शब्‍दरूपाणि-धातुरूपाणि ।।


           सम्‍प्रति शब्‍दरूपाणाम् अथ च धातुरूपाणां विषये पठाम:  ।।
शब्‍दानां विविधविभक्तिषु प्रयोग: शब्‍दरूपं कथ्‍यते  । 
शब्‍दरूपम् - एकवचनम् शब्‍दार्थ: बहुवचनम् शब्‍दार्थ:
प्रथमा विभक्ति: स:/सा/तत् (पुलिंग/स्‍त्री./नपुं) वह
(पुलिंग/स्‍त्री./नपुं)
ते/ता:/तानि (पुलिंग/स्‍त्री./नपुं) वे (पुलिंग/स्‍त्री./नपुं)
द्वितीया तम्/ताम्/तत् उसको तान्/ता:/तानि उनको
तृतीया तेन/तया* उसके द्वारा तै:/ताभि:* उनके द्वारा
चतुर्थी तस्‍मै/तस्‍यै उसके लिये तेभ्‍य:/ताभ्‍य: उनके लिये
पंचमी तस्‍मात्/तस्‍या: उस से तेभ्‍य:/ताभ्‍य: उन से
षष्‍ठी तस्‍य/तस्‍या: उसका/की तेषाम्/तासाम् उनका/की
सप्‍तमी तस्मिन्/तस्‍याम् उस में तेषु/ताषु उन में

एतेषां सर्वेषां प्रयोग: अग्रे पाठ्यक्रमेषु पश्‍याम:  । 

         वाक्‍ये धातूनां कृते प्रत्‍यय-प्रयोग: धातुरूपं कथ्‍यते  ।  वाक्‍ये विभिन्‍नकालं दर्शयितुं क्रियापदे धातुरूपाणाम् आवश्‍यकता भवति  ।  धातुरूपाणि दशप्रकारेण भवन्ति  ।  किन्‍तु लोके प्रायश: पंच एव प्रयुज्‍यन्‍ते  ।  एते सन्ति लट्, लोट्, लड्., विधिलिड्., लृट  ।  एतेषां प्रयोग: द्रष्‍टव्‍य:  ।


लट् एकवचनम् शब्‍दार्थ: बहुवचनम् शब्‍दार्थ:
प्रथमपुरुष: पठति पढता है पठन्ति पढते हैं
उत्‍तमपुरुष: पठामि पढता हूँ पठाम: पढते हैं
लोट् प्रथम पु. पठतु पढो पठन्‍तु पढें
उत्‍तमपु. पठानि पढूँ पठाम पढें
लड्. प्रथमपु. अपठत् पढा अपठन् पढे
उत्‍तमपु. अपठम् पढा(मैने) अपठाम पढा(हमने)
विधिलिंड्. प्रथमपु. पठेत् पढैं(आप) पठेयु: पढैं (सभी)
उत्‍तमपु. पठेयम् पढूँ (पढना चाहिये) पठेम पढें
लृट् प्रथमपु. पठिष्‍यति पढेगा पठिष्‍यन्ति पढेंगे
उत्‍तमपु. पठिष्‍यामि पढूँगा पठिष्याम: पढेंगे

यथा मया पूर्वमेव उक्‍तमासीत् यत् पाठ्क्रम: शीघ्र संस्‍कृतं कथं बोधयाम: इति दृष्‍टया भविष्‍यति अत: काठिन्‍यनिवारणाय अत्र द्विवचनस्‍य अथ च मध्‍यमपुरूषस्‍य प्रयोग: न दत्‍त: अस्ति  ।  प्रारम्भिक अवस्‍थायां यदि वयं एतेषां प्रयोग: न कुर्म: चेदपि अशुद्धं नैव  ।  अत:  एतयो: स्‍थाने प्रथमा अपि च बहुवचनस्‍य एव प्रयोगं कुर्म:  ।।

अद्यतनीयम् एतावत् एव अलम्  ।

भवदीय: - आनन्‍द:

टिप्पणियाँ

  1. आदरणीय पाण्डेय महाभाग
    नमो नमः
    भवतः वेब पुटं अन्तरजाले अपष्यम् । तथैव अभिनन्दनानि ।
    कोटिशः धन्यवादः अत्र पाठनाय ।

    इदानीं पठामि अपठम् पठिष्यामि सम्यक् अवगतम् ।

    पठेयम् इति रूपं लोट् विधिलिङ्गे च पठामि ।
    किम् एतत् साधु इति प्रश्नः अस्ति ।

    अपरं प्रश्नः अस्ति पठानि इति रूपं किम् अर्थम् ।

    वर्धयतु
    भवदीय
    राहुलः

    उत्तर देंहटाएं
  2. प्रिय राहुल जी

    संस्‍कृते भवत: रूचि: इति एतदर्थं धन्‍यवादा:


    पठेयम् पठेव पठेम

    इति विधिलिंगे एव चलति न तु लोट लकारे

    लोट लकारे तु पठानि पठाव पठाम
    इति रूपाणि चलन्ति ।
    पृष्‍ठस्‍योपरि अनवधानवशात् लोट लकारे अपि पठेयम् इति कृतमस्ति

    अवधानं दापयितुं महत् धन्‍यवादा:

    इदानीम् एव समीक्रियते ।


    पठानि इति रूपस्‍य अर्थ: मैं पढूँ अथवा मुझे पढना चाहिये इति भवति ।

    उत्तर देंहटाएं
  3. अध्ययनार्थम पर्याप्त एवं ज्ञान वर्धक सूचनार्थ पुन: साधुवाद:

    उत्तर देंहटाएं
  4. वाक्‍यसुधार - अध्‍ययनार्थं पर्याप्‍तम् एवं च ज्ञानवर्धक-सूचनार्थं पुन: साधुवाद:

    उत्तर देंहटाएं
  5. गुर्जरात्रा शब्द का अर्थ क्या है और गुरजरेश्वर का भी संस्कृत मै मुझे बताये कृपया

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .