वैदिक सन्धि प्रक्रिया (उपाचरित सन्धि:)



विसर्गस्‍य 'स'कारे परिवर्तनम् उपाचरितमस्ति ।  एतत् निम्‍नवदस्ति ----
        (1) विसर्गस्‍य पूर्वं नामि-स्‍वर: ऋ, इ, ई, उ, उू, ए, ओ, ऐ, औ आगच्‍छेत् तर्हि विसर्गस्‍य 'ष' भवति ।
यथा - नि: + कृती = निष्‍कृती ।
          (2) यदा पादस्‍य मध्‍ये विसर्गस्‍यानन्‍तरं 'क' 'प' च आगच्‍छेत् चेत् उपर्युक्‍तं परिवर्तनं भवेत् ।
          (3) पादस्‍य अन्‍तर्गते असमस्‍तस्‍य पदस्‍य विसर्गस्‍य पूर्वं 'अ' भवेत् अनन्‍तरं च पति शब्‍द: भवेत् चेत् विसर्गस्‍य 'स'कार: भवेत् ।
यथा - ब्रह्मणस्‍पते ।  वाचस्‍पति: ।
          (4) विसर्गस्‍यानन्‍तरं यदा करं, कृतं, कृधि, करत्, क, शब्‍दा: आगच्‍छेयु: चेदपि विसर्गस्‍य 'स'कार: भवेत् ।
यथा - सहस्‍करम्, नस्‍कृतम्, शश्‍वतस्‍क: ।
           (5) असन्‍त शब्‍दस्‍य विसर्गस्‍य 'स'कार: भवति यदा तस्मिन् शब्‍दे 'र'कार: भवेत् तथा च पार, परि, कृतानि, करति शब्‍दा: अनन्‍तरं आगच्‍छेयु: ।
यथा - तमसस्‍पारम्, अपस्‍पारे ।
        एतदतिरिक्‍तं 'वास्‍तो' इत्‍येतस्‍य अनन्‍तरं 'पति' आगमने सति, आवि:, हवि:, ज्‍योति: इति अनन्‍तरं क, पान्‍त, पश्‍यति चागमने सति, इलाया: गा: नमस: देवयु:, द्रहु:, मातु:, इल: शब्‍दानाम् अनन्‍तरं 'पद' शब्‍दागमने सत्‍यति उपाचरित: भवति ।

एतेषाम् अतिरिक्‍तं काश्‍चन् अन्‍यसन्‍धविकारा: अपि सन्ति, ते निम्‍नोक्‍ता: सन्ति ।

       यदि नकास्‍य पूर्वं 'आ' भवेत् अनन्‍तरं च स्‍वरा: भवेयु: चेत् शब्‍दान्‍ते सत्‍यपि तस्‍य लोप: भवति ।  अनेन प्रकारेण अज्रान्, जग्रसानान्, जघन्‍वान्, देवहूतमान्, बद्वधानान्, इन्‍द्रसोमान्, तृषाणान्, नो देवदेवान् आदिषु नकारस्‍य लोप: भवति ।
यथा - दधन्‍वाँ यो ।  जुजुर्वां य आदि उदाहरणों में नकारस्‍य लोप: अभवत् ।

        नकारस्‍य पूर्वं यदा ई, उू भवति अनन्‍तरं च हतम्, योनौ, वचोभि:, यान्, युव-यून, वनिषीष्‍ट शब्‍दा: अथवा कश्चित् स्‍वर: आगच्‍छेत् तर्हि नकारस्‍य रकार: भवेत् ।
यथा - दस्‍यूँरेको, रश्‍मी, रवि आदि अस्‍य अपवादा: सन्ति ।


           नकारस्‍य पूर्वं यदा दीर्घस्‍वर: भवेत् अनन्‍तरं च चरित, चक्रे, चमसान्, च, चो, चित्, च‍रसि, च्‍यौल:, चतुर:, चिकित्‍वान् शब्‍दा: भवेयु: चेत् नकारं विसर्गवत् अवगच्‍छेम ।
यथा - महाँश्‍चरति ।
           ताँस्‍ते, सर्वांस्‍तान्, देवाँस्‍त्‍वम्, ताँस्रायस्‍व, आवदँस्‍त्‍वम् इत्‍येषु अपि नकारस्‍य विसर्ग: भवेत् ।
           एतासु सन्धिषु यदा 'न'कारस्‍य लोप: भवति अथवा नकार: रकार: उत विसर्ग: भवति चेत् नकारस्‍य पूर्वं आगच्‍छन् स्‍वरे अनुस्‍वार: योज्‍यते ।


         (1) पुरु, पृथु, अधि इत्‍येषाम् अनन्‍तरं यदा 'चन्‍द्र' शब्‍द: आगच्‍छेत् तर्हि मध्‍ये 'श'कार: भवेत् ।
यथा - पृथुश्‍चन्‍द्रम्, अधिश्‍चन्‍द्रम् ।
         (2) असमस्‍ते पदे 'परि' अनन्‍तरं 'कृ' आगमने सति मध्‍ये 'ष'कार: भवति ।
यथा - परिष्‍कृण्‍वन् ।
         (3) समस्‍तपदान्‍ते 'वन' इति भवेत् अनन्‍तरं च 'सद' शब्‍द: आगच्‍छेत् चेत् मध्‍ये 'र'कारस्‍य आगम भवति ।
यथा - वनर्षदम् ।

एते आसन् वैदिक सन्‍धय: ।  वैदिकसन्धिप्रक्रियायां सम्‍प्रति विसर्गसन्धिरपि समाप्‍यते ।  अग्रिमकक्ष्‍या: लौकिकसन्‍धीनां भविष्‍यति ।

तावत् सर्वेभ्‍यो नमो नम:

संस्‍कृतजगत् 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी