सुरसाम्राज्ञी भारतस्‍य कृते व्रतं धारितवती


      rosebowlindiavskenyaicc     प्रिय देशवासिन: भवन्‍त: जानन्ति एव यत् सम्‍प्रति भारतीयक्रिकेटसमूह: क्रिकेटनिर्णायकप्रतिस्‍पर्धायां प्रविष्‍ट: अस्ति  ।  अद्य अस्‍या प्रतिस्‍पर्धाया: निर्णायकक्रीडा अस्ति यत् किंचित् समयानन्‍तरं प्रारभ्‍यते  ।  श्रीलंकारूपेण अस्‍माकं प्रबलप्रतिद्वन्दि: अस्ति पुरत:  ।  अत: भारतसमूहाय अद्य न केवलं तेषां परिश्रमस्‍य अपितु अस्‍माकं शुभकामनाया: महती अपि आवश्‍यकता अस्ति  ।  

 
      बहव: भारतीया: अद्य भारतीयसमूहस्‍य विजयकामनां कुर्वन् व्रतं धारितवन्‍त: सन्ति , पूजां-अर्चनां च कृतवन्‍त: सन्ति  ।  बहव: तु उपवासव्रतम् अपि धारितवन्‍त: सन्ति  ।  ते न केवलं सामान्‍यजना: एव अपितु केचन् काश्‍चन् वा तेषु अस्‍माकं भारतस्‍य प्रसिद्धा: जना: सन्ति  । 
         अस्‍माकं सुरसाम्राज्ञी लता माँ अपि अद्य भारतसमूहस्‍य विजयकामनां कुर्वन् उपवासव्रतं धारितवती अस्ति  ।  सा गतक्रीडायाम् अपि रात्रौ दशवादनानन्‍तरम् एव भोजनं कृतवती आसीत्  , अद्यापि सा सम्‍पूर्णदिनम् उपवासं धारयति  ।  धन्‍या  सुरसाम्राज्ञी  ।  वयम् अपि अस्‍माकं भारतस्‍य विजयकामनां कुर्याम  ।  भारतस्‍य कृते यत् किमपि कर्तुं शक्‍यम् अस्ति सम्‍प्रति तत् सर्वं वयं साधयेम  ।
             आगम्‍यतां मिलित्‍वा भारतस्‍य विजयशुभकामनां कुर्म:  । 
श्रीलंका प्रथमे दण्‍डप्रहारं चितवान् अस्ति  ।  गत्‍वा सर्वे क्रीडां (दूरदर्शने) पश्‍यतु अथ च भारताय  मिलित्‍वा प्रार्थना: , शुभकामना: च कुर्वन्‍तु  ।
जय हिन्‍द
जय भारत

भवदीय: - आनन्‍द:

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।