संदेश

November, 2011 की पोस्ट दिखाई जा रही हैं

वैदिक सन्धि प्रक्रिया-व्‍यंजन सन्धि: (अवशंगम आस्‍थापित सन्धि)

चित्र
यदि स्‍पर्शवर्णा: ('क'-'म' पर्यन्‍तम्) पूर्वं आगच्‍छेयु: तदनन्‍तरं अन्‍ये व्‍यंजन वर्णा: आगच्‍छेयु: चेत् सा सन्धि: 'अवशंगम आस्‍थापित' कथ्‍यते, अत्र परिवर्तनं नैव भवति ।-- स्‍पर्शा: पूर्व व्‍यंजनानामुत्‍तराण्‍यास्‍थापितानामवशंगमं तत् ।  यथा- वषट् ते, यत्‍पत्‍ये ।

वैदिक सन्धि प्रक्रिया-व्‍यंजन सन्धि: (अन्‍वक्षर सन्धि:)

चित्र
(1) यदि स्‍वरस्‍य अनन्‍तरं व्‍यंजनम् आगच्‍छति चेत् एतयो: सन्धि: अनुलोम अन्‍वक्षर सन्धि: इति कथ्‍यते ।यथा - ननि मिषति ।(2) अस्‍य विपरीतमेव यदि व्‍यंजनं प्रारम्‍भे अस्ति तथा च स्‍वर: अनन्‍तरम् अस्ति सति चेत् एतयो: सन्धि: प्रतिलोम अन्‍वक्षर सन्धि: कथ्‍यते ।  अस्मिन् सन्‍धौ वर्णस्‍य प्रथम: वर्ण: तृतीयेन वर्णेन स्‍थानान्‍तरित: भवति---- तत्र प्रथमास्‍तृतीयभावं प्रतिलोमेषु नियन्ति । यथा - तमिन्‍द्रं दानमीमहे = दानम्+ईमहे ।  अत्र व्‍यंजनं 'म' पूर्वम् अस्ति स्‍वर: 'ई' अनन्‍तरं चेत् प्रतिलोम अन्‍वक्षर सन्धि: अभवत् । 'अर्वागा वर्तया हरी'  इत्‍यस्मिन् अर्वाक् इत्‍यस्‍य 'क्'कारस्‍य तृतीय: वर्ण: 'ग्'कार: अभवत् ।

वैदिक स्‍वर सन्धि: तस्‍य भेदा: च - Vaidik Swar Sandhi and its classifications

चित्र
1- 2- 3- 4- 5- 6- 7- 8- 9-

एतदस्ति वैदिक स्‍वरसन्धि: तस्‍य भेदा: च ।   अस्‍य व्‍याख्‍या पूर्वमेव कृता अस्ति ।

वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (द्विसन्धि:)

चित्र
प्रगृह्यसंज्ञायां यदि कस्‍यचित् स्वरस्‍य उभयत: स्‍वरा: भवन्ति चेत् तत् 'द्विसन्धि:' कथ्‍यते ।


यथा--- अभूदु भा उ अंशवे इत्‍यस्मिन् प्रगृह्य 'उ' वर्णस्‍य उभयत: क्रमश: 'आ' तथा च 'अ' अस्ति ।

वैदिक सन्धि प्रक्रिया- स्‍वर सन्धि: (प्रगृहीतपदसन्धि:)-Vaidik Swar Sandhi

चित्र
अस्‍यान्‍तरं केचन् नियमा: निम्‍नोक्ता: सन्ति ।

प्रकृतिभाव: - सन्धिदशायामपि सन्धि: न भवति यत्र तत् प्रकृतिभावं कथ्‍यते ।  प्रकृतिभावस्‍यार्थ: यथासीत् तथैव स्‍यात् ।  लौकिक संस्‍कृते प्‍लुतप्रगृह्योSचि नित्‍यं इत्‍यादि सूत्रेण अस्‍यैव निदर्शनं क्रियते ।  एते अग्रवद् भवन्ति । ----

