पिपीलिकायाः सातत्यम्

हरिवंशराय बच्चनः प्रख्यातः लेखकः। अभिनेतुः अमिताभस्य पिता। अमिताभः बालकः आसीत् तदानीम्तनी कथा।
तेषां गृहं नगरात् बहिः आसीत्।
पिता प्रतिदिनं प्रातः उत्थाय दूरम् अटनार्थं गच्छति स्म। मार्गे विचित्रः पाषाणः आसीत्। तस्य आकारः भिन्नः आसीत्। पित्रा तस्मिन् पाषाणे सौंदर्यं दृष्टम्। द्वाभ्यां पुत्राभ्यां पाषाणस्य विषये सः वारंवारं कथयति स्म। एकदा प्रातः पुत्रौ गृहस्य कृत्तेः समीपे एव तं पाषाणं दृष्टवन्तौ। अटनानन्तरं पित्रा कर्मकराः आहूताः। तैः पाषाणं अङ्गणे स्थापितवान्।
अमिताभः पितरम् अपृच्छत्, " पाषाणम् अन्तः आनेतुं साहाय्यम् आवश्यकम् आसीत्। दूरतः अत्र कथम् आनयत्?"
पिता अवदत् ," पुत्र, प्रतिदिनं प्रत्यागमनसमये अहं एतं पाषाणं अग्रे अपसारितवान्। तावदेव कर्तुं शक्नोमि स्म।
किन्तु नियमितरुपेण अकरोत्। "
अमिताभस्य मनसि एतस्य प्रभावः आबाल्यात् एव आसीत्। अतः सः सदैव यशः प्राप्नोति।

टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

फलानि ।।

गम् (जाना) धातु: - परस्‍मैपदी

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

क्रीड् (खेलना) धातु: - परस्‍मैपदी