माहेश्‍वर सूत्राणि - संस्‍कृतप्रशिक्षणम्

 

                यथा पूर्वं एव अनुदिष्‍टम् आसीत् अद्य संस्‍कृतप्रशिक्षणस्‍य प्रथम: अभ्‍यास: प्रकाश्‍यते  ।  संस्‍कृताध्‍ययनस्‍य मूलम् अस्ति व्‍याकरणम्  ।  पुनश्‍च व्‍याकरणस्‍य मूलम् सन्ति माहेश्‍वर सूत्राणि  ।  एतानि सूत्राणि कानि अस्मिन् विषये साधारणप्रश्‍न: आगच्‍छति एव प्रायश:  ।  माहेश्‍वरसूत्राणि सन्ति तानि सूत्राणि यै: माध्‍यमै: प्रत्‍याहारनिर्माणं भवति  ।  एतेषां सूत्राणां विषये अग्रे विस्‍ताररूपेण पठाम: किन्‍तु अत्र एतेषां सूत्राणां प्रस्‍तुतीकरणं मात्र आवश्‍यकं प्रतीयते  ।  एतानि सूत्राणि भवन्‍त: स्‍वमानसपटले स्‍थापयन्‍तु यतोहि अग्रे एतेषां बहु-उपयोग: अस्ति, यदि संस्‍कृतव्‍याकरणं सम्‍यकतया ज्ञातुं इच्‍छन्ति चेत्  ।

 

माहेश्‍वरसूत्राणि

अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल् इति एतानि माहेश्वरा-सूत्राणि  ।  एकस्य शब्दस्य अन्तिमः अक्षरः अनुबन्धः इति कथ्यते । "आदिरन्त्यॆन सहॆता" इत्यनॆन सूत्रॆण प्रत्याहार-शब्दस्य बॊध: जायतॆ । चतुर्दश सूत्रै: ४२ + १ प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारॆणैव् सम्पूर्णम् व्याकरणम् रचितम्  ।

 

            माहेश्‍वरसूत्राणाम् अनन्‍तरं संस्‍कृते कति वचनानि, कति लिंगानि, कति विभ‍क्‍तय:, कति कारकाणि भवन्ति इति वदाम:  ।

             लिंगानि - संस्‍कृते त्रीणि लिंगानि भवन्ति  ।

पुलिंगम् - राम:, चषक:, अश्‍व:, वृक्ष: इत्‍यादि

स्‍त्रीलिंगम् - रमा, नदी, घटी इत्‍यादि

नपुंसकलिंगम् - फलं, जलं, व्‍यजनं, मित्रम् इत्‍यादि  ।

 

            वचनानि - संस्‍कृते त्रीणि वचनानि अपि भवन्ति  ।

एकवचनम् - एकस्‍य कृते प्रयुज्‍यते  ।  यथा -  राम:, सीता, स:, अहं, भवान् इत्‍यादि

द्विवचनम् - जनद्वयस्‍य कृते प्रयुज्‍यते  ।  यथा -  रामौ, बालकौ, सीते, तौ, आवां, भवन्‍तौ इत्‍यादि

बहुवचनम् - बहुजनानां कृते बहुवचनं प्रयुज्‍यते  ।  यथा -  बालका:, रमा:, ते, वयं, भवन्‍त: इत्‍यादि

सरलसंस्‍कृतस्‍य अस्मिन् प्रशिक्षणे केवलं एकवचनं पुनश्‍च बहुवचनस्‍य पाठनम् एव भविष्‍यति  । द्विवचनस्‍य प्रयोग: प्रौढकक्ष्‍यायां पठिष्‍याम:  ।

 

          विभक्‍तय: - संस्‍कृते सप्‍त विभक्‍तय: भवन्ति  ।

प्रथमा, द्वितीया, तृतीया, चतुर्थी, पंचमी, षष्‍ठी, सप्‍तमी

 

          कारकाणि - संस्‍कृते षट् कारकाणि भवन्ति  ।

कर्ता, कर्म, करणम्, सम्‍प्रदानम्, अपादानम्, सम्‍बन्‍ध:*, अधिकरणम्

(*सम्‍बन्‍धस्‍य कारकत्‍वं नास्ति ।)

 

         कारकविभक्तीनां प्रयोग:

विभक्‍तय: कारकाणि कारकचिह्नानि विभक्तिप्रयोग: अर्थ:
प्रथमा कर्ता ने स:/सा/तत् वह, उसने
द्वितीया कर्म को तम्/ताम्/तत् उसको
तृतीया करणं के द्वारा, से तेन्/तया/तेन् उसके द्वारा, उस से
चतुर्थी सम्‍प्रदानं के लिये तस्‍मै/तस्‍यै/तस्‍मै उसके लिये
पंचमी अपादानं से तस्‍मात्/तस्‍या:/तस्‍मात् उस से
षष्‍ठी सम्‍बन्‍ध: का की के तस्‍य/तस्‍या:/तस्‍य उसका/की/के
सप्‍तमी अधिकरणम् मे, पर तस्मिन्/तस्‍याम्/तस्मिन् उस पर/में

           अद्य एतावत् एव अलम्  ।  भवन्‍त: एतस्‍य स्‍मरणं कुर्वन्‍तु  ।  एतत् प्रकाश्‍य पंच वारं अभ्‍यास: कुर्वन्‍तु  ।  अग्रिम-अभ्‍यासे केचन् इतोपि महत्‍वपूर्ण-बिन्‍दव: प्रकाश्‍यते  ।  तावत् नमो नम:

(अस्मिन् भवन्‍त: किमपि परिवर्तनं, शब्‍दकाठिन्‍य वा अनुभवन्ति चेत् कृपया सूचयन्तु, अग्रिमकक्ष्‍यायां तस्‍य निवारणं कुर्म:  । धन्‍यवाद:)

 

भवदीय: - आनन्‍द:

http://www.sanskritjagat.co.in/

टिप्पणियाँ

  1. बहुत उपयोगी ज्ञान श्रृंखला -संस्कृत और संस्कृति सेवा का आपका संकल्प बहुत प्रशंसनीय है !

    उत्तर देंहटाएं
  2. ज्ञानवर्धक सूचनार्थ आभार:| अहं निश्चयम पठिष्यामि|

    उत्तर देंहटाएं
  3. बहुत सुन्‍दर प्रयास नवीन जी

    ज्ञानवर्धक सूचनार्थ आभार: में जरा सा दोष मात्र है
    ज्ञानवर्धक-सूचनार्थम् आभार: - सामासिक चिन्‍ह आवश्‍यक है । शेष ठीक है ।

    अहं निश्‍चयं पठिष्‍यामि में मात्र थोडा सा परिवर्तन
    अहं निश्‍चयेन पठिष्‍यामि ।।

    आपका प्रयास अति सराहनीय है ।

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी