श्वेतः कृष्णाङगारः ।।




सञ्जयः कुचेष्टाशीलः बालकः । परिजनानाम् आज्ञापालनं कदापि न करोति स्म ।  पाठशालां गन्तुम् अनुत्सुकः सदैव । प्रतिदिनं तस्य पिता तं ताडयति स्म । एकदा पिता उद्विग्नं भूत्वा अवदत् "घर्षणात् परमपि कृष्णाङगारः कृष्णः एव ।"
पितुः वाक्ता़डनेन कुप्यमानः सञ्जयः तुष्णीकृतवान् ।
सञ्जयः कृष्णाङगारः इति बालकाः तं पाठशालायां सम्बोधयन्ति स्म । यतः सञ्जयः श्यामवर्णीयः आसीत् । तातः अपि माम् कृष्णाङगारः सम्बोधयति इति मत्वा कृध्यमानः सञ्जयः गृहात् बहिः निर्गतवान्।
मार्गे पितुः मित्रस्य आपणः आसीत् । मित्रम् सुवर्णकारः आसीत् । स्नेह्युतः इति तस्य लौकिकः । आपणं गत्वा सञ्जयः अपृच्छत्, "महोदय, कृष्णाङगारः घर्षणात् परमपि कृष्णः एव । सः श्वेतः कथं भवेत्?"
महोदयः एकं निमिषं तस्य निरीक्षणं कृतवान् । आपाके फुत्कारं कृत्वा उक्तवान्, "घर्षणात् परमपि सः कृष्णः एव । किन्तु ज्वालयामः चेत् रक्तवर्णः भवति । श्वेतः भवति यदा भस्मीभवति । पश्यतु , आपाके पश्यतु । अस्माकं जगत् आपाकः इव । भस्मीभवेम चेदेव लौकिकः प्राप्यते वर्धते च । कष्टेन विना किमपि न लभते ।"
शनैः शनैः सञ्जयः कुचेष्टाः न्यूनीकृतवान् । पठने तस्य रुचिः वर्धमाना अभवत् ।


टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी