संदेश

September, 2011 की पोस्ट दिखाई जा रही हैं

कानिचन चित्राणि नवरात्रि उत्सवस्य
 ।

चित्र

एकस्मिन् दिवसे एकशतसन्‍देशा: एव ।

चित्र
दूरसंचारनियामकप्राधिकरण (ट्राई) द्वारा अद्य एक: नियम: निष्‍कासित: ।  सम्‍प्रति एकस्मिन् दिवसे एकेन भाषयन्‍त्रेण केवलम् एकशतसंदेशा: एव प्रेषयितुं शक्‍य: भविष्‍यति ।  पूर्वं भाषसमूहा: अपि प्रत्‍येकस्‍य दिवसस्‍य कृते 500 संदेशा: ददति स्‍म ।  किन्‍तु सम्‍प्रति एतस्‍य सीमानिर्धारणं कृतम् ।  100 सन्‍देशा: एव एकस्मिन् दिवसे प्रेषयितुं शक्‍य: भविष्‍यति इदानीम् ।
      अद्य आरभ्‍य एव अवांछितसंदेशानाम् अपसारणमपि क्रियान्वितम् अभवत् ।  सम्‍प्रति यदि अवांछितसंदेशै: भवान् थकित: चेत् डूनाटडिस्‍टर्ब इति सेवा सक्रिय कर्तव्‍या ।  सेवाया: प्रारम्‍भानन्‍तरं अवांछितसंदेशै:, भाषै: च मुक्ति: प्राप्‍स्‍यते ।  एषा सेवा सक्रियकर्तुं START DND इति लिखित्‍वा 1909 संख्‍याया: उपरि प्रेषणीय: ।  भवत: संख्‍याया: उपरि डूनाटडिस्‍टर्ब सुविधा सक्रिया भविष्‍यति ।  अवांछितभाषै: संदेशै: च मुक्ति: प्राप्‍स्‍यते ।

उदात्‍तानुदात्‍तस्‍वरितभेदा: ।

चित्र
उदात्तानुदात्तस्वरितभेदात् अचाम्(अच् इति स्वरवर्णाः/माहेश्वरसूत्राणाम् ’अइउण्’ इत्यारभ्य ’ऐऔच्’ इति 


यावद् अच् प्रत्याहारे स्वराणां ग्रहणम्/ अत्र अचामिति षष्ठिबहुवचनम्) त्रैविध्यम् कल्पितम् । 


सिद्धान्तकौमुद्याः संज्ञाप्रकरणे उदात्तादिसंज्ञा विहिता । तद् यथा- उच्चैरुदात्तः(९/२/२९) 


नीच्चैरनुदात्तः(१/२/३०) समाहारः स्वरितः(१/२/३१) । एतेषाम् उदात्तानुदात्तस्वरितानाम् उच्चारणम् कुत्र 


क्रियते इत्यस्मिन् विषये तत्रभवता भट्टोजिपादेनोक्तम्-१) ताल्वदिषु सभागेषु स्थानेषूर्ध्वभागे 


निष्पन्नोऽजुदात्तसंज्ञः स्यात् । अर्थात् येषाम् अचाम्(स्वरवर्णानाम्) उच्चारणं मुखगह्वरे 


ताल्वादि(कण्ठमूर्धाताल्वादिषु) सभागस्य उर्धभागे सम्भवन्ति तेषाम् अचाम् उदात्तसंज्ञा भवति । २) तल्वदिषु 


सभागेषु स्थानेस्वधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यात् । अर्थात् ताल्वादिसभागस्य अधोभागे ये वर्णाः 


निष्पन्नाः(उच्चारिताः) भवन्ति ते अनुदात्ताः । ३) उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यत्र सोऽच् 


स्वरितसंज्ञः स्यात् । अर्थात् समानतया उदात्तानुदात्तयोः धर्मौ यस्मिन् वर्णे विद्येते सैव स्वरितः । 


ताल्वादिस्थानानां मध्यभागादुच्चार…

मेघदूतस्‍य पूर्वमेघात् केचन् श्‍लोका: ।

चित्र
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥
तसिमन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥
तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रव्रत्तिम् ।स प्रत्यग्रै: कुतजकुसुमै: कल्पितार्घाय तस्मै प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥
धूमज्योति: सलिलमरुतां संनिपात: क्व मेघ: संदेशार्था: क्व पतुकरणै: प्राणिभि: प्रापणीया: ।इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामआर्ता हि प्रक्रतिक्रपणाश्चेतनाचेतनेषु ॥५॥


वसुधासुधा संस्‍कृतसंघे रंजीततिवारीवर्येण प्रकाशिता: मेघदूतखण्‍डकाव्‍यस्‍य श्‍लोका: ।
संस्‍कृतजगत्

