संदेश

March, 2011 की पोस्ट दिखाई जा रही हैं

निर्णायक क्रीडायां भारतस्‍य प्रवेश:

चित्र
प्रसन्‍ना: भवन्‍तु सर्वे भारतीयक्रिकेटप्रसंसका:  ।  साक्षात् एव भारतेन पाकिस्‍तानदेशस्‍योपरि जयं प्राप्‍य निर्णायकक्रीडायां प्रवेश: प्राप्‍त:  ।  सचिनेन 85 धावनांकम् अर्जितम्  ।  

संस्‍कृतं कठिनम् उत सरलम्

एकदा अहं एकेन मित्रेण सह एकस्‍या: महिलाया: गृहं प्रति गतवान्  ।  सा महिला एकस्मिन् महाविद्यालये संस्‍कृतविषयस्‍य एव उपाचार्या आसीत्  ।  तस्‍या: द्वौ पुत्रौ आस्‍ताम्  ।  तौ द्वौ अपि तकनीकिक्षेत्रे अध्‍ययनं कुर्वन्तौ आस्‍ताम्  ।  तस्‍या पति: अपि कुत्रचित् अध्‍यापनकार्यम् एव कुर्वन् आसीत् इत्‍युक्ते स: अपि शिक्षक: एव आसीत् संस्‍कृतविषयस्‍य  ।  आवां तत्र गतवन्‍तौ संस्‍कृतशिविरचालनाय स्‍थानं द्रष्‍टुं पुनश्‍च तत्र पाठका: सन्ति न व इति द्रष्‍टुम्  ।  तत्र गत्‍वा आवां तां पृष्‍टवन्‍तौ यत् किं सा शिविरचालने सहयोगं दास्‍यति  ।  सा पृष्‍टवती यत् किं संस्‍कृतम् एतावत् सरलं यत् 10 दिवसेषु जना: वक्‍तुं शक्‍नुयु:   ।  मम मित्रम् उक्‍तवान्  आम् इति  ।

वर्तमानकालस्‍य अनिश्चित-वाक्‍यानि

चित्र
वर्तमानकालस्‍य अनिश्चित-वाक्‍यानि तानि वाक्‍यानि भवन्ति यत्र एतत् न ज्ञायते यत् वाक्‍यस्‍य गति: का अस्ति  ।  यथा - स: गच्‍छति  ।  अत्र निश्चितं नास्ति यत् स: कदा गच्‍छति अद्य गच्‍छति अथवा स्‍व: गच्‍छति , प्रात: गच्‍छति उत मध्‍याने अथवा सायंकाले गच्‍छति  ।  अद्य एतेषाम् एव वाक्‍यानाम् अत्र वयं चतुर्षु सोपानेषु अध्‍ययनं कुर्म:  ।  एतानि सोपानानि सन्ति साधारणवाक्‍यानि, नकारात्‍मकवाक्‍यानि, प्रश्‍नवाचकवाक्‍यानि अथ च नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि  ।




पुलिंग-एकवचनम् साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानिस: गच्‍छति स: न गच्‍छति किं स: गच्‍छति ?किं स: न गच्‍छति ?वह जाता हैवह नहीं जाता हैक्‍या वह जाता है ?क्‍या वह नहीं जाता है ?भवान् गच्‍छति भवान् न गच्‍छति किं भवान गच्‍छति ?किं भवान् न गच्‍छति ?आप जाते हो आप नहीं जाते होक्‍या आप जाते हो ?क्‍या आप नहीं जाते हो ?अहं गच्‍छामि अहं न गच्‍छामि किम् अहं गच्‍छामि ?किम् अहं न गच्‍छामि ?मैं जाता हूँमैं नहीं जाता हूँक्‍या मैं जाता हूँ ?क्‍या मैं नहीं जाता हूँ ?

