संदेश

October, 2011 की पोस्ट दिखाई जा रही हैं

भैयादूज (यमद्वितीया) कथा ।

भैयादूज उत्‍सव: सर्वेषां भातृणां कृते भगिनीनां प्रेमोत्‍सव: इति अस्ति ।  एतस्‍य उत्‍सवस्‍य अवसरे यमदेवस्‍य लेखाधिकारी श्रीचित्रगुप्‍तदेवस्‍य पूजार्चनं भवति ।  अस्‍य उत्‍सवस्‍य कृते एका कथा प्रचलिता अस्ति ।       एकदा भगवान् यमराज: आत्‍मन: स्‍वसा यमुनाया: गृहं गतवान् ।  तत्र यमुना देवी तस्‍य अतिसेवा: सुश्रूषा: सम्‍पादितवती ।  यम: प्रसन्‍न: जात: वरं व़णीतुं च उक्‍तवान् ।  यमुनादेवी वरं याचितवती - भगवन । यदि भवान् प्रसन्‍न: चेत् कृपया एतत् वरं ददातु यत् अद्यतनीये दिवसे य: कश्चिदपि मम जले स्‍नानं कुर्यात् स: भवत: यमपाशे न पतेत ।  पुनश्‍च अस्मिन् दिवसे य: कश्चित् अपि आत्‍मन: स्‍वसार: गृहे गत्‍वा भोजनादिकं कुर्यात् स: अपि सर्वदा सुखी भवेत् ।       यम: ताम् अभीष्‍टं वरं प्रदाय स्‍वलोकं प्रति गतवान् ।  तदा आरभ्‍य एष: उत्‍सव: जनै: आयोज्‍यते ।  भगिन्‍य: भ्रातृणां कृते व्रतं धारयन्ति ।  भ्रातर: भगिनीनाम् आदरं सम्‍पादयन्ति ।  द्वौ अपि मिलित्‍वा प्रत्‍येकस्‍य दीर्घजीवनस्‍य शुभकामना: च याचेते ।

दीपावली-कथा ।

चित्र
प्रत्‍येकस्मिन् वर्षे दीपावल्‍य: पर्वम् आगच्‍छति एव ।  वयं सम्‍यकतया मोदयाम: अपि एतत् पर्वम् ।  किन्‍तु कदाचिद् एव वयं एतत् विज्ञातुमिच्‍छाम: यत् किमर्थं एष: उत्‍सव: दीपावली इति ।  वयं किमर्थं प्रतिवर्षं एतत् पर्वम् आयोजयाम: । आगम्‍यतां अस्‍या: कथा: श्रृण्‍म: ।  भवन्‍त: एतत् तु जानन्ति एव यत् भगवान् श्रीरामचन्‍द्र: रावणं हत्वा श्रीलंकां विजितवान् आसीत् त्रेतायुगे ।  स्‍वर्णमयी लंकां प्राप्‍य लक्ष्‍मण: उक्‍तवान् यत् किमर्थं त्‍यजति एतत् सुवर्णराज्‍यं चेत् भगवत: कथनमासीत् -  अपि स्‍वर्णमयी लंका, न मे लक्ष्मण रोचते ।जननी जन्‍मभूमिश्‍च स्‍वर्गादपि गरीयसी ।। लंकाया: राज्‍यं विभीषणाय प्रदाय भगवान् श्रीरामचन्‍द्र: सीतालक्ष्‍मणै सह च अयोध्‍यां प्रति प्रस्थितवान् ।  तेन सह प्रायश: मानवानाम् अतिरिक्‍तमपि वानरा:, भल्‍लूका: इत्‍यादया: अपि आसन् ।  ते यदा अयोध्‍यां प्रति आगच्‍छन्‍त: आसन् तदैव भगवान् श्रीराम हनुमते आज्ञां दत्‍तवान् यत् कृपया गत्‍वा भरत: मम प्रिय अनुज: सूचनीय: सत्‍वरमेव नोचेत् स: प्राणं अर्पयेत् । श्रीहनुमान् जी अयोध्‍यां प्रति गत्‍वा त्‍वरितमेव भरताय सूचनां दत्‍तवान् भगवत: आगमनस्‍य …

भगवत: हनुमत: जन्‍मदिवसोत्‍सवस्‍य हार्दिकी शुभकामना: ।

चित्र
हनूमानन्‍जनीसूनु: वायुपुत्रो महाबला
रामेष्‍ठ: फाल्‍गुनसखा पिंगाक्षोमितविक्रम: ।
उदधिक्रमणश्‍चैव सीताशोकविनाशन:
लक्ष्‍मणप्राणदाता च दशग्रीवस्‍य दर्पहा ।।

भगवत: हनुमत: विषये क: न जानाति सम्‍पूर्णे विश्‍वे ।  अद्वितीय: रामभक्‍त: ।  त्रिषु कालेषु सर्वतो महावीर: ।  श्रीरामचरणसेवक: ।  भगवत: श्रीशिवस्‍य अंशावतार: श्रीहनुमान् महाराज: न केवलं भक्‍तेषु अपितु प्रभुषु अपि अन्‍यतम: एव ।
कलियुगस्‍य तु स: साक्षात् देवता सिद्ध: च ।  कलौयुगे तु तस्‍य नामस्‍मरणमेव सर्वेषां सहायक: ।
भगवत: हनुमत: अद्य एव जन्‍मदिवस: ।  त्रेतायुगस्‍य प्रारम्‍भे अद्य एव तस्‍य प्रादुर्भाव: जात: ।  अद्य श्रीअवधक्षेत्रे बहुषु स्‍थानेषु भगवत: हनुमत: जन्‍मदिवसोत्सव: मोदयन्‍ते ।

भवतां सर्वेषां कृतेपि भगवत: हनुमत: जन्‍मदिवसोत्‍सवस्‍य हार्दिकी शुभकामना: ।
पवनसुत हनूमान की जय

अकबरपुरस्‍य रामलीला समाप्‍ता - Ramlila akbarpur (Ambedakar Nagar)

चित्र
विगतदिवसे 20/10/2011 अकबरपुरक्षेत्रस्‍य प्रसिद्धा भगवता श्रीरामचन्‍द्रस्‍य लीलायोजनं रावणवधेन सह एव समाप्‍तम् ।
      एषा लीला (मंचलीला) आहत्‍य सप्‍तदिनानि प्रचलिता ।  प्रथमदिवसात् एव भगवत: श्रीरामचन्‍द्रस्‍य विभिन्‍ना: लीला: प्रदर्शिता: ।  परह्य: अस्‍य समाप्ति: अभवत् ।
       रावणवधस्‍य अनन्‍तरं एका वृहद् मेला अपि आयोजिता अथ च रात्रौ भरतमिलाप इति प्रसंग: क्रीडित: ।  कलाकारा: सर्वे प्रतिवर्षस्‍य एव आसन् किन्‍तु रोचकता क्रीडाया: निश्‍चयेन नूतनमासीत् ।  सर्वे बहु मोदितवन्‍त: ।

भगवत: श्रीरामचन्‍द्रस्‍य कृपा सर्वेषाम् उपरि सर्वदा भवेत् ।
जय श्री राम

स्‍वरसन्धिपरिचय: (प्रश्लिष्‍ट सन्धि:)

चित्र
लौकिकसंस्‍कृतस्‍य दीर्घ, गुण एवं च वृद्धिसन्‍धय: एव वैदिके प्रश्लि‍ष्‍ट इति नाम्‍ना ज्ञायन्‍ते ।  एतेषां नियमा: अधोलिखिता: -
1- सामानाक्षरे संस्‍थाने दीर्घमेकमुभेस्‍वरम् – यत्र द्वौ समानअक्षरौ परस्‍परं संयुक्‍तं भवत: तत्र हृस्‍ववर्णस्‍यास्‍थाने दीर्घवणं स्‍यात् ।  इत्‍युक्‍ते हृस्‍व अथवा दीर्घ अ, इ, उ, ऋ   वर्णै: अनन्‍तरं यदा पुन: हृस्‍व उत दीर्घ अ, इ, उ, अथवा ऋ आगच्‍छेयु चेत् तेषां स्‍थाने सर्वेषां दीर्घवर्णा: (आ, ई, उू, ऋृ) भवेयु: । 
यथा - मधूदकम्=मधु+उदकम्
लौकिक संस्‍कृते 'अक: सवर्णे दीर्घ:' इत्‍यनने सूत्रेण अस्‍य विधानं भवति ।
2- इकारोदय एकारमकार: - अ अथवा आ वर्णानन्‍तरं यदि इ अथवा ई आगच्‍छेत चेत् द्वयो: अपि 'ए'कार: भवेत् ।
यथा - आ+इन्‍द्रम्=एन्‍द्रम्
3- उकारोदय ओकारम् - अ, आ वर्णानन्‍तरं उ, उू आगच्‍छेत् तर्हि उभयो: स्‍थाने 'ओ' इति भवेत् ।
यथा - एतायाम उप एतायामोप
सूत्र संख्‍या 2 उत 3 द्वयो: अपि लौकिक संस्‍कृतस्‍य 'आदगुण:' इति सूत्रेण विहिता: भवन्ति ।
4- परस्‍वैकारमोजयो: - अ, आ वर्णानन्‍तरं यदि सन्‍ध्‍यक्षर ए अथवा ऐ आगच्‍छेत् चेत् तयो: स्‍थान…

वैदिक-विसर्गसन्धि: तस्‍य भेदा: च–Vaidik Visarg Sandhi

चित्र
मित्राणि
गतलेखे व्‍यंजनसन्धि: तस्‍य भेदानां विषये च पठितवन्‍त: वयम् ।  सम्‍प्रति वैदिकविसर्गसन्धि: तस्‍य भेदा: च ज्ञास्‍याम: वयम् ।  वैदिक व्‍यंजनसन्धि: कतिधा ।  तस्‍य भेदा: च के के इति
विसर्गसन्धि: यथा लौकिकं भवति तथैव वैदिकमपि किन्‍तु अस्‍य भेदा: भिन्‍ना: भवन्ति ।  वैदिकविसर्गसन्‍धे: प्रायश: 14 भेदा: सन्ति ।
          एते भेदा: क्रमश: निम्‍नोक्‍ता: सन्ति -
1- पदवृत्तिसन्धि:
.           2- उद्ग्राहसन्धि:
3- नियत सन्धि:
            4- प्रश्रित सन्धि:
5- रेफसन्धि:
            6- अकामसन्धि:
7- व्‍यापन्‍नसन्धि:
            8- अन्‍वक्षरवक्‍त्रसन्धि:
9- अव्‍यापत्तिसन्धि:
            10- उपाचरितसनि्घ:
     एते सन्ति मुख्‍य भेदा: ।  एतेषाम् अतिरिक्‍तमपि केचन भेदा: सन्ति निम्‍नोक्ता: ।
11- नकार-विकार:
            12- स्‍पर्शरेफसन्धि:
13- स्‍पर्शोष्‍मरेफसन्धि:
            14- शौद्धाक्षरसन्धि:

एते सन्ति विसर्ग:सन्‍धे: भेदोपभेदा: ।  अग्रिम लेखे त्रय: सन्‍धय: तेषां भेदानां च क्रमश: व्‍याख्‍या: पठिष्‍याम: ।  तावत् नमो नम:

संस्‍कृतजगत्

वैदिकी व्‍यंजनसन्धि: तस्‍य भेदा: च -Vaidik Sandhi (Vyanjan Sandhi)

चित्र
गतलेखे वयं पठितवन्‍त: वैदिक स्‍वरसन्धि: तस्‍य भेदा: च ।  सम्‍प्रति वयं वैदिकव्‍यंजनसन्धि अथ च एतस्‍य भेदानां विषये पठिष्‍याम: ।  वैदिक व्‍यंजनसन्धि: पंचधा भवति ।  एते भेदा: क्रमश: निम्‍नोक्‍ता: सन्ति: ।1- अन्‍वक्षर सन्धि:             2- अवशंगम आस्‍थापित सन्धि: 3- वशंगम आस्‍थापित सन्धि:              4- परिपन्‍न सन्धि: 5- अन्‍त:पात सन्धि:      (क) 'क'कारस्‍य अन्‍त:पात:     (ख) 'च'कारस्‍य अन्‍त:पात:     (ग) 'त'कारस्‍य अन्‍त:पात:अन्‍त:पातसन्धे: त्रय: भेदा: उपर्युक्‍ता: भवन्ति ।एते सन्ति वैदिकव्‍यंजनसन्‍धे: भेदा: ।  एतेषां व्‍याख्‍या अग्रिमलेखे कुर्म: ।  तावत् नमो नम: ।संस्‍कृतजगत्

वैदिकी सन्धि-प्रक्रिया (वैदिक-सन्‍धय:)- Vaidik Sandhi Parichay (Swar Sandhi)

चित्र
लौकिक संस्‍कृतव्‍याकरणे यथा सन्धि भवति तथैव वैदिकसंस्‍कृते अपि सन्‍धय: भवन्ति एव ।  सम्‍प्रति वयं व्‍याकरणकक्ष्‍यायां वैदिकसन्धिविषये पठिष्‍याम: ।
       वैदिकीसन्‍धय: अपि प्रायश: लौकिकसन्धिवत् एव भवन्ति ।  परन्‍तु एतेषां नामानि भिन्‍नानि भवन्ति ।  वैदिक संस्‍कृते अपि सन्‍धय: त्रय:: एव भवन्ति ।
1- स्‍वर सन्धि:
2- व्‍यंजन सन्धि:
3- विसर्ग सन्धि: च
अत्र क्रमश: एते सन्‍धय: प्रस्‍तूयन्‍ते ।  पूर्वं तु स्‍वरसन्धि: तस्‍य भेदा: च प्रस्‍तूयते ।


       वैदिक स्‍वरसन्धि: नवधा भवति ।  एते निम्‍नोक्‍तं सन्ति ।
1- प्रश्लिष्‍ट सन्धि:
              2- क्षेप्र सन्धि: 3- अभिनिहित सन्धि:
              4- भुग्‍न सन्धि:
5- उद्ग्राहवत् सन्धि:
              6- उद्ग्राह सन्धि:
7- उद्ग्राहपदवृत्ति सन्धि:
             8- प्रगृहीतपदसन्धि:
9- द्विसन्धि:

एतेषां व्‍याख्‍या अग्रिमलेखे कुर्म: ।  तावत् नमो नम: ।

संस्‍कृतजगत्

कानिचन् चित्राणि फेसबुक पृष्‍ठात् - some interesting photos from facebook (4)

चित्र
एतानि सन्ति कानिचन हास्‍यचित्राणि फेसबुक पृष्‍ठात् ।  आनन्‍दं स्‍वीकुर्वन्‍तु ।

--
स्‍व संस्‍कृतलेखा: संस्‍कृतजगति प्रकाशयितुं pramukh1.sanskritjagat@blogger.comईसंकेते ईपत्रं प्रेषयतु । संस्‍कृतजगत्

कानिचन् चित्राणि फेसबुक पृष्‍ठात् - some interesting photos from facebook (3)

चित्र
एतानि सन्ति कानिचन हास्‍यचित्राणि फेसबुक पृष्‍ठात् ।  आनन्‍दं स्‍वीकुर्वन्‍तु ।

--
स्‍व संस्‍कृतलेखा: संस्‍कृतजगति प्रकाशयितुं pramukh1.sanskritjagat@blogger.comईसंकेते ईपत्रं प्रेषयतु । संस्‍कृतजगत्

कानिचन् चित्राणि फेसबुक पृष्‍ठात् - some interesting photos from facebook (2)

चित्र
एतानि सन्ति कानिचन हास्‍यचित्राणि फेसबुक पृष्‍ठात् ।  आनन्‍दं स्‍वीकुर्वन्‍तु ।

--
स्‍व संस्‍कृतलेखा: संस्‍कृतजगति प्रकाशयितुं pramukh1.sanskritjagat@blogger.comईसंकेते ईपत्रं प्रेषयतु । संस्‍कृतजगत्

कानिचन् चित्राणि फेसबुक पृष्‍ठात् - some interesting photos from facebook

चित्र
एतानि सन्ति कानिचन हास्‍यचित्राणि फेसबुक पृष्‍ठात् ।  आनन्‍दं स्‍वीकुर्वन्‍तु ।

--
स्‍व संस्‍कृतलेखा: संस्‍कृतजगति प्रकाशयितुं pramukh1.sanskritjagat@blogger.comईसंकेते ईपत्रं प्रेषयतु । संस्‍कृतजगत्