वैदिक सन्धि प्रक्रिया- स्‍वर सन्धि: (प्रगृहीतपदसन्धि:)-Vaidik Swar Sandhi










अस्‍यान्‍तरं केचन् नियमा: निम्‍नोक्ता: सन्ति ।

प्रकृतिभाव: - सन्धिदशायामपि सन्धि: न भवति यत्र तत् प्रकृतिभावं कथ्‍यते ।  प्रकृतिभावस्‍यार्थ: यथासीत् तथैव स्‍यात् ।  लौकिक संस्‍कृते प्‍लुतप्रगृह्योSचि नित्‍यं इत्‍यादि सूत्रेण अस्‍यैव निदर्शनं क्रियते ।  एते अग्रवद् भवन्ति । ----

(1) प्रगृह्य स्‍वराणाम् अनन्‍तरं यदि 'ति' इति भवति चेत् यथावत् एव तिष्‍ठति ।
      अर्थात् प्रगृह्य स्‍वराणां प्रकृतिभावं भवति ।  यथा - प्रो इति । इन्‍द्रवायू इमे सुता ।
किन्‍तु त्र्यक्षरान्‍तशब्‍दानाम् अन्ते आगतानां प्रगृह्याणां स्‍वराणां अनन्‍तरं यदा 'इव' भवति चेत् प्रकृतिभावं न भवेत् ।  यथा - दम्‍पती + इव = दम्‍पतीव ।
सन्धित: उत्‍पन्‍न: 'उ' वर्णस्‍य पूर्वं यदि 'य' इति भवति तथा च स: 'उ' वर्ण: प्रगृह्यं भवेत चेत् प्रकृतिभाव: भवति । ( प्रत्‍यु अदर्शि इत्‍यस्मिन् प्रति+उ= प्रत्‍यु इति अभवत् ।  प्रगृह्य संज्ञा अस्ति सति प्रकृतिभाव: जात: )।

(2) 'सु' इत्‍यस्‍यानन्‍तरं यदि उू वर्णत: प्रारभ्‍यमान: शब्‍द: आगच्‍छेत् तर्हि प्रकृतिभाव: भवेत् । -- ताभिरूपु उूतिभि: ।

(3) श्रद्धा, साम्राज्ञी, सुशमी, स्‍वधोती, पृथुज्रयी, पृथिवी, ईषा, मनीषा, यया निद्रा, ज्‍या, प्रपा, इत्‍येतेषाम् अनन्‍तरं  अ, इ, ई आगच्‍छेत् तर्हि प्रकृतिभाव: भवेत् ।

(4) 'सचा' इत्‍यस्‍य अनन्‍तरं स्‍वरत: प्रारम्‍भपादस्‍य आगमने सति प्रकृतिभाव: भवति । यथा -- मन्दिष्‍ट यदुशने काव्‍ये सचाँ इन्‍द्र: ।

(5) एकाक्षर पद 'आ' इत्‍यस्‍य अनन्‍तरं पादस्‍य प्रारभक: स्‍वरवर्ण: अथ च तस्‍य 'अ' इत्‍यस्‍य पूर्वं 'सु' जोषम्, चर्षणी, चर्षणिभ्‍य: ए, अस्‍मत्, आगच्‍छेत् तर्हि 'आ' इत्‍यस्‍य प्रकृतिभाव: भवति ।  (4), (5) इत्‍ययो: सन्‍धयो: प्रकृतिभावे सति 'आ' वर्णे अनुस्‍वारं भवेत् । -- तं मर्जयन्‍त सुवृधं नदीष्‍वाँ उशन्‍तम् ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .