिमि" इति। पुरुष आह, "तर्हि स्वयं शुकः एव पृच्छ्यताम्" इति। महाराजः शुकम् अपृच्छत्, "किं त्वं प्रश्नानाम् उत्तराणि वक्तुं समर्थः?" इति। झटिति शुकेनोक्तम्, "तत्र कः संशयः?" इति। महाराजः प्रभावितः। स पुनरपृच्छत्, "किं तव मूल्यं सहस्र-सुवर्ण-नाणक-मितं विद्यते?" इति। शुकः प्राह, "तत्र कः संशयः?" इति। महाराजः शुकस्य प्रतिभां दृष्ट्वा विस्मितः। अनुक्षणं तेन राजकोषात् सहस्रं सुवर्णनानि प्रदाय स शुकः क्रीतः। स तं शुकं प्रासादस्य द्वार…

वर्षा कथं भ‍वति - वेदेषु विज्ञानम् ।।

चित्र

श्रीअयोध्यादर्शनं कारयन् एकं मधुरगीतम् - श्री अनिरूद्धमुनिपाण्‍डेय 'आर्त' ।

चित्र
अत्र आघातं कृत्‍वा गीतं श्रृण्‍वन्‍तु/स्‍वीकुर्वन्‍तु ।
प्रकाशक: यूडू.कॉम

अस्मिन् गीते श्री अवधक्षेत्रे स्थितानां प्रमुख मंदिराणां वर्णनम् अस्ति ।
प्रमुखतया श्री जन्‍मभूमिमंदिरं , श्री हनुमानगढी, श्री कनकभवनं इतोपि बहूनि मन्दिराणि वर्णितानि सन्ति ।
यदि भवान इत: पूर्वं कदापि श्री अवधक्षेत्रं न आगतवान् अस्ति चेत् एतत् गीतं अवश्‍यं श्रृणोतु । अनेन भवत: संज्ञाने सर्वाणि प्रमुखमंदिराणि आगमिष्‍यन्ति अथ च तत: उपविश्‍य एव श्रीअयोध्‍या दर्शनमपि भविष्‍यति ।

एतत् गीतं मम पित्रा गीतमस्ति । मुख्‍य: स्‍वर: पितु: एव अस्ति । हारमोनियम वादनं पित्रा एव कृतमस्ति अथ च ढोलकवादनं लघुभ्राता स्‍वरूपानन्‍देन कृतमस्ति ।
गीतस्‍य रचनाकार: श्री पिताजी एव अस्ति ।
गीतम् अवधीभाषायाम् अस्ति ।।

पवनतनय स्तुति:

चित्र
अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशम् 
रघुपतिप्रियभक्तं वातजातं नमामि ।।



विश्व-संस्कृत-पुस्तकमेला

संस्कृत-प्रसाराय गतेषु शतवर्षेषु आयोजितेषु भव्यतमः, दिव्यतमः च कश्चित् उपक्रमः बेंग्लुरु इत्यत्र आयोज्यमानः अस्ति। विश्व-संस्कृत-पुस्तक-मेला इति उपक्रमस्य अस्य आख्या। अयम् उपक्रमः जानेवारी-मासस्य ७,८,९,१० इत्येतेषु दिनेषु आयोजयिष्यते। सर्वतो दीप्तिमन्तं कृत्स्नं संस्कृतजगत् एकत्र एव द्रष्टुकामैः संस्कृतानुरागिभिः अवश्यमेव अत्र समुपस्थातव्यम्। तद्विषयके http://www.samskritbookfair.org इत्यस्मिन् जालपुटे सर्वः विस्तरः वर्तते एव, तथापि अत्र किञ्चित् लिख्यते-
- विश्वे प्रकाशितानि संस्कृतसम्बद्धानि प्रायः सर्वाणि पुस्तकानि अत्र उपलप्स्यन्ते
- अवसरेऽस्मिन् पञ्चशताधिकानि विनूतनानि संस्कृतपुस्तकानि अपि प्रकाशितानि भविष्यन्ति
- संस्कृते विज्ञानम्, संस्कृत-हस्तलिखित-सम्पदा, संस्कृतस्य सद्यःस्थितिः इत्यादि-विषयिण्यः प्रदर्शिन्यः
- संस्कृत-विपणी
- शलाकापरीक्षा
- पण्डित-परिषद्
- अनुवादकार्यशालाः, संस्कृते नूतनशब्दनिर्माणम्, संस्कृते प्रबन्धन-शास्त्रम्
- बेंग्लुरु-नगरे १००८ संस्कृत-सम्भाषण-शिबिराणाम् आयोजनम्
- संस्कृत-नाटकोत्सवः
- संस्कृत-क्रीडोत्सवः
- भारते विद्यमानानां १२ संस्कृत-विश्वविद्यालय…

श्रीमद्भगवद्गीता- केचन् श्‍लोका: शारदा महोदयया प्रेषिता: ।।

1-सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ,
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि


2-कर्मण्येव अधिकारस्ते मा फलेषु कदाचन,
मा कर्मफलहेतुर्भूर्मा ते संगो अस्त्वकर्मणि.


श्रीकृष्ण उवाच:
3-प्रजहाति यदा कामान सर्वानपार्थ मनोगतान,
आत्मन्येवात्मना तुष्ट:स्थित्धिर्मनोरुच्यते? 


4-दु:खेश्व्नुद्विग्नमना: सुखेषु विगतस्पृह:,
वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते !!



श्रीमद्भगवद्गीता- केचन् श्‍लोका: शारदा महोदयया प्रेषिता: ।।

श्रीमदभगवतगीता-श्रीकृष्ण उवाच:

1-  वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि,
     तथा शरीराणि विहाय जीर्णान्यन्याति संयाति नवानि देहि ।


2-  स्थित्प्रज्ञस्य का भाषा समाधिस्थस्य केशव ,
     स्थितधी: किं प्रभाषेत किमासीत व्रजेत किं ?



सोमरसविषये कानिचन् तत्‍वानि – वेदरहस्‍यम्

हिन्‍दी भाषायां पठन्‍तु
बहुदिनानि गतानि मया एक: सोमविषयक: लेख: प्रस्‍तुतीकृत: आसीत् ।  तस्मिन् लेखे केचन् वैदेशिकानां मतानां प्रस्‍तुतीकरणं अथ च तेषां निराकरणम् आसीत् किन्‍तु तत्र पर्याप्‍तं प्रमाणानाम् अभाव: आसीत्  । तेषां वैदेशिकविद्वांसानां मतं ज्ञातुं अत्र आघातं कुर्वन्‍तु ।  तै: सोमविषये भ्रमोत्‍पादकं किमपि मतं दत्‍तमासीत् यत् सोम एकं शैवालं (फंफूदविशिष्‍टम्) अस्ति ।  केचन् उक्‍तवन्‍त: यत् एतत् किमपि सुरावत् पदार्थम् आसीत्  ।  किन्‍तु तेषां मतं सम्‍यक् न प्रतीयते  ।  यतोहि सुरा तु दैत्‍यानां पेयं आसीत् देवानां कथं भवितुमर्हति  ।  शैवालम् अपि अपवित्र मन्‍यते अस्‍माभि: चेत् तस्‍य प्रयोग: तु देवै: सम्‍यक् न प्रतीयते  ।            सम्‍प्रति ऋग्‍वेदस्‍य अध्‍ययने मया केचन् मन्‍त्रा: दृष्‍टा: येन अहं प्रमा‍णयितुं शक्‍नोमि यत् सोमरसं न तु सुरा आसीत् नैव च शैवालम्  ।  निम्‍नोक्‍तमन्‍त्रेषु सोमस्‍य वर्णनं प्रमाणयति एतत् –
मन्‍त्र:-  सुतपात्रे सुता इमे शुचयो यन्ति वीतये । सोमासो दध्‍याशिर: ।। (ऋग्‍वेद-1/5/5) मन्‍त्रार्थ:- एष: सुत: (निचोडा हुआ) शुद्धीकृ…
मया अपि अद्य श्रीअयोध्‍यापरिक्रमा कृता

