संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)



बान्‍धवा: अद्य व्‍याकरणकक्ष्‍याया: प्रथमं सोपानं प्रस्‍तूयते अत्र ।  व्‍याकरणकक्ष्‍या: क्रमेण नैव प्रकाशयिष्‍याम: ।  एतेषां प्रस्‍तुतीकरणं केवलं विषयक्रमेण करिष्‍यते ।  यथा यदि पूर्वं सन्धि: प्रस्‍तूयते चेत् सम्‍पूर्णसन्धिप्रकरणस्‍य प्रस्‍तुतीकरणानन्‍तरमेव अन्‍यविषया: उपस्‍थापयेम । 

अद्य व्‍याकरणकक्ष्‍याया: प्रथमसोपाने समासपरिचय: करिष्‍यते ।  समासपरिचयानन्‍तरं तेषां प्रयोगा: शिक्ष्‍यते ।  अनन्‍तरं उदाहराणि प्रकाश्‍यते ।  एतानि सर्वाणि प्रकाश्‍य अनन्‍तरं अग्रिमसोपानं प्रारम्‍भं करिष्‍ये ।

समासा: द्विधा 

1- केवलसमास: ।
2- विशेषसमास: ।

केवलसमास: - तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: । 
अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) । 

विशेषसमास: - विशेषसमास: चतुर्धा -


1- अव्‍ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्‍ययीभाव: । 
         यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते ।  अत्र एक: इतोपि अवधेय: ।  अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव ।  यथा उपगंगम् ।  अत्र पूर्वपद उप इत्‍यस्‍य प्राधान्‍यमेव ।   पुनश्‍च उप शब्‍द: अव्‍ययम् अपि अस्ति ।  अव्‍ययं किं नाम अव्‍ययं ते शब्‍दा: येषां रूपपरिवर्तनं कदापि न भवति  ।  यथा उप, इति, अथ इत्‍यादया: ।

2- तत्‍पुरुष समास: - प्राय: उत्‍तरपदार्थप्रधान: तत्‍पुरुष: ।
       यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुष समास: ।  यथा कर्मकुशल: ।  अत्र कुशलपदस्‍य प्राधान्‍यमस्ति अत: अत्र तत्‍पुरुष समास: इति अस्ति ।

3- बहुब्रीहि समास: - प्राय: अन्‍यपदार्थप्रधान: बहुब्रीहि: । 
       यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति ।  यथा पीतक्षीर: ।  अत्र निश्‍चयेन तस्मिन् विषये वार्ता चलति य: दुग्‍धं पीतवान् अत: द्वयोरपि दत्‍तशब्‍दयो: प्राधान्‍यं नास्ति अपितु अन्‍यस्‍य प्राधान्‍यं प्राप्‍यते अत: अत्र बहुब्रीहि समास: अस्ति ।

4-द्वन्‍द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्‍द्व: । 
यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते ।  यथा - रामकृष्‍णौ ।  अस्मिन् पदे राम: च कृष्‍ण: च इति बोध: भवति ।  अत: अत्र द्वन्‍द्व समास: अस्ति ।

अद्य एतावदेव अलम् ।  अग्रिमलेखे एतेषां चतुर्णां समासानां भेदाना: विषये पठिस्‍याम: । 
तावत् नमो नम: 

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: 
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।। 

।। संस्‍कृतजगत् ।।

टिप्पणियाँ

  1. main sanskrit m samas k bhed ko lekar confuesd hoon.class-8 m five samas ,class-10 m six, laghu sidhant komudi m to two bhed kar uska upbhed bana diya h.mai net jrf ka exam face karne wali huin plz conform y bata d ki 2,4,5,6 opstion ho to kon sahi hoga.

    उत्तर देंहटाएं
    उत्तर
    1. अनीता जी

      समास के मूलत: 5 भेद ही होते हैं । आपने समास के जो 6 भेद पढे हैं वो हिन्‍दी व्‍याकरण के अनुसार हैं । संस्‍कृतव्‍याकरण में समास के 5 ही भेद होते हैं, जो उदाहरण सहित यहाँ दिये गये हैं ।
      नेट के पाठ्यक्रम में यही मान्‍य हैं ।

      हटाएं
  2. how to recognize the SAMASTHAPADAM and write its name and VIGRAHA VAAKYA? how can we remember samasas with reasons?
    please give reply.

    उत्तर देंहटाएं
  3. Bahubali samas ke practice questions mil sakte hai with answers

    उत्तर देंहटाएं
  4. Bahubali samas ke practice questions mil sakte hai with answers

    उत्तर देंहटाएं
  5. समास शब्द में कौन सी प्रकृति व प्रत्यय हैं....?

    उत्तर देंहटाएं
  6. इसमें भी पांच ही भेद दिए है,एक केवल समास और दूसरा विशेष समास।विशेष समास के ही भेद है जो चार दिए है।केवल समास और 4 अन्य तो कुल मिलाकर 5 भेद हुए।

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।