उदात्‍तानुदात्‍तस्‍वरितभेदा: ।





उदात्तानुदात्तस्वरितभेदात् अचाम्(अच् इति स्वरवर्णाः/माहेश्वरसूत्राणाम् ’अइउण्’ इत्यारभ्य ’ऐऔच्’ इति 


यावद् अच् प्रत्याहारे स्वराणां ग्रहणम्/ अत्र अचामिति षष्ठिबहुवचनम्) त्रैविध्यम् कल्पितम् । 


सिद्धान्तकौमुद्याः संज्ञाप्रकरणे उदात्तादिसंज्ञा विहिता । तद् यथा- उच्चैरुदात्तः(९/२/२९) 


नीच्चैरनुदात्तः(१/२/३०) समाहारः स्वरितः(१/२/३१) । एतेषाम् उदात्तानुदात्तस्वरितानाम् उच्चारणम् कुत्र 


क्रियते इत्यस्मिन् विषये तत्रभवता भट्टोजिपादेनोक्तम्-१) ताल्वदिषु सभागेषु स्थानेषूर्ध्वभागे 


निष्पन्नोऽजुदात्तसंज्ञः स्यात् । अर्थात् येषाम् अचाम्(स्वरवर्णानाम्) उच्चारणं मुखगह्वरे 


ताल्वादि(कण्ठमूर्धाताल्वादिषु) सभागस्य उर्धभागे सम्भवन्ति तेषाम् अचाम् उदात्तसंज्ञा भवति । २) तल्वदिषु 


सभागेषु स्थानेस्वधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यात् । अर्थात् ताल्वादिसभागस्य अधोभागे ये वर्णाः 


निष्पन्नाः(उच्चारिताः) भवन्ति ते अनुदात्ताः । ३) उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यत्र सोऽच् 


स्वरितसंज्ञः स्यात् । अर्थात् समानतया उदात्तानुदात्तयोः धर्मौ यस्मिन् वर्णे विद्येते सैव स्वरितः । 


ताल्वादिस्थानानां मध्यभागादुच्चार्यमाना वर्णा स्वरितसंज्ञकाः भवन्ति ।


कथम् वा एतेषां वर्णानाम् उच्चारणं क्रियते इत्यत्र तु गुरु सान्निध्यमेव शरणम् । नान्तर्जाले वोधयितुं शक्यम् ।




एष: लेख: विभूतिशर्मावर्येण वसुधासुधासंघे प्रकाशित: आसीत् 
तस्‍मै धन्‍यवादा: 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।