(1) प्रगृह्य स्‍वराणाम् अनन्‍तरं यदि 'ति' इति भवति चेत् यथावत् एव तिष्‍ठति ।
      अर्थात् प्रगृह्य स्‍वराणां प्रकृतिभावं भवति ।  यथा - प्रो इति । इन्‍द्रवायू इमे सुता ।
किन्‍तु त्र्यक्षरान्‍तशब्‍दानाम् अन्ते आगतानां प्रगृह्याणां स्‍वराणां अनन्‍तरं यदा 'इव' भवति चेत् प्रकृतिभावं न भवेत् ।  यथा - दम्‍पती + इव = दम्‍पतीव ।
सन्धित: उत्‍पन्‍न: 'उ' वर्णस्‍य पूर्वं यदि 'य' इति भवति तथा च स: 'उ' वर्ण: प्रगृह्यं भवेत चेत् प्रकृतिभाव: भवति । ( प्रत्‍यु अदर्शि इत्‍यस्मिन् प्रति+उ= प्रत्‍यु इति अभवत् ।  प्रगृह्य संज्ञा अस्ति सति प्रकृतिभाव: जात: )।

(2) 'सु' इत्‍यस्‍यानन्‍तरं यदि उू वर्णत: प्रारभ्‍यमान: शब्‍द: आगच्‍छेत् तर्हि प्रकृतिभाव: भवेत् । -- ताभिरूपु उूतिभि: ।

(3) श…

वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (उद्ग्राहपदवृत्तिसन्धि:) - Vaidik Sandhi Prakriya-Swar Sandhi

चित्र
दीर्घपरा उद्ग्राहपदवृत्‍तय: ।


यदा उद्ग्राहस्‍य सन्‍धे: दशायाम्  'ए' अ‍थवा 'ओ' वर्णानन्‍तरं कश्चित् दीर्घ स्‍वर: आगच्‍छेत् तर्हि उद्ग्राहपदवृत्ति सन्धि: भवति ।
अन्‍ये नियमा: उद्ग्राहसन्धिवदैव भवन्ति ।


यथा - के + ईषते = कईषते।

वैदिक सन्धि प्रक्रिया- स्‍वर सन्धि: (उद्ग्राह सन्धि:)- Vaidik Sandhi Prakriya (Swar Sandhi)

चित्र
ह्रस्‍वपूर्वस्‍तु सोकारं पूर्वौ चोपोत्‍तमात्‍स्‍वरौ त उद्ग्राहा ।


'ए' अ‍थवा 'ओ' वर्णानन्‍तरं यदि स्‍वरवर्णेषु कश्चित् आगच्‍छेत् तर्हि तयो: स्‍थाने 'अ' इति भवेत् ।


यथा - अग्‍ने+ इन्‍द्र= अग्‍न इन्‍द्र ।
वायो+ उक्‍थेभि: =  वाय उक्‍थेभि: ।

श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( रावण-बाणासुर संवाद: )

चित्र
रावण: सीताया: स्‍वयम्वरं गतवान् ।  मिथिलां प्राप्‍य स: जनकेन् अपृच्‍छत् - किमर्थं भो: जनक: , न आहूतवान् माम ।  जनक: स्‍वयम्‍वरस्‍य नियमा: वाचयति ।
रावण: जनकं तर्जयति ।
वाणासुरस्‍य प्रवेश: भवति ।  स: रावणेन संलापयति ।  अनन्‍तरं धनुषं स्‍पर्शविना एव रावण: वाणासुर: च गच्‍छत: ।  मध्‍ये प्रहसनप्रसंग: अस्ति लखटकियाराज्ञ: ।
पश्‍यन्‍तु आनन्‍दं च स्‍वीकुर्वन्‍तु ।

श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( बाणासुरस्‍य स्‍वप्‍न: )