गौरवशालिन: ते बलिदानिन: ।

चित्र
कदाचित् कथनस्‍य आवश्‍यकता एव न स्‍यात् यत् अद्य क: विशिष्‍ट: अवसर: अस्ति  । वयं प्रायश: सर्वे एव जानिम: यत् अद्यतनात् 80 वर्षाणि पूर्वं  अद्य एव अस्‍माकं त्रय: क्रान्तिकारिण: माननीय: श्री भगतसिंह:, श्री राजगुरू:, श्री सुखदेव: गलबन्‍धेन निर्वापित:  ।  अद्य स: अवसर: नास्ति किन्‍तु तथापि वयं सम्‍यकरूपेण जीवाम: एतस्‍य कृते तेषाम् एव बलिदानम् आसीत्  ।  ते सदैव आदरणीया: सन्ति  ।        तेषां जीवनं बहु अल्‍पमेव आसीत् किन्‍तु तस्मिन् लघु जीवने अपि ते तत् कार्यं कृतवन्‍त: यत् जना: बहुषु जन्‍मेषु न कर्तुं शक्‍नुवन्ति अत: निश्‍चयेन ते वन्‍दनीया:  ।  गौरवशालिन: ते अस्‍माकं बलिदानिन:  ।। जय हिन्‍द

निरर्थकं सुखम्

चित्र

अस्मिन् होलिकोत्‍सवे ।।

चित्र
2011 तमस्‍य होलिकोत्‍सव: विशिष्‍टमेव आसीत्  ।  अस्मिन् अवसरे वयं बहु मोदितवन्‍त:  ।  मम पिता श्री कवि 'आर्त' तु होलिकोत्‍सवस्‍य कृते मत्‍त: एव  ।  होलिकोत्‍सवावसरे कवि 'आर्त', परिवारेण, मित्रै: च सह VIEW SLIDE SHOWDOWNLOAD ALL अस्मिन् चित्रपटले भवन्‍त: अस्‍या: होल्‍या: चित्राणि द्रष्‍टुं शक्‍नुवन्ति  ।  अत्र चित्रद्वये कवि 'आर्त'  स्‍वभ्रात्रिभि: ( कवि राममुनि:, कवि वशिष्‍ठमुनि:, कवि आर्त क्रमश: वामत:) सह सन्ति  ।  अन्‍यस्मिन् चित्रे कवि आर्त स्‍वपरिवारेण सह संकीर्तनं करोति  ।  अपरस्मिन्  चित्रे आर्त संकीर्तनमण्‍डलस्‍य जना: मिलित्‍वा फागगानं कुर्वन्ति  ।  अथ च अपरे चित्रे मम अपि चित्र गुलालवर्णे निमीलितम् इव  दृष्‍यते  ।  कवि आर्त द्वारा गीतं फागगानं श्रोतुं , द्रष्‍टुम् इच्‍छन्ति चेत् अत्र निच्‍चै: अहं कानिचन् चलचित्राणि योजयामि  । KAVI AART SANKEERTAN MANDAL- ANAND PANDEY HOLI MANHARWA–AART SANKEERTAN MANDAL AART SANKEERTAN MANDAL–ISHAPUR, ANAND PANDEY पश्‍यन्‍तु आनन्‍दं स्‍वीकुर्वन्‍तु च  ।

नववर्षं मंगलमयं भवतु

चित्र
प्रियमित्राणि भवतां सर्वेषां प्रति नूतनभारतीयवर्षस्य शुभकामना: होलिकोत्‍सवस्‍य च व्‍याहरामि । ह्य: होलिकोत्‍सवावसरे भवद्भि: आनन्‍दं स्‍वीकृतं स्‍यात् किन्‍तु कदाचित् बहूनां जनानां मस्तिष्‍के एष: विषय: नैव आसीत् यत् ह्य: एव अस्‍माकं भारतीय-नववर्षस्‍य अपि प्रथमदिवस: आसीत् । चैत्रकृष्‍ण प्रतिपदा इति भारतीय नववर्षस्‍य प्रथम: दिवस: ।संस्‍कृतजगत् परिवार: भवन्‍त: सर्वान् हार्दिकी शुभकामना व्‍याहरति होलिकोत्‍सवस्‍य , नववर्षस्‍य च । भगवत: कृपा सर्वे प्राप्‍नुयु: । एतत् नूतनवर्षं भवतां सर्वेषां कृते आह्लादकरं , उन्‍नतिदायकं च भवेत् इति अस्‍माकं कामना प्रार्थना च ।नववर्षं मंगलमयं भवतु होलिकोत्‍सवस्‍य शुभकामना च

||धनलक्ष्मी स्तोत्रम्||

चित्र
||धनलक्ष्मी स्तोत्रम्||

.. धनलक्ष्मी स्तोत्रम् ..

धनदा उवाच
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् |
कृपया पार्वती प्राह शंकरं करुणाकरम् ||

देव्युवाच
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् |
दरिद्र दलनोपायमंजसैव धनप्रदम् ||

मनीषापञ्चकम्

1- अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् . यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ..2- प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावभोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेधभ्रमः . किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे ..

फागगानं कथं कुर्वन्ति ।।

चित्र

विश्वासः

चित्र

शब्‍दरूपाणि-धातुरूपाणि ।।

सम्‍प्रति शब्‍दरूपाणाम् अथ च धातुरूपाणां विषये पठाम:  ।।
शब्‍दानां विविधविभक्तिषु प्रयोग: शब्‍दरूपं कथ्‍यते  । 
शब्‍दरूपम् - एकवचनम् शब्‍दार्थ: बहुवचनम् शब्‍दार्थ:प्रथमा विभक्ति: स:/सा/तत् (पुलिंग/स्‍त्री./नपुं)वह
(पुलिंग/स्‍त्री./नपुं)ते/ता:/तानि (पुलिंग/स्‍त्री./नपुं)वे (पुलिंग/स्‍त्री./नपुं)द्वितीया तम्/ताम्/तत् उसको तान्/ता:/तानि उनको तृतीया तेन/तया* उसके द्वारा तै:/ताभि:*उनके द्वाराचतुर्थी तस्‍मै/तस्‍यै उसके लिये तेभ्‍य:/ताभ्‍य: उनके लिये पंचमी तस्‍मात्/तस्‍या: उस से तेभ्‍य:/ताभ्‍य: उन से षष्‍ठी तस्‍य/तस्‍या: उसका/की तेषाम्/तासाम् उनका/की सप्‍तमी तस्मिन्/तस्‍याम् उस में तेषु/ताषु उन में
एतेषां सर्वेषां प्रयोग: अग्रे पाठ्यक्रमेषु पश्‍याम:  । 

         वाक्‍ये धातूनां कृते प्रत्‍यय-प्रयोग: धातुरूपं कथ्‍यते  ।  वाक्‍ये विभिन्‍नकालं दर्शयितुं क्रियापदे धातुरूपाणाम् आवश्‍यकता भवति  ।  धातुरूपाणि दशप्रकारेण भवन्ति  ।  किन्‍तु लोके प्रायश: पंच एव प्रयुज्‍यन्‍ते  ।  एते सन्ति लट्, लोट्, लड्., विधिलिड्., लृट  ।  एतेषां प्रयोग: द्रष्‍टव्‍य:  ।


लट्एकवचनम् शब्‍दार्थ: बहुवचनम् शब्‍द…

होलिकोत्‍सवावसरे होली मतवाला श्रुण्‍वन्‍तु ।।

चित्र
होलिकोत्‍सव: आगम्‍यमान: एव अस्ति अस्मिन् मासे  ।
भवन्‍त: प्रायश: अस्मिन् अवसरे लोकगीतानाम् आनन्‍दं प्राप्‍स्‍यन्ति एव किन्‍तु ये जना: नगरीया: सन्ति ते कदाचित् फाग इति लोकगीतं न श्रुतवन्‍त: स्‍यु:।अद्य अहं भवतां सर्वेषां कृते फाग गीतस्‍य मतवाला इति श्रावयामि।अस्मिन् चलचित्रे भवन्‍त: कवि आर्तद्वारा गीतं मतवालालोकगीतम् श्रोतुं शक्‍नुवन्ति  ।
अस्‍तु तर्हि आनन्दं स्‍वीकुर्वन्‍तु




