संस्कृतं विज्ञानं च। प्रथमः भागः।





प्राचीनकाले बहवः विदेशीयाः भारतदेशं धनं ज्ञानं च प्राप्तुम् आगताः। तदा भारतः समृध्दः देशः आसीत्। वेदेषु ये सिध्दान्ताः सन्ति तेषां पालनं सर्वे जनाः कुर्वन्ति स्म। ज्ञानिनः अत्र निवसन्ति स्म। ख्रिस्तपूर्व चतुर्थशतके ग्रीकजनाः आगताः। ब्रिटीशः फ्रेंचः पोर्तुगीजः डचः च सप्तदशे अष्टादशेशतके आगताः।
भारतदेशे बहूनि विद्यापीठानि आसन्। उदाहरणार्थम्- नालन्दा, काशी, उदंडपूरः, तक्षशिला ।
बृहान्ति नगराणि आसन्। उदाहरणार्थम्- पाटलीपुत्रः, उज्जैनी।
बहवः राजानः आसन्। उदाहरणार्थम्- चन्द्रगुप्तमौर्यः, विक्रमादित्यः।
बहवः ज्ञानिनः आसन्। उदाहरणार्थम्- आर्यभट्टः, भास्कराचार्यः, चरकः, सुश्रुतः।
ब्रह्मगुप्तः, वराहमिहिरः, चरकः, सुश्रुतः, बौधायनः, आपस्तम्भः एतैः ऋषिभि लिखितान् ग्रन्थान् अध्येतुं विदेशीयाः विद्यार्थिनः आगताः।
किन्तु विदेशीसत्ताधीशैः आक्रमणैः च वैदिकसंस्कृतौ आघाताः जाताः। वारंवारम्। पूर्वं ११३० अध्ययनपरम्परापध्दतयः आसन्। इदानीं केवलं १२ पध्दतयः उपलब्धाः। ऋग्वेदे-२, यजुर्वेदे-५,सामवेदे-३, अथर्ववेदे-२
वेदाः चत्वारः। ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च।
वेदस्य चत्वारः भागाः। संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषद् च।
दश उपनिषदः। ईश-केन-कठ-प्रश्न-मुण्ड-माण्डुक्य-तित्तिरि।
ऐतरेयञ्च छान्दोग्यं बृहदारण्यकं तथा।।
ईशवास्योपनिषत्, केनोपनिषत्,कठोपनिषत्, प्रश्नोपनिषत्, मुण्डकोपनिषत्, माण्डुक्योपनिषत्, तैत्तिरीयोपनिषत्, ऐतरियोपनिषत्, छान्दोग्योपनिषत्, बृहदारण्यकोपनिषत्।
वेदाङ्गाः षट्। शिक्षा, व्याकरणम्, निरुक्तः, ज्योतिषः, कल्पः, छन्दः च।
न्यायः, मीमांसा, पुराणाः, धर्मशास्त्रः।
उपवेदाः चत्वारः। आयुर्वेदः, धनुर्वेदः, गन्धर्ववेदः, अर्थशास्त्रः च।
यदि मूलभूताः आधुनिकविज्ञानपध्दतीः जानीमः तर्हि वेदेषु स्थितविज्ञानस्य रसास्वादं आस्वदितुं शक्नुमः।

टिप्पणियाँ

  1. बहूपयोगी ऐतिहासिकी सूचना:

    धन्‍यवादा: निशा जी

    जना: एताभ्य: सूचनाभ्‍य: निश्‍चयेन लाभं स्‍वीकुर्य: ।

    ऐतिहासिकं ज्ञानं च प्राप्‍नुयु:

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी