संदेश

February, 2011 की पोस्ट दिखाई जा रही हैं

संस्कृत-सुभाषितानि -----2।।

चित्र
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैवकुटम्बकम्॥१॥
क्षणशः कणशश्चैव विद्यां अर्थं च साधयेत्।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्॥२॥
अश्वस्य भूषणं वेगो मत्तं स्याद गजभूषणम्।
चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥३॥
क्षुध् र्तृट् आशाः कुटुम्बन्य मयि जीवति न अन्यगाः।
तासां आशा महासाध्वी कदाचित् मां न मुञ्चति॥४॥
कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलंज्येत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥५॥
नाक्षरं मंत्रहीतं नमूलंनौधिम्।
अयोग्य पुरुषं नास्ति योजकस्तत्रदुर्लभः॥६॥
धारणाद्धर्ममित्याहुः धर्मो धारयत प्रजाः।
यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः॥७॥
आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम्।
धर्मो हि तेषां अधिकोविशेषो धर्मेण हीनाः पशुभिः समानाः॥८॥
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।
यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्॥९॥
सत्यं ब्रूयात् प्रियं ब्रूयात ब्रूयान्नब्रूयात् सत्यंप्रियम्।
प्रियं च नानृतम् ब्रुयादेषः धर्मः सनातनः॥ १ ०॥

संस्कृत-सुभाषितानि ।।

चित्र
अग्निः शेषं ऋणः शेषं शत्रुः शेषं तथैव च।
पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्॥१॥
पृथिव्यां त्रीणि रत्नानि जलं अन्नं सुभाषितम्।
मूढ़ैः पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते॥२॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥३॥
वनानि दहतो वन्हेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम॥४॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोः विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय॥५॥
दु्र्बलस्य बलं राजा बालानां रोदनं बलम्।
बलं मूर्खस्य मौनित्वं चोराणाम् अनृतम् बलम्॥६॥ अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च।
अजापुत्रं बलिं दद्यात देवो दर्बलघतकः॥७॥
अष्टादशपुराणानां सारं व्यासेन कीर्तितम्।
परोपकारः पुण्याय पापाय परपीडनम्॥८॥
हिमालयं समारभ्य यावत् इंदु सरोवरम्।
तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते॥९॥
एतद्देशप्रसूतस्य सकशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः॥१०॥

प्रहेलिका-कथा

चित्र
प्रहेलिका
"तात, महेशपितृव्यः दूरवाणीं कुर्यात् चेत् तेन सह सम्भाषणं न करिष्यामि। कतिवारम् असत्यं वदनीयम् ? तातः गृहे नास्ति इति असत्यं किमर्थं वदनीयम् ?"
पितुः समीपे उत्तरं नासीत्। मालत्यै एवम् आचरणं कदापि न रोचते स्म। माता तु उपदिशति, सदैव सत्यमेव वदनीयम्। किन्तु तातः असत्यं वादयति। पयोहिमम् आनीय पित्रा पुत्रीं तोषयितुं प्रयासः क्रियते। तथापि मालती रुष्टा एव आसीत्।
गृहस्य रङगकर्म प्रचलितम् आसीत्। अतः प्रतिदिनं पाठशालां गच्छन्ती मालती सप्ताहान्तेSपि भ्रमणाय बहिः न गतवती। तेन सा जामिता अभवत्। महेशः वारंवारं दूरवाणीं कृतवान्। तेन सह वार्तालापं करणीयम् आपतितम्। तस्याः अनिच्छां दृष्ट्वा पिता स्पष्टीकृतवान् , "मालती, महेशः मम उत्तमम् मित्रम्। महेशेन नूतनं कारयानं क्रेतव्यम्। किन्तु पर्याप्तं धनं नास्ति। धनसाहाय्यम् इच्छति। अस्माकं गृहे रङगकर्म प्रचलति। अतः मया न शक्यते।अतः परिहारः।" "महेशपितृव्याय एवं कथयतु।"-----मालती उक्तवती। "न शक्यते।"---पिता अवदत्। "किमर्थं न?"----मालती पृष्टवती। तदैव दूरवाणीरवः जातः। मालती महेशम् अवदत् , " पितृव्य , आदौ…