अग्रे पुन: श्रावयाम: यदि भवन्‍त: ऐक्ष्‍यन्ति चेत्  ।।  भवदीय: - आनन्‍द:

जापाननगराय प्रार्थनां कुर्वन्‍तु ।।

चित्र
सर्वे जानन्ति एव सम्‍प्रति जापानदेशे प्रकृते: य: विरोध: प्रचलति  ।  जापानदेशे एकं महाप्रलयंकरं भूकम्‍पनम् आगतम्   ।  परह्य: एकं महाप्रलयंकरं भूकम्‍पनम् आगतं येन्  जापान देशस्‍य मियाकू नगरं नष्‍टं जातम्, पुनश्‍च इतोपि बहूनि नगराणि नष्‍टानि जातानि  ।  20 सहस्राधिकजना: गृहात् च्‍युता: अभवन्  ।  इति कथ्‍यते यत् प्रशिद्धभविष्‍यवक्‍ता नैष्‍ट्रोदमसेन 550 वर्षपूर्वम् एव अस्‍य महाप्रलयस्‍य घोष: कृत:  ।  यत् इदानीं सत्‍यं जातम्  ।  सम्‍प्रति जना: इत्‍यपि अनुभवन्ति यत् मायाभविष्‍यपत्रे यत् लिखितमस्ति यत् 2012तमे वर्षे महाप्रलयेन सम्‍पूर्ण पृथ्‍वी नष्‍टा भविष्‍यति किं तत् सत्‍यं तु नास्ति  ।यत् किमपि अस्ति किन्‍तु सम्‍प्रति अस्‍माभि: जापानदेशाय प्रार्थना करणीया यत् भगवत: कृपया तत्र जना: एतत् महाप्रलयं सोढुं शक्‍यु:  । 
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया:सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत्

सचिनस्‍य नवनवतितमं शतकम्

चित्र
भवतां सर्वेषां कृते शुभकामना:  ।  सचिनस्‍य नवनवतितमं शतकम् अद्य नागपुर क्रीडाक्षेत्रे पूर्णं जातम्  ।  तेन एकम् इतोपि विश्‍वकीर्तिमानम् अर्जितम्  ।  विश्‍वचषकक्रिकेटक्रीडायाम् अद्य पर्यन्‍तं केनचित् अपि क्रीडकेन् 6 शतकानि न अर्जितानि सचिनं विहाय  ।  अद्य सचिनस्‍य 99तमस्‍य शतकस्‍य पूरणे सति एतत् अपि कीर्तिमानम् स्‍वयमेव जातम्  ।  सम्‍प्रति स: एकाकी एव अस्ति विश्‍वचषकक्रिकेटकीडायां 6 शतकवीर:  ।।

माहेश्‍वर सूत्राणि - संस्‍कृतप्रशिक्षणम्

यथा पूर्वं एव अनुदिष्‍टम् आसीत् अद्य संस्‍कृतप्रशिक्षणस्‍य प्रथम: अभ्‍यास: प्रकाश्‍यते  ।  संस्‍कृताध्‍ययनस्‍य मूलम् अस्ति व्‍याकरणम्  ।  पुनश्‍च व्‍याकरणस्‍य मूलम् सन्ति माहेश्‍वर सूत्राणि  ।  एतानि सूत्राणि कानि अस्मिन् विषये साधारणप्रश्‍न: आगच्‍छति एव प्रायश:  ।  माहेश्‍वरसूत्राणि सन्ति तानि सूत्राणि यै: माध्‍यमै: प्रत्‍याहारनिर्माणं भवति  ।  एतेषां सूत्राणां विषये अग्रे विस्‍ताररूपेण पठाम: किन्‍तु अत्र एतेषां सूत्राणां प्रस्‍तुतीकरणं मात्र आवश्‍यकं प्रतीयते  ।  एतानि सूत्राणि भवन्‍त: स्‍वमानसपटले स्‍थापयन्‍तु यतोहि अग्रे एतेषां बहु-उपयोग: अस्ति, यदि संस्‍कृतव्‍याकरणं सम्‍यकतया ज्ञातुं इच्‍छन्ति चेत्  ।माहेश्‍वरसूत्राणिअइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल्इति एतानि माहेश्वरा-सूत्राणि  ।  एकस्य शब्दस्य अन्तिमः अक्षरः अनुबन्धः इति कथ्यते । "आदिरन्त्यॆन सहॆता" इत्यनॆन सूत्रॆण प्रत्याहार-शब्दस्य बॊध: जायतॆ । चतुर्दश सूत्रै: ४२ + १ प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारॆणैव् सम्पूर्णम् व्याकरणम् रच…