चित्र
राक्षसराज वाणासुर: स्‍वप्‍नं पश्‍यति यत् रावण: अपि सीतास्‍वयम्वरे गच्‍छन् अस्ति ।  स: जानाति स्‍म यत् रावण: तत्र उपद्रवं कर्तुं शक्‍नुवन्ति ।  अतएव बाणासुर: तत्र गन्‍तुं सिद्ध: भवति ।

श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( स्‍नानं कुर्वती सीता जी )

चित्र
सीता जी पुष्‍पवाटिकाया: अनन्तरं स्‍नानं कर्तुं सखिभि: सह सरोवरं गच्‍छति ।  अस्मिन् चलचित्रे हास्‍याभिनेता हास्‍यं प्रस्‍तोति ।
पश्‍यन्‍तु, आनन्‍दं च स्‍वीकुर्वन्‍तु ।

श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( सीता स्‍वयंवर-पुष्‍पवाटिकायां रामेण सह सीताया: मेलनम्)

चित्र
अनिरुद्धनगरे क्रीडिता रामलीलाया: चलचित्रेषु एतत् अस्ति एकम् इतोपि चलचित्रम् ।  अस्मिन् च‍लचित्रे भगवत: श्रीरामस्‍य भगवती सीतादेव्‍यै सह पुष्‍पवाटिकायां मेलनं जातम् ।  तदैव अत्र दर्शितमस्ति ।
पश्‍यन्‍तु, आनन्‍दं च स्‍वीकुर्वन्‍तु ।

श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( सीता स्‍वयंवर)

चित्र
अनिरुद्धनगरे क्रीडिता रामलीला सम्‍प्रति समाप्‍ता अस्ति ।  तस्‍य कानिचन् चित्राणि पूर्वमेव प्रकाशितानि सन्ति ।  द्वौ चलचित्रौ अपि प्रकाशितौ ।  तस्मिन् एव क्रमेण एतत् सीतास्‍वयंबर इति चलचित्रं प्रकाश्यते ।
      पश्‍यन्‍तु, आनन्‍दं च स्‍वीकुर्वन्‍तु ।


वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (भुग्‍न सन्धि:)

चित्र
औष्‍ठ्ययोन्‍योर्भुग्‍नमनोष्‍ठ्ये वकारोSत्रान्‍तरागम ।
       'ओ' 'औ' च वर्णयो: अनन्‍तरं यदि अनोष्‍ठ्य 'अ' अथवा 'आ' आगच्‍छेत् चेत् उभयो: स्‍थाने क्रमश: 'अ' अथवा 'आ' इति भवति । तथा 'अ', 'आ' अपि च अनोष्‍ठ्य स्‍वरस्‍य अनन्‍तरं 'व्' वर्णं स्‍थाप्यते ।
यथा - वायो+आ=वाय्+ओ+आ=वाय+अ+आ=वाय+अ+व+आ=वायवा । वायवा याहि दर्शत । 

वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (उद्ग्राहवत् सन्धि:)

चित्र
ऋकार उदये कण्‍ठ्यावकारं तदुद्ग्राहवत् ।       'अ' अथवा 'आ' वर्णस्य अनन्‍तरं यदि 'ऋ' आगच्‍छेत् तर्हि उभयो: स्‍थाने 'अ' एव भवेत् ।यथा - मधुना+ऋतस्‍य= मधुन ऋतस्‍य ।

मार्टव्‍यू मृदूवसनस्‍य नूतनं संस्‍करणम् - The Best Ebook Reader-Mart View's New Version

चित्र
मार्टव्‍यू मृदुवसनस्‍य विषये कथनस्‍य आवश्‍यकता न भाति ।  बहुप्रचलितं मृदुवसनमस्ति एतत् ईपुस्‍तकानि पठितुम् ।  अस्मिन् ईपुस्‍तकपठनं निश्‍चयेन एकं नूतनमनुभवम् अस्ति ।
       मया तु अस्‍यैव प्रयोगं कृयते पुस्‍तकानि पठितुम् ।  यदि भवन्‍त: इच्‍छन्ति चेत् प्रयोजयन्‍तु ।

       सम्‍प्रति अस्‍य नूतनं संस्‍करणम् आगतमस्ति ।  एतत् तलपूरितुम् अध: नोदनीय: ।

मार्टव्‍यू ईपुस्‍तकपाठकं मृदुवसनम् 


संस्‍कृतजगत् 

वैदिकस्‍वरप्रक्रिया-स्‍वरसन्धि: (अभिनिहित सन्धि:)

चित्र
लौकिक पूर्वरूपसन्धि: एव वैदिके अभिनिहितसन्धि इति नाम्‍ना ज्ञायते ।  अस्‍य नियमा: सन्ति । (1) अथाभिनिहित: सन्धिरेते: प्राकृतवैकृतै: ।  एकीभवति पादादिरकारस्‍तेSत्रसन्धिजा ।यदि कस्‍यचित् पादस्‍य अन्‍ते 'ए' अथवा 'ओ' भवित तथा च अग्रिमस्‍य पादस्‍य आरम्‍भे 'अ' इति वर्ण: भवति चेत् उभयो: स्‍थाने एकरूपत्‍वं भवति ।  मध्‍ये केवलम् अवग्रहचिन्‍हं योज्‍यते ।यथा- रथेभ्‍योSग्‍ने, दाशुषेSग्‍ने ।(2) अन्‍त: पादमकारच्‍चेत्‍संहितायां लघोर्लघु ।यकाराद्यक्षरं परं वकाराद्यपि वा भवेत् ।पादस्‍य मध्‍ये अपि यदि 'अ' अथवा 'व' आगच्‍छेत् तथापि पूर्वोक्तेव भवति ।यथा- सोsयमागात्, तं पृच्‍छन्‍तोsवरास: मे ।(3) अन्‍यद्यापि तथा युक्‍तमावोsन्‍तोपहितात्‍सत: ।अयेSयोSवेSव इत्‍यन्‍तैरकार: सर्वथा भवन् ।'आयो', 'अये', 'अयो', 'अवे' इति एतेषाम् अनन्तरं यदि अकार: आगच्‍छेत् तथा च तस्‍यानन्‍तरं 'य' अथवा 'व' इत्‍ययो: अतिरिक्‍तं कश्चिदपि व्‍यंजनम् आगच्‍छेत् तर्हि अकारस्‍य पररूपं भवति । यथा- गावोSभित:, अजीतयेSहतये, सूनवेSग्‍ने ।(4) व इत्‍येतेन च…

गुरु तेगबहादुर: (1622-1675 ई.)

चित्र
गुरूतेगबहादुरस्‍य जन्‍म 1 अप्रैल सन् 1621 तमे ख्रीस्‍ताब्‍दे अभवत् ।  विश्वस्‍य इतिहासपरम्‍परायां स: धर्मरक्षकेषु अन्‍यतम: आदरणीय: बलिदानि इति अस्ति । त्यागमलत: तेगबहादुर इति नामपरिवर्तनम् -      गरुतेगबहादुरस्‍य जन्‍म पंजाबप्रान्‍तस्‍य अमृतसरनगरे अभवत् ।  तस्‍य पितु: नाम गुरु हरगोविन्‍द जी आसीत् ।  स: अपि सिखगुरुपरम्‍पराया: एक: गुरुरेवासीत् ।  श्री तेगबहादुर: तस्‍य  पंचम: पुत्र: आसीत् ।  अष्‍टमगुरो: श्रीहरिकृष्‍णस्‍य मृत्‍युप्राप्‍ते सति जनमतै: एष: नवम: गुरुरभवत् ।  अनेन आनन्‍दपुर साहिब इत्‍यस्‍य निर्माण प्रकार्य तत्रैव निवासं प्रारभत् ।  अस्‍य बाल्‍यकालस्‍य नाम त्‍यागमल इति आसीत् ।  14वर्षस्‍य आयु: एव आसीत् अस्‍य यदा मुगलानां विरुद्धं जायमाने युद्धे अनने वीरकार्यं सम्‍पादितं, तदारभ्‍य अस्‍य नाम तेगबहादुर इति कृतम् अस्‍य पित्रा ।      औरंगजेबस्‍य शासने एक: पण्डित: आगत्‍य प्रतिदिनं गीतापाठ इति कुर्वन्‍नासीत् तस्‍य अर्थं चापि श्रावयन् आसीत्, किन्‍तु तेषु श्‍लोकेषु पण्डित: केचन श्‍लोका: परित्‍यजत् आसीत् ।  एकस्मिन् दिवसे पण्डित: रुग्‍ण: जात:, स्‍वस्‍यस्‍थाने स: स्‍वपुत्रं प्रेषितवा…

श्रीरामलीलाया: प्रदर्शनं सम्‍पूर्णं (श्री अनिरुद्धनगम्) - Ramlila-Aniruddh Nagar, Ambedakar Nagar..2011

चित्र
महर्षि: श्री विश्‍वामित्र: भगवत: पूजार्चनं करोति ।  दानवा: आगत्‍य विघ्‍नं कुर्वन्ति ।  स: ध्‍यानेन दृष्‍ट्वा भगवत: श्रीरामस्‍य सहाय्यं प्राप्‍तुम् अयोध्‍यां गन्‍तुं सिद्ध भवति ।


       रामलक्ष्‍मणौ सह मिथिलां प्रति गमनमार्गे महर्षि विश्‍वामित्रस्‍य आज्ञां प्राप्‍य भगवान् श्री राम पाषाणखण्‍डे पादस्‍पर्शं करोति तेन अहिल्‍याया: उद्धार: भवति ।
      गत सप्‍ताहे श्रीअनिरुद्धनगरे क्रीडित: श्रीरामलीलाया: सम्‍प्रति अंतरजाले प्रकाशनं क्रियते ।  तस्मिन् क्रमे एव एतौ द्वौ चलचित्रौ ।  अन्‍ये अग्रे प्रकाशयिश्‍याम: ।

कार्तिक पूर्णिमाया: अवसरे श्री श्रृंगीऋषिआश्रमे आयोजित: मेलापक: - Sri Sringirish Baba Aashram- Sri Ayodhya Ji

चित्र
कार्तिकपूर्णिमाया: अवसरे श्री श्रृंगीऋषिआश्रमे जनानां बहु सम्मर्द: भवति स्‍नानादिकं कर्तुं सरयूमातु: पवित्रधारायाम् ।  अ‍स्‍य एव अवसरस्‍य कानिचन चित्राणि अत्र प्रकाश्‍यन्‍ते ।

श्री श्रृंगीऋषि आश्रम (अवध क्षेत्रम्) - Sri Sringirish Baba Aashram- Sri Ayodhya Ji

चित्र
..
श्रीश्रृंगीऋषि आश्रमस्‍य मेलापक: ।  कार्तिक पूर्णिमाया: अवसरे अत्र वृहद् मेलाया: आयोजनं भवति प्रति वर्षं ।

श्रीराम लीला अनिरूद्धनगरस्‍य (अम्‍बेडकरनगर) कानिचन चित्राणि - Ramlila- Aniruddh Nagar, Benipur, (Ambedakar Nagar)..2011

चित्र
रामलीला समापनावसरे भगवत: श्रीरामचन्‍द्रस्‍य राजतिलकं कुर्वन्‍त: जना: ।  श्रीमान् अनिरूद्धमुनिपाण्‍डेय 'कवि आर्त' अपि विराजन्‍ते तत्र ।  तेषां नामस्‍योपरि एव अस्‍य सम्पूर्ण नगरस्‍य नाम एव अनिरूद्धनगर इति अस्ति ।  स्‍थानीय नेतार: अपि भगवत: तिलकं कृतवन्‍त: ।