संस्‍कृतजगत: लेखकै: अनुरोध: ।।

आदरणीया: संस्‍कृतजगत: विद्वान्‍स: यथा वयं पश्‍याम: गतसु वर्षेसु जालजगति हिन्‍दीभाषाया: प्रभाव: वर्धित: । तत: पूर्वं जालजगति आंग्‍लभाषाया: एव वर्चस्‍वम् आसीत् । अस्‍माकं भारतदेशे तु हिन्‍दीभाषाया: अपि अधोगति: आसीत्  ।  एवं प्रतिभाति स्‍म यत् हिन्‍दीभाषाया: अपि गति: संस्‍कृतसदृशमेव भविष्‍यति किन्‍तु तदा एव जालजगति हिन्‍दीलेखकानां अवतरणं जातम्  ।  2001 तमे वर्षे कदाचित् हिन्‍दीभाषाया: अपि सा गति: आसीत् जालजगति या गति: अद्य संस्‍कृतस्‍य अस्ति  । तदा आसन् चत्‍वारि पंच जालपृष्‍ठा: केवलम्  । किन्‍तु जना: पराजयं न अंगीकृतवन्‍त: , प्रयासं वहन्‍त: अद्य हिन्‍दीभाषाया: लक्षाधिकी पृष्‍ठसंख्‍या जाता  । एवं विधा एव अद्य या गति: संस्‍कृतभाषाया: जालजगति अस्ति तां गतिं विचिन्‍त्‍य यदि वयं पराजयं मत्‍वा उपविशाम: चेत् संस्‍कृतस्‍य हानि: एव अत: अद्य अहं पुन: एकवारं भवतां सर्वेषां संस्‍कृतानुरागिणां आह्वानं करोमि यत् अद्य आरभ्‍य एव कृपया स्‍वसंकल्‍पं दृढीकृत्‍वा संस्‍कृतपृष्‍ठलेखने संलग्‍न: भवन्‍तु  ।  निश्‍चयेन अस्‍माकं शुभसंकल्‍प: पूर्णं भविष्‍यति  ।
जयतु संस्‍कृतम्

अभिलाष:

चित्र
दयामय ! देव ! दीनेषुदयादृष्टि: सदा देया । प्रतिज्ञा दीन रक्षाया दयालो ! जातु नो हेया ।। मनुष्या मानवा भूत्वा इदानीं दानवा जाता: । तदेषा मूढता देशाद् द्रुतं दूरे त्वया नेया ।। त्वदुपदेशामृतंत्यक्त्वाविपन्नो हन्त लोकोयं । तदुद्धाराय चैतेषां प्रभो ! गीता पुनर्गेया ।। किमधिकं ब्रूमहे भगवन् ! विनीतप्रार्थनैकेयम् । यदेते बालका: स्वीया: प्रभो नो विस्मृतिंनेया: ।।

त्रिकालाबाधितं सूत्रम्

चित्र
धीरोदात्तस्य राज्ञः विषये एका भिन्ना कथा। राजा शूरः आसीत्। तत्वचिन्तकः अपि। नुतनेषु गहनेषु विषयेषु सदैव चिन्तयन् आसीत्। विद्वासाम् आद्रियते स्म। तैः सह विविधेषु विषयेषु चर्चां करोति स्म। एकदा प्रातः उत्थाय तस्य मनसि कश्चन विचारः आगतः। किञ्चित् चिन्तयित्वा सः पण्डितां सभागृहे निमन्त्र्य संबोधितवान्। "कृपया मह्यम् एकं विशिष्टं वाक्यं कथयतु। यत् श्रुत्वा हसन्तः हसनं स्थगयेयुः। रुदन्तः रोदनं स्थगयेयुः। मया बहु चिन्तितम्। किन्तु-----। भवत्सु कोSपि जानाति वा?" "चिन्तयतुं समयः आवश्यकः।" इति सर्वैः उक्तम्। सभागृहे पश्यन् श्रुण्वन् च आसीत् विदूषकः। "जानामि। चिटिकायां लिखितम् अस्ति।" इति उक्त्वा विदूषकः राज्ञे चिटिकां दत्तवान्। राज्ञा चिटिका उद्घाटिता। पठिता च। सन्तुष्टः जातः। "उत्तमम्। यथेष्टं वाक्यम् अस्ति, एषा परिस्थितिः अपि परिवर्तयेत्।"

जय जय हे भगवति सुरभारति ! तव चरणौ प्रणमाम: ।।

चित्र
जय जय हे भगवति सुरभारति ! तव चरणौ प्रणमाम: ।। नादतत्‍वमयि जय वागीश्‍वरि ! शरणं ते गच्‍छाम: ।।1।। त्‍वमसि शरण्‍या त्रिभुवनधन्‍या सुरमुनिवन्दितचरणा । नवरसमधुरा कवितामुखरा स्मितरूचिरूचिराभरणा ।।2।। आसीना भव मानसहंसे कुन्‍दतुहिनशशिधवले ! हर जडतां कुरू बुद्धिविकासं सितपंकजरूचिविमले ! ।।3।। ललितकलामयि ज्ञानविभामयि वीणापुस्‍तकधारिणि ! ।। मतिरास्‍तां नो तव पदकमले अयि कुण्‍ठाविषहारिणि ! ।।4।। जय जय हे भगवति सुरभा‍रति ! तव चरणौ प्रणमाम: ।।

शारदा महोदयया प्रेषिता श्री भगवद्गीता

१- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना,
न चाभावयत:शान्तिरशान्तस्य कुत:सुखम.-६६

२- प्रसादे सर्व दु:खानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते-६५

३- रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन,
अत्मवशयै:विधेयात्मा प्रसादमधिगच्छति.

सहकारः

पुरातनी कथा अस्ति । काशीयात्रा करणीया नाम पूण्यकार्यं करणीयम् इति मानसिकता आसीत् । यात्रा सुकरा न। यतः प्रवासस्य इदानीम्तनम् साधनम् न आसीत् । विशालाः मार्गाः, मार्गे सुविधाः च न आसन् । विष्णुदासः नाम्ना कश्चन अन्धः युवकः काशीयात्रां कर्तुम् इच्छुः आसीत् । किन्तु परिवारस्य, प्रतिवेशिनाम्, परिचितानाम् च अनुमतिः न आसीत् । एकत्र प्रवासः कठिनः अपरत्र सः दृष्टिहीनः। तथापि सः दृढनिश्चयं कृत्वा निर्गतवान् । नगरात् बहिः आगत्य परितः जनानाम् ध्वनीं श्रुतवान् । "काशीनगरस्य मार्गम् भवत्सु कोsपि कृपया दर्शयति वा?" सः उचैः पृष्टवान् । वृक्षस्य अधः उपविष्टः कृष्णकुमारः अवदत् " अहम् जानामि काशीनगरस्य मार्गम् । मया अपि काशीयात्रा करणीया । किन्तु अहम् तु खञ्जः।" "आगच्छतु , आवाम् परस्परसहाय्येन काशीयात्रां कुर्व । भवान् मम नेत्रे भवतु, अहं भवतः पादौ भवामि । आगच्छतु , मम पृष्ठे उपविशतु ।" ---विष्णुदासः अवदत् । विष्णुदासेन कृष्णकुमारेण च परस्परसहाय्येन काशीयात्रा कृता। तौ सुखरुपौ प्रत्यागतवन्तौ। यत् कार्यम् एकाकिना अशक्यम् आसीत् तत् व्दयोः एकत्रीकरणेन शक्यम् अभवत् । एवम् एव अस्माभिः अपि…