संस्‍कृतप्रशिक्षणारम्‍भात् पूर्वं निवेदनम्

चित्र
यथा अहं श्‍व: सूचितवान् आसम य‍त् संस्‍कृतस्‍य नूतनी प्रशिक्षणकक्ष्या आरभ्‍यमाणा अस्ति  ।  एतस्‍या: कक्ष्‍याया: विषये भवन्‍त: सूचनीया: सन्ति यत् एषा कक्ष्‍या जालजगति आयोजितासु सर्वासु संस्‍कृतप्रशिक्षणकक्ष्‍यासु सरलतमा अथ च उत्‍तमा भविष्‍यति  ।  अस्‍यां कक्ष्‍यायां भवन्‍त: प्रारम्भिकस्‍तरीयप्राठ्यकमं पठिष्‍यन्ति अथ च शनै:-शनै: मध्‍यमस्‍तरीय: पुनश्‍च उच्‍चस्‍तरीय: अपि पाठ्क्रम: पठिष्‍यन्ति  ।।        प्रत्‍येकस्‍य  पाठ्यक्रमस्‍य अनन्‍तरम् अहं भवतां सर्वेषां निर्देशम् अपि प्राप्‍तुं इच्‍छामि यत् पाठ्यक्रमे भवन्‍त: किं परिवर्तनम् इच्‍छन्ति, कुत्र असौविध्‍यम् अस्ति, किं अवगमने न आगतम्, किं इतोपि योजनीयम्, किं अपसारणीयम्, कुत्र काठिन्‍यम् इत्यादि  ।  भवतां निर्देश: पाठ्यक्रमस्‍य गुणवत्‍तावर्धने सहाय्यं भविष्‍यति  ।        मम पूर्वनिवेदनम् अपि अस्ति अस्‍माकं संस्‍कृतविदुषां प्रति यत् भवन्‍त: अपि संस्‍कृतप्रशिक्षणे सहयतां कुर्यु:  ।  ये संस्‍कृतप्रशिक्षणे सहाय्यं भवितुम् इच्‍छन्ति ते कृपया अस्‍य संकलकस्‍य लेखकत्‍वं स्‍वीकुर्वन्‍तु  ।  लेखकत्‍वं स्‍वीकर्तुं अधिकं किमपि न करणीयमस्ति केवलं अस्…

संस्‍कृतस्‍य नूतनप्रशिक्षणं प्रारभ्‍यते ।।

चित्र
संस्‍कृतजगत् पृष्‍ठे कानिचन् परिवर्तनानि सम्‍प्रति चलन्ति  ।  एतानि परिवर्तनानि केवलं अस्‍य दर्शकानां सौविध्‍यार्थम् एव क्रियते  ।  अस्‍माकं पुरातनबान्‍धवा: तु कदाचित् किंचित् अपि भ्रमिता: न भवेयु: किन्‍तु ये नूतना: सन्ति ते सम्‍भवत: किंचित् भ्रमेयु: किन्‍तु तेषां कृते अपि सम्‍प्रति पृष्‍ठस्‍य सरलीकरणं चलति  ।  ते अग्रे सम्‍यकतया पृष्‍ठं अवगन्‍तुं शक्‍क्ष्‍यन्ति  ।

धर्मक्षेत्रे ४

चित्र