पितृविसर्जनस्‍यावसरे अस्‍माकं पूर्वजानां प्रति श्रद्धांजलि: ।

चित्र
पितृविसर्जनं इति किं नाम  पितृविसर्जनं किमर्थं क्रियते कस्‍य विसर्जनं च ।  अनेन लाभ: क: एते सर्वे प्रश्‍ना: अस्‍माकं मस्तिष्‍के आगच्‍छन्ति सम्‍भवत: ।  पितृविसर्जनं पितराणां 14 दिवसानां तर्पणादि क्रियाया: अनन्‍तरं प्रतिप्रेषणमस्ति तेषां लोके ।
        पितर: के - पितर: ते पूर्वजा: सन्ति अस्‍माकं, येषां कारणात् एव अस्‍माकं न केवलं जीवनम् अपितु अस्तित्‍वमपि अस्ति ।  ते पितरा: ये अस्मिन् संसारे न सन्ति सम्‍प्रति तेषामेव तर्पणादिकी क्रिया क्रियते अस्मिन् पक्षे ।  अनेन पितर: सन्‍तुष्‍टं भूय आशीर्वादान् ददति ।  यथा वयं प्रतिदिनं पूजार्चनं कुर्म: देवानां तथैव वयं पंचदश दिवसा: अस्‍माकं पितराणां प्रति यापयाम: ।  तेषां पूजार्चनं कुर्म: ।  तान् नमस्‍करोमि ।  तेषां आशीर्वादं च प्राप्‍नुम: ।
         अद्य एष: एव पूत अवसर: ।  14 दिवसानन्‍तरं अद्य पंचदशदिवसे पितराणां प्रतिप्रेषणमस्ति ।  तेषां पूजार्चनादिकानाम् अनन्‍तरं तेषां प्रतिगमनसमारोह: अस्ति ।  अद्य बहुत्र जना: ब्राह्मणाय भोजनं ददति ।  अन्‍यविधय: कार्याणि च विविधानि सम्‍पादयन्ति ।

        आगच्‍छन्‍तु अस्‍माकं पूर्वजानां, पितृणां प्रति आत्…

मधुरसंगीतं श्रुण्‍वन्‍तु अंतरजाले कार्यं कुर्वन्‍त: एव - Listen Old and New Hindi Songs while working on web (Online Redio)

चित्र
बहव: जना: सन्ति ये प्रायश: आदिवसं संगणके उपविश्‍य अंतरजाले एव कार्यं कुर्वन्‍त: भवन्ति ।  एते जना: सम्‍पूर्णं दिनं जालपृष्‍ठे कार्यं कृत्‍वा-कृत्‍वा थकिता: भवन्ति ।  विश्रामं प्राप्‍तुं संगीतादिकं श्रोतुमिच्‍छन्ति किन्‍तु संगणके अधिकं भारं न भवेत् एतदर्थं संगीतचालका: न उद्घाटयन्ति ।  सक्रिय संगीतं श्रोतुं जालपृष्‍ठानाम् अन्‍वेषणं क: कुर्यात् अतएव थकिता: एव भूत्‍वा कार्यं कुर्वन्ति ।           एतेषां कृते एव संस्‍कृतजगता नूतनं यन्‍त्रमंजूषायां: निर्माणं कृतम् ।  अस्‍या: यन्‍त्रमन्‍जूषाया: उपयोग: प्रायश: सर्वेषां कृते अस्ति एव ।  ये संस्‍कृतपृष्‍ठानाम् अन्‍वेषणं कुर्वन्ति ते अत्र प्रमुखपृष्‍ठानि प्राप्‍तुं शक्‍यन्‍ते ।  ये ईसंदेशपृष्‍ठानि प्रयुज्‍ज्‍यन्‍ते तेषां कृते अपि श्रृंखला: दत्‍ता: सन्ति ।           सर्वतो उपयोगकर: विषय: अस्ति अस्‍य संगीतसुविधा ।  यन्‍त्रमंजूषायां एकं रेडियोयन्‍त्रमपि दत्‍तमस्ति ।  अस्‍य यन्‍त्रस्‍य उपयोगं कृत्‍वा सर्वे विविधगीतानि श्रोतुं शक्‍नुवन्ति ।          संस्‍कृतजगत् पृष्‍ठम् उद्घाट्य अपि साक्षात् मधुरगीतानि श्रोतुं शक्‍नुवन्ति ।  सुन्‍दराणि पुर…

अहो दुर्दैव: ।

चित्र
भगवत: गणेशस्‍य प्रतिमा: गणपतिपूजाया: अनन्‍तरं कथं पतिता: सन्ति इत्‍येतस्‍य एकं विवरणं दर्शनं च अस्मिन् लेखे द्रष्‍टुं शक्‍यते ।




विसर्जनानन्‍तरं किम् अस्‍माकं देवा: देवा: न भवन्ति, एवं पतिता प्रतिमा किम् कश्‍यचित् अन्‍यस्‍य, न तु भगवता गणेशस्‍य ।










एवं विधा: पतिता: भगवत: प्रतिमा: अस्‍माकं दुर्मस्तिष्‍कस्‍य प्रतीक: एव ।




किमेष: अपराध: क्षम्‍य: वा  


-- 
भगवत: प्रतिमा: एवं विधा विखण्डिता: पतिता: इति विचारणीय: विषय: ।   यदि एवमेव वयम् अस्‍माकं देवानां प्रति उपेक्षाभावं धारयाम: चेत् निश्‍चयेन भारतस्‍य कल्‍याणं नैव स्‍थास्‍यते ।  अग्रे आगत्‍य एतस्‍य महापापस्‍य निराकरणं अस्‍माभि: करणीयमेव ।  तदैव अस्‍माकं पापस्‍य निराकरणं भवितुम् अर्हति । --