अद्य प्रात:काले पंचवादने उत्‍थाय अहं नित्‍यक्रिया निवृत्तं भूत्‍वा , स्‍नानादिकं कृत्‍वा सज्‍जी अभवं परिक्रमायां गन्‍तुम्  ।  श्री ज्‍येष्‍ठ पिता जी , ज्‍येष्‍ठामाता जी, बुआ जी अथ च फूफा जी सर्वे मया सह पादोन पंचवादने (5 बजे) श्रीअयोध्‍या परिक्रमामार्गे अव‍तरितवन्‍त:  ।  अस्‍माकं पदयात्रा प्रारम्‍भं अभवत्  ।  श्री ज्‍येष्‍ठपित्रा सह अहं स्‍वयात्रां 3 होरायां (घंटा) समापितवान्  । एतत् प्रथमवारम् आसीत् यत् अहं श्री भगवत: रामचन्‍द्रस्‍य 5क्रोशी परिक्रमां कृतवान्  ।  ह्य: मम मंगलवासरव्रतम् असीत् अत: म‍नसिं किंचित् भयम् आसीत् किन्‍तु भगवत: कृपया कष्‍टं अधिकं न अनुभूतम्  ।  सम्‍प्रति शरीरस्‍य गति: यत् किमपि अस्ति किन्‍तु मनसि सन्‍तोष: विद्यते  । भगवत: इच्‍छा भवेत् चेत् अग्रिम वर्षे अपि 5क्रोशी परिक्रमां तु अवश्‍यमेव करिष्‍यामि  ।   भवन्‍त: अपि भगवत: प्रदक्षिणां कृत्‍वा आत्‍मसन्‍तोषजन्‍यं लाभं स्‍वीकुर्वन्‍तु  । जय श्री राजा राम चन्‍द्र

14क्रोशस्य परिक्रमा समाप्ता , श्व: आरभ्य 5क्रोशी परिक्रमा आरभ्‍यते ।।-अयोध्या मेला

चित्र
एतेषु दिवसेषु अहं अयोध्‍यायाम् अस्मि  । सम्‍प्रति अत्र अयोध्‍या मेला चलति  ।  अत्र मया प्रतिदिनं श्री भगवत: श्री राम चन्‍द्रस्‍य मानसिक दर्शनं प्राप्‍यते  । अद्य श्री हनुमानगढी अपि गतवान् आसम्  ।   तत्र बहुजनसम्‍मर्द: असीत्  ।  सहस्राधिका: अपि जना: दर्शनार्थं आगतवन्‍त: आसन् ।  एते दूरदेशेभ्‍य: आगत्‍य अत्रैव सम्‍पूर्ण मेला पर्यन्‍तं तिष्‍ठन्ति  ।             14क्रोशस्‍य पुनश्‍च 5क्रोशस्‍य प्ररिक्रमणं प्रतिवर्षं भवति इति तु सर्वे जानन्ति एव  ।  14क्रोशस्‍य परिक्रमणं तु जातं ह्य: एव किन्‍तु इदानीं श्‍व: आरभ्‍य 5क्रोशस्‍य परिक्रमणं प्रारम्‍भमस्ति  ।  एतत् परिभ्रमणं द्विदिवसात्‍मकं भ‍वति ।   अस्मिन् वर्षे अहमपि प्रथम वारं परिक्रमायां भागं स्‍वीकरोमि भगवत: श्रीरामस्‍य प्रदक्षिणां कर्तुम्  ।  श्‍व: प्रात:काले 4वादने जागरणं कृत्वा सर्वा: क्रिया: समाप्‍य साक्षात् परिक्रमामार्गे अवतरिष्‍यामि  ।            भवतां स्‍मरणे स्‍यात् अक्‍टूबर 1992तमस्‍य वर्षस्‍य दृष्‍यं यदा मुलायमसिंह: परिक्रमां अवरोधितवाना‍सीत्  ।  तत: पूर्वं अथ च तत: अनन्तरम् अद्य पर्यन्‍तं कदापि परिक्रमा अवरोधिता न जाता , अग्रे अपि …

श्री अनिरूद्धमुनि पाण्डेतय ‘आर्त’ कृत श्रीहनुमत् विनयकुंज !!

चित्र
भवतां सर्वेषां साहित्‍ये रुचि: तु अवश्‍यमेव स्यात्।प्रायश: सर्वेषां स्‍मरणे श्री हनुमानचालिसा भवेत् अपि।सम्प्रति अहं भवतां सर्वेषां सम्‍मुखे एकं इतोपि हनुमानचालिसावत् एव श्रीहनुमत् विनयकुंज इति काव्‍यं प्रस्‍तूतोमि।एतत् काव्‍यं मम पूज्यपिता श्री अनिरूद्धमुनि पाण्‍डेय ‘आर्त’ कृत अस्ति । श्री पिता जी फैजाबाद क्षेत्रस्‍य स्‍थानीय कवि रूपेण प्रशिद्ध: सन्ति।तेषां एषा रचना अपि स्‍थानीय जनेषु बहुप्रचलिता अस्ति ।प्रायश: सर्वस्मिन् गृहे भवन्‍त: एतां रचनां प्राप्‍तुं शक्‍यन्‍ते। अस्‍य काव्‍यस्‍य कोटि: उत्‍तमा अस्ति अत: भवतां सर्वेषां पार्श्‍वे अपि एषा सुमिरिनी भवेत् एतदर्थं अहं अद्य भवतां सम्मुखे एतस्‍या: प्रस्‍तुतीकरणं करोमि।
।। इत: स्‍वीकुर्वन्‍तु ।।

हरिभजनसिंह: नूतनं विश्वकीर्तिमानम् अकरोत् ।।

अस्‍माकं भारतदेश: सर्वदा कमपि न कमपि चमत्‍कारं  करोतिएव। सम्‍प्रति यत् चमत्‍कारं जातमस्ति तत् अस्ति हरिभजनसिंहस्‍य विश्‍वकीर्तिमानम् । किं भवन्‍त: चिन्‍तयन्ति यत् कन्‍दुकक्षेपणे एव स्‍यात् ,  चेत् भवतां आश्‍चर्याय एव सम्‍प्रति हरिभजनसिंह: कन्‍दुकक्षेपणे किमपि चमत्‍कारं न कृतवानस्‍ति अपितु बल्‍लाचालने कृतवान् । विश्‍वक्रिकेटक्रीडा इतिहासे प्रथमवारं कश्चित् कन्‍दुकक्षेपक: बल्‍लाचालने कीर्तिमानं स्‍थापितवानस्ति । साधारणं न अपितु शतकद्वयं टेस्‍टद्वयक्रीडायामेव । इत: पूर्वं एष: चमत्‍कार: अन्‍य: कश्चित् अपि कन्‍दुकक्षेपक: न कर्तुं शक्‍तवानासीत् । पुनश्‍च अष्‍टमे स्‍थाने अवतरणं सत्‍यपि शतकम् इत्‍यपि एकं विश्‍वकीर्तिमानमेवास्ति ।
धन्‍य: भारतपुत्र धन्‍या भारती च ।।

एकं सुचिन्‍तनम् ।।

धनाभावे विषमकाले मृत्योर्मुखे च  धैर्यं न त्यजेत् । विवाद समये विपत्तिकाले च साहसं न त्यजेत् ।।

भूतकालस्‍य वाक्‍यनिर्माणप्रक्रिया - संस्‍कृतलेखनप्रशिक्षणम् ।।

चित्र
एतानि सन्ति कानिचन् भूतकालसम्‍बन्धिवाक्‍यानि । अग्रिमे लेखे कानिचन् इतोपि वाक्‍यानि पठाम: । तावत् नमो नम:
भवदीय: - आनन्‍द:

ओबामादेशाटनम् ।।

भारतदेशस्य यात्रायाम् ओबामा महोदयस्य अटनं महाराष्‍ट्रे अभवत् । स: महाराष्ट्रस्य मुख्यमंत्रीमहोदयस्य पदच्‍युति: अपेछितवान् । बहूनां प्रदेशानां सम्प्रति चिन्तनम् अस्ति यत् अयि भो  ओबामा .. तव आगमनं अस्‍माकं प्रदेशे किमर्थं न अभवत् । सर्वेषां प्रदेशानां मन्त्रिण: भ्रष्‍टाचारे निमग्‍ना: सन्ति , ते आतंकिता: आसन् ।
          .........उत्तरप्रदेशे भगिनी संतोषं अनुभवति ।।

घृते सूर्यमयूखे च पुष्टिदायकतत्वानि - वेदेषु विज्ञानं ।।

हिंदी भाषायां पठन्तु

मन्त्रः - मित्रं हुवे पूतदक्षं वरुणं च रिशादशं  । धियं घृताचीं साधन्ता  । (ऋग्वेद १/२/७)

भावार्थः - घृतवतपुष्टं , प्राणप्रदं, प्रकाशकं, हितकरं, पवित्रं च सूर्यदेवस्य  अपि च  समर्थवरुणदेवस्य  आह्वानं करोमि ! सः अस्माकं धिय: उर्वरं कुर्यात् ।।

टिप्पणी - उक्त मन्त्रे सूर्यं घृतवतपुष्टिप्रदं प्राणप्रदं पवित्रं च उक्तं अस्ति ।
अद्यतनविज्ञानं अपि एतादृशी एव उद्घोषणा  करोति यत् घृते एवं -एवं तत्वानि  भवन्ति ! पुनः च  विज्ञानं एतत् अपि स्वीकरोति यत् सूर्यमयूखे अपि लाभप्रदगुणाः सन्ति ! एतत् तथ्यं बहुभ्यः वर्षेभ्यः पूर्वमेव अस्माकं ऋषयः उद्घाटितवन्तः ! इति


क्रमशः ..................
--

भवदीय: - आनन्‍द:

यज्ञं चेत् हिंसा कथं ।। वेद विशिष्‍टम् ।।

।। हिंदीभाषायां पठितुम् अत्र आघात: करणीय: ।।
मन्‍त्र- अग्‍ने यं यज्ञमध्‍यवरं विश्‍वत: परिभूरसि । स इद्देवेषु गच्‍छति ।।(ऋग्‍वेद - 1/1/4)

भावार्थ: - भो अग्निदेव । भवान यं हिंसारहितयज्ञं सर्वत: आवृयते स: यज्ञ: एव देवानां प्रति गच्‍छति ।।
विशेष - गतशताधिकेषु वर्षेसु केचन् विक्षिप्‍तमस्तिष्‍कविद्वांस: वैदिकयज्ञानामुपरि हिंसाजन्‍यआरोपणं क्रियन्‍ते स्‍म । आश्‍चर्यं एतदस्ति यत् एते सम्‍भवत: सम्‍पूर्णं ग्रन्‍थं अधीत्‍वापि ग्रन्‍थारम्‍भे एव दत्‍तस्‍य मन्‍त्रस्‍य अर्थं कर्तुं न शक्‍तवन्‍त: । प्रथम मण्‍डलस्‍य प्रथम सूक्‍तस्‍य एतत् चतुर्थमन्‍त्रं वदति यत् य: हिंसारहितयज्ञ: अग्निना सर्वत: आवृयते स: यज्ञ: एव देवानां प्रति गच्‍छति । इति ।  यज्ञायोजनं क्रियते देवानां सन्‍तुष्टिकरणार्थमेव, य: यज्ञ: देवानां प्रति न गच्‍छति तस्‍य आवश्‍यकता एव नास्ति, पुनश्‍च क: इच्‍छति यत् तस्‍य प्रार्थना स्‍वीकृत: न भवेत् । 
--  भवदीय: - आनन्‍द: