संदेश

January, 2011 की पोस्ट दिखाई जा रही हैं

क्रोधः पराजितः

क्रोधः पराजितः
भ्राता गौतमबुध्दस्य शिष्यत्वं स्व्यकरोत् अत: कश्चन बुध्दाय अक्रुध्यत् | पूर्वमेव तस्य मनसि बुध्दविषये तिरस्कार: आसीत् | स: वर्धमान: अभवत् | झटिति उत्थाय स: बुध्दस्य पुरत: निन्दाशब्ददानम् कृतवान् | बुध्दस्य शिष्या: तम् अवरोध्दुम् इच्छन्त: आसन् | किन्तु बुध्द: तान् सर्वान् तुष्णीकृतवान् | स: मनुष्य: निरन्तरं कटुवचनानि वदन् आसीत् | बुध्द: क्रुध्येत् किमपि प्रत्युत्तरं कुर्यात् इति स: अमन्यत | किन्तु बुध्द: शान्तचित्त: आसीत् | जामितं भुत्वा स: अपि तुष्णीकृतवान् | तदा बुध्द: तम् अपृच्छत् "भवत: गृहम् अतिथय: आगच्छन्ति वा ? भवान् आदरसत्कारं करोति वा? तेभ्य: भोजनं पानकं च अर्पयति वा?" " आम् , आगच्छन्ति | सत्कारमपि करोमि | किमर्थं पृच्छति भवान् ?" स: आश्चर्येन पृष्टवान् | " यदि ते भोजनं न स्वीकुर्वन्ति चेत् भवान् किम् करोति ? " ---- बुध्द: " चेत् अहम् खादामि भोजनम् |" ------ स: मनुष्य: " भो:, इदानीं भवान् मह्यम् कटुवचनानि दत्तवान् | अहम् न स्वीकृतवान् | अत: तानि वचनानि भवान् एव स्वीकंरोतु | " तस्य मुखे सम्भ्रमं दृष्ट्वा बुध्द: अग्रे अवदत…

विश्‍व संस्‍कृतपुस्‍तकमेलाया: कानिचन् चलचित्राणि ।।

विश्‍व संस्‍कृतपुस्‍तकमेलायां ये जना: गतवन्‍त: ते तु जानन्ति एव कियत् वृहद् कार्यक्रम: आसीत् एष: , किन्‍तु ये गन्‍तुं समयं न लब्‍धवन्‍त: तेषां कृते अत्र कानिचन् चलचित्राणि प्रस्‍तोमि यद्दृष्‍ट्वा भवन्‍त: तस्‍य कार्यक्रमस्‍य एकं विहंगमावलोकनं कर्तुं शक्‍क्ष्‍यन्ति  ।



।। एकं संक्षिप्‍त परिचयावलोकनम्  ।।






।। ग्रामन्‍यायालये न्‍यायाधीष: न्‍यायं करोति  ।।




।। जना: संस्‍कृतगीतं गीत्‍वा नृत्‍यं कुर्वन्ति ।।


।। संस्‍कृतसाक्षात्‍कार: ।।




।। वृद्धा: अपि संस्‍कृतं गीत्‍वा नृत्यति ।।


इतोपि बहु किमपि आसीत् तत्र द्रष्‍टुं, किन्‍तु तत् सर्वं क्रष्‍टुं सक्‍यं न आसीत्  ।
अत: एतानि चित्राणि एव दृष्‍ट्वा तस्‍य आयोजनस्‍य विशालतां चिन्‍तयन्‍तु  ।।


भवदीय: - आनन्‍द: 

सम्पन्ना विश्वसंस्कृतपुस्तकमेला !!

चित्र
बहुभिः विराड्भिः भृशं प्रकाशमानैः च तारकैः परिपूर्णम् अनन्तम् आकाशम् इव आसीत् पुस्तकमेलायाः तत् चित्रम्। लक्षशः योजनानि यावद् विस्तीर्णाः तारकाः यथा अनन्ते आकाशे प्रकाशस्य बिन्दवः इव लक्ष्यन्ते तथैव विश्वस्य विविधेभ्यः भागेभ्यः आगताः शतशः विद्वांसः मेलाम् एतां दीपयन्ति स्म। भारतस्य विविधेभ्यः भागेभ्यः प्रायः ८००० जनाः आगताः आसन्। विविधानां संस्कृतसम्बद्धसंस्थानां प्रायः ३०० पुस्तकानि प्रकाशितानि। प्रायः ६०० संस्कृतसम्भाषणशिबिराणि सम्पन्नानि। विविधानां प्रकाशकानां १५४ पुस्तकापणेभ्यः प्रायः त्रिकोटिरूप्यकाणां पुस्तकनि विक्रीतानि। संस्कृतग्रामः, संस्कृतविपणी, संस्कृतप्रदर्शनीभिः वातावरणम् ऊर्जितम् आसीत्। प्रतिसायं एस्.पी.बालसुब्रह्मण्य-सदृशाः कलाकाराः स्वकलाभिः संस्कृतम् अर्चितवन्तः। राज्यद्वयस्य मुख्यमत्रिणौ, एकस्य राज्यस्य राज्यपालः, केषाञ्चित् राज्यानां शिक्षामन्त्रिणः, मूर्धन्याः संस्कृतविद्वांसः, प्रबन्धनशास्त्रस्य दिग्गजाः, भूतपूर्व-न्यायमूर्ति-लाहोटी-सदृशाः विधिज्ञाः च उपस्थाय संस्कृतमातुः सेवनाय बद्धकटितां प्रदर्शितवन्तः। शलाकापरीक्षा, कविसम्मेलनम्, आशुकाव्यरचना, संस्कृतचित्रकला…

धर्मक्षेत्रे 3

चित्र
सर्वेषाम कृते नमोनमः । गीतायाः प्रथमे अध्याये दुखं, दुखस्य कारणं, दुखस्य प्रभाव: च निरूपितं कृतम् । दु:खस्य निवारणं किं नास्ति इदं अपि निरूपितं । कृपयाविस्टो अर्जुनः शास्‍त्रज्ञः अस्ति । स: कथयति - युद्धं मा करणीयं । युध्दे बन्धु-बान्धवाः नष्टाः भविष्यन्ति । स्त्रींजनाः प्रदुष्‍यन्ति कुलकलुषितं च करिष्यन्ति । वर्णसंकरे पिंड-पित्र तर्पणं न भविष्यति । अतः नरके अनियतं वासं भविष्यति । अतः अर्जुनः शास्‍त्रज्ञः अस्ति। किन्तु शास्‍त्रज्ञानेन दुखस्य निवारणं न भवति । सर्वाणि सूत्राणि, पुराणस्य, नियमानि स्मृतिनिहितानि, दुखस्य पूर्णौषधिः न सन्ति । तानि जीवननियामक सूत्राणि सन्ति । दु:खस्य निवारणं गीतायाः परम् उपदेशः एव कर्तुं शक्यते । गीतायाः मुख्यं सूत्रं द्वैतस्य निवारणम् एव अस्ति, इदं मम मतम् । अहं गीतायाः अल्पज्ञः छात्रो अस्मि । विद्वत्जनानां विचारस्य सदा स्वागतम् अस्ति। कृपया टिपण्णी लिखतु ।

धर्मक्षेत्रे २

चित्र
धर्मक्षेत्रे अर्जुनः मोहग्रस्‍त: अभवत् । तस्य दु:खस्य कारणम् आसीत् केवलं द्वैतता । अस्मिन् युध्दक्षेत्रे मम बान्धवाः सन्ति । रिपुनाम मध्ये स्वजनाः अपि सन्ति । श्वशुरा: , मातुलाः, पुत्राः, पौत्राः च सन्ति । एकत्वं श्रेयश्करम् अस्ति । यदि एकत्वभावं अस्ति सर्वे जनाः मम वान्धवाः न सन्ति केपि शत्रु: । शुभम् अति सम्यकं च । किन्तु यदि द्वैत्भावम् अस्ति 'इदं मम, इदं न मम' तत्र कारणं दुखस्य । एकं विचारम् अस्ति - सर्वं मम एव अस्ति अथवा सर्वं तव एव अस्ति । अत्र एकत्वम् अस्ति । किन्तु इदं मम, इदं न मम द्वैततायाः कारणं दुखस्य मूलं च । स्वधर्म: रक्षणीय: । जलस्य धर्म: क:? तरलता, शीतलता च । पावकस्य धर्म: उष्णता । धर्म: पाहनस्य कठोरता । यदि पाहनः कठोरतां त्यजति तदा पाहनं न कथ्यते । तदानुरूपं युध्दक्षेत्रे सैनिकस्य धर्म: रिपुदमनम् अस्ति । रिपुसेना मध्ये शस्त्रधारी-जनाः रिपुरेव सन्ति । अत्र द्वन्द्वं विनाशस्य कारणं ।

धर्मक्षेत्रे

चित्र
श्री गीतायाः प्रथमश्लोकः अति विचारपूर्णः अस्ति श्‍लोक:अस्ति
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः
मामकाः पाण्‍डवाश्‍चैव,किमकुर्वत संजय ।धृतराष्‍ट्रस्‍यप्रश्नं समस्तानां दु:खानां कारणं समावेशितं करोति । गीताज्ञानं समस्तानां दुखानां औषधिः । किन्तु औशधिप्रयोगस्य पूर्वं रोगः तस्य कारणं च चिन्तनीयम । दु:खम् अस्ति संसारस्य रोगम् ।किं कारणं रोगस्य ? द्वैतता अस्ति अस्य कारणं । ' मामकाः पाण्ड्वस्य' इंगितं करोति संसारस्य दुखस्य कारणं ।।।।।।।।।

विश्व-संस्कृत-पुस्तक-मेला कार्यक्रमाः

चित्र
आत्मीयमित्राणि,
विश्वसंस्कृतपुस्तकमेलायाः विषये भारते सर्वत्र कुतुहलम् अस्ति। कीदृशः अयं कार्यक्रमः भविष्यति? के अस्य विशेषाः? के मान्यवराः अत्र समायास्यन्ति? इत्यादिविषये सर्वेऽपि विज्ञातुम् उत्सुकाः। संस्कृतभारत्याः अखिलभारतीयमन्त्रिमहोदयात् यत् इ-पत्रं मया प्राप्तं तस्मिन् कार्यक्रमस्य सम्पूर्णा समयसासिणी एव दत्ता आसीत्। सेयम् समयसारिणी मया इह भवतां कृते यथावत् प्रस्तूयते-

विश्‍व संस्‍कृतपुस्‍तकमेला - समय सारिणी

विस्तरस्तु उपरि दत्त जालपुटे द्रष्टव्यः। इति शिवम् ।।