समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .




        गतलेखे समासस्‍य भेदानां विषये पठितवन्‍त: वयम् ।  उपभेदानां विषये अपि पठितवन्‍त: ।  सम्‍प्रति एतेषाम् उदाहरणानि पठिष्‍याम: ।


केवलसमास: - स च विशेषसंज्ञाविनिर्मुक्‍त: केवलसमास: ।
यस्‍य निश्चितं संज्ञा न भवति स: केवलसमास: 
पूर्वं भूत: - भूतपूर्वम्
वागर्थौ इव - वागर्थाविव

अव्‍ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्‍ययीभाव: । 
अव्‍ययीभावसमास: प्राय: त्रयस्त्रिंशद्धा । किन्‍तु मुख्‍या: सन्ति द्वादशद्धा एव । एतेषामेव अत्र परिचयं दद्म: ।

समीपार्थक: - कृष्‍णस्‍य समीपम् - उपकृष्‍णम् 
अभावार्थक: - मक्षिकाणाम् अभाव: - निर्मक्षिकम्
योग्‍यतार्थक: - रूपस्‍य योग्‍यम् - अनुरूपम्
वीप्‍सार्थक: - दिनं दिनं प्रति - प्रतिदिनम्
पदार्थानतिवृत्‍यर्थक: - शक्तिम् अनतिक्रम्य 
मर्यादार्थक: - आ मुक्‍ते: - आमुक्ति: (संसार:)
अभिविध्‍यर्थक: - आ बालेभ्‍य: - आबालम् (हरिभक्ति:)
आभिमुख्‍यार्थक: - अग्निम् अभि - अभ्‍यग्नि
मात्रार्थक: - शाकस्‍य लेश: - शाकप्रति
अवधारणार्थक: - यावन्‍त: श्‍लोका: - यावच्‍छ्लोकम्
पारेशब्‍दयुक्‍त: - पारे समुद्रस्‍य - पारेसमुद्रम्
मध्‍येशबदयुक्‍त: - मध्‍ये गंगाया: - मध्‍येगंगम्



2- तत्‍पुरुष समास: - प्राय: उत्‍तरपदार्थप्रधान: तत्‍पुरुष: ।
 तत्‍पुरुष: चतुर्द्धा । एतेषां चतुर्णामपि पुन: इतोपि उपभेदा: ।

सामान्‍य: तत्‍पुरुष: 
सामान्‍य: तत्‍पुरुष: सप्‍तधा ।

प्रथमा तत्‍पुरूष: - अर्धं ग्रामस्‍य - अर्धग्राम:
द्वितीया तत्‍पुरूष: - गृहं गत: - गृहगत:
तृतीया तत्‍पुरूष: - नखै: भिन्‍न: - नखभिन्‍न:
चतुर्थी तत्‍पुरूष: - गवे हितम् - गोहितम्
पंचमी तत्‍पुरूष: - चोरात् भयम् - चोरभयम्
षष्‍ठी तत्‍पुरूष: - वृक्षस्‍य मूलम् - वृक्षमूलम्
सप्‍तमी तत्‍पुरूष: - कार्ये कुशल: - कार्यकुशल:




कर्मधारय: समास: 
कर्मधारयसमास: अपि तत्‍पुरुषस्‍यैव एक: अन्‍य: भेद: ।  कर्मधारयसमास: नवधा ।

विशेषणपूर्वपद: - नीलो मेघ: - नीलमेघ:
विशेषणोत्‍तरपद: - वैयाकरण: खसूचि: - वैयाकरणखसूचि:
विशेषणोभयपद: - शीतम् उष्‍णम् - शीतोष्‍णम्
उपमानपूर्वपद: - मेघ इव श्‍याम: - मेघश्‍याम:
उपमानोत्‍तरपद: - नर: व्‍याघ्र: इव - नरव्‍याघ्र:
अवधारणापूर्वपद: - विद्या इव धनम् - विद्याधनम्
सम्‍भावनापूर्वपद: - आम्र: इति वृक्ष: - आम्रवृक्ष:
मध्‍यमपदलोप: - शाकप्रिय: पार्थिव: - शाकपार्थिव:
मयूरव्‍यंसकादि: - अन्‍यो देश: - देशान्‍तरम्


द्विगु: समास: 
द्विगुसमास: अपि तत्‍पुरुषस्‍यैव भेद: ।  एष: त्रिधा ।

समाहारद्विगु: - त्रयाणां लोकानां समाहार: - त्रिलोकी
तत्रितार्थद्विगु: - षण्‍णां मातृणाम् अपत्‍यम् - षाण्‍मातुर: 
उत्‍तरपदद्विगु: - पंच गाव: धनं यस्‍य स: - पंचगवधन: 






नंयप्रभृतय: समास: (नंय स्‍थाने चवर्गस्‍य अंतिम: वर्ण योज्‍यते किन्‍तु सम्‍भवत: देवनागर्यां नोपलब्‍ध: )

नंयतत्‍पु:षस्‍य पंचभेदा: सन्ति

नंयसमास: - न धर्म: - अधर्म:
कुसमास: - कुत्सित: पुरुष: - कुपुरुष:
गतिसमास: - अशुल्‍कं शुल्‍कं कृत्‍वा
प्रादिसमास: - 1 प्रगत: आचार्य: - प्राचार्य:
                      2 अतिक्रान्‍त: देवम् - अतिदेव:
                      3 निष्‍कान्‍त: वाराणस्‍या: - निर्वाराणसि:
उपपदसमास: - कुम्‍भं करोति इति - कुम्‍भकार:




-: संस्‍कृतजगत्  :-

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी