स्‍वरसन्धिपरिचय: (प्रश्लिष्‍ट सन्धि:)

vaidik swar sandhi
      लौकिकसंस्‍कृतस्‍य दीर्घ, गुण एवं च वृद्धिसन्‍धय: एव वैदिके प्रश्लि‍ष्‍ट इति नाम्‍ना ज्ञायन्‍ते ।  एतेषां नियमा: अधोलिखिता: -
1- सामानाक्षरे संस्‍थाने दीर्घमेकमुभेस्‍वरम् – यत्र द्वौ समानअक्षरौ परस्‍परं संयुक्‍तं भवत: तत्र हृस्‍ववर्णस्‍यास्‍थाने दीर्घवणं स्‍यात् ।  इत्‍युक्‍ते हृस्‍व अथवा दीर्घ अ, इ, उ, ऋ   वर्णै: अनन्‍तरं यदा पुन: हृस्‍व उत दीर्घ अ, इ, उ, अथवा ऋ आगच्‍छेयु चेत् तेषां स्‍थाने सर्वेषां दीर्घवर्णा: (आ, ई, उू, ऋृ) भवेयु: । 
यथा - मधूदकम्=मधु+उदकम्
लौकिक संस्‍कृते 'अक: सवर्णे दीर्घ:' इत्‍यनने सूत्रेण अस्‍य विधानं भवति ।
2- इकारोदय एकारमकार: - अ अथवा आ वर्णानन्‍तरं यदि इ अथवा ई आगच्‍छेत चेत् द्वयो: अपि 'ए'कार: भवेत् ।
यथा - आ+इन्‍द्रम्=एन्‍द्रम्
3- उकारोदय ओकारम् - अ, आ वर्णानन्‍तरं उ, उू आगच्‍छेत् तर्हि उभयो: स्‍थाने 'ओ' इति भवेत् ।
यथा - एतायाम उप एतायामोप
सूत्र संख्‍या 2 उत 3 द्वयो: अपि लौकिक संस्‍कृतस्‍य 'आदगुण:' इति सूत्रेण विहिता: भवन्ति ।
4- परस्‍वैकारमोजयो: - अ, आ वर्णानन्‍तरं यदि सन्‍ध्‍यक्षर ए अथवा ऐ आगच्‍छेत् चेत् तयो: स्‍थाने ऐ इति एव भवति ।
यथा - आ एनम् ऐनम्
5- औकारं युग्‍मयो: एते प्रश्लिष्‍टानाम सन्‍धय: - अ, आ वर्णानन्‍तरं यदि युग्‍मसन्‍ध्‍यक्षरौ (ओ, औ) आगच्‍छेतां चेत् उभयो: स्‍थाने औ इति भवेत् ।
यथा - यत्र ओषधी: यत्रौषधी:
सूत्र संख्‍या 4, 5 द्वौ अपि लौकिकसंस्‍कृतस्‍य 'वृद्धिरेचि' सूत्रेण विहितौ भवत: ।
एतदस्ति वैदिकस्‍वरसन्‍धे: प्रश्लिष्‍ट इति सन्धि: भेद: उदाहरणसहितम् ।

संस्‍कृतजगत्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।