संदेश

January, 2012 की पोस्ट दिखाई जा रही हैं

ऋग्‍वेदस्‍य व्‍यवस्‍था विषयविन्‍यास: च - मण्‍डलक्रम:

चित्र
मण्‍डलक्रम: - मण्‍डलक्रमस्‍य अवान्‍तरविभाजनम् अनुवाकेषु सूक्‍तेषु च अस्ति ।  सम्‍पूर्णे ऋग्‍वेदे 10 मण्‍डलानि सन्ति ।  मण्‍डलस्‍य एषा एव संख्‍या ऋग्‍वेदस्‍य 'दाशतयी' इति अभिधानकारणम् ।  प्रत्‍येकं मण्‍डलं कश्मिश्चित् अनुवाके विभक्‍तम् अस्ति ।  प्रत्‍येके अनुवाके कानिचन् सूक्‍तानि सन्ति, प्रत्‍येकेषु सूक्‍तेषु च अनुपातत: 10 ऋचा: सन्ति ।ऋक्‍-संहितायां सम्‍पूर्ण 85 अनुवाका: सन्ति 1017 सूक्‍तानि च सन्ति ।  ऐतिहासिकआधारस्‍य कारणेन आधुनिकविदुषां मध्‍ये मण्‍डलक्रम: विशेषलोकप्रिय: अस्ति ।  शौनककृत अनुवाकानुक्रमणी अनुसारेण ऋचानां पूर्णसंख्‍या 10]580-1@4 इति अस्ति ।ऋचां दश सहस्राणि ऋचां पंचशतानि च ।ऋचामशीति: पादश्‍च पारणं संप्रकीर्तितम् ।।आधुनिकगणनानुसारं ऋग्‍वेदे सम्‍पूर्णं ऋचा: 10]417 सन्ति ।  अस्मिन् बालखिल्‍यसूक्‍तानि अपि सम्मिलितानि सन्ति ।  प्रक्षेपम् अपवारितुम् अनुक्रमणीकारा: ऋक्-संहिताया: शब्‍दसंख्या अपि गणितवन्‍त: ।  तदनुसारं ऋचासु 1]53]826 शब्‍दा: आगता: सन्ति । शाकल्‍यदृष्‍टे: पदलक्षमेकं सार्धं च वेदे त्रिसहर्सयुक्‍तम् । शतानि चाष्‍टौ दशकेद्वयं च पदानि षट् चेति हि चर्चितानि ।।…

ऋग्‍वेदस्‍य व्‍यवस्‍था विषयविन्‍यास: च - अष्‍टकक्रम:

चित्र
ऋग्‍वेदस्‍य अभिप्राय: - स: वेद: यस्मिन् ऋचानां प्राधान्‍यं भवति ।  ऋचा: इत्‍युक्‍ते पद्यात्‍मकमन्‍त्रा: - 'तेषामृग्‍यत्रार्थवशेन पाद-व्‍यवस्‍था' ।  अनेन प्रकारेण ऋग्‍वेदसंहिता ऋचानां संकलितनिधि: अस्ति ।  अस्‍य विभाजनम् 'अष्‍टक क्रम' अथ च 'मण्‍डल क्रम' इति द्विधा अस्ति ।अष्‍टकक्रम: - अष्‍टकविभाजनं पाठसौविध्‍याय कृतमासीत् ।  कृत्रिमविभाजनम् अस्ति एतत् ।  अष्‍टकक्रमस्‍य अवान्‍तरविभाजनम् अस्ति - अध्‍याय: वर्ग: च ।  सम्‍पूर्णे ऋग्‍वेदे अष्‍ट अष्‍टकानि सन्ति, सर्वाणि अष्‍टकानि प्राय: सामान्‍यपरिमाणस्‍यैव सन्ति ।  प्रत्‍येकस्मिन् अष्‍टके अष्‍ट-अध्‍याया: सन्ति, प्रत्‍येकस्मिन् अध्‍याये केचन् वर्गा: सन्ति ।  प्रत्‍येकस्मिन् वर्गे पंचानां मन्‍त्राणाम् अनुपात: अस्ति ।  अध्‍यायानां पूर्णसंख्‍या 64 अस्ति, वर्गा: च 2006 सन्ति ।निम्‍नतालिकायां वर्गाणां ऋचाणां च सम्‍बन्‍ध: द्रष्‍टुं शक्‍यमस्ति । ऋचा:वर्गसंख्‍यापूर्णसंख्‍या1112243972914174696512076035634620767119833859472919योग:200610417इति अष्‍टकक्रम: ।

ऋग्वेद: - सामान्‍यपरिचय: शाखाविस्‍तारं च

चित्र
वैदिकवाड्.मये ऋग्‍वेदस्‍य पाठ-प्राथम्‍येन विहितमस्ति, यथा छान्‍दोग्‍योपनिषदे उक्‍तमस्ति - 'ऋग्‍वेदं भगवोध्‍येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थम्'(1.1.5)।  तैत्तिरीयसंहितायां तु एवमपि निगदितमस्ति यत् यज्ञे यत् किमपि यजुष्-सामाभ्‍यां क्रियते तत् शिथिलं किन्‍तु ऋग्भि: कृतं तु दृढम् - 'यद् वैयज्ञस्‍य साम्‍ना यजुषा क्रियते शिथिलं तद् यद् ऋचा तद् दृढम्' (तै.स. 6.5.10.3) ।ऋग्‍वेदस्‍य शाखा: -अध्‍ययनप्रसारकारणात् कालान्‍तरे एकस्‍या: एव मन्त्रसंहिताया: अनेका: शाखा: अभवन् ।  एकस्‍य वेदस्‍य सर्वासु शाखासु वस्‍तुत: मूलवेद: तु अभिन्‍न: एवासीत् ।  एतेषु केषांचन् मन्त्राणां न्‍यूनाधिक्‍यं, पौर्वापर्यं, पाठ-व्‍यतिक्रम:, उच्‍चारणभेद:, अनुष्‍ठानविधे: च पार्थक्‍यम् एव प्राय: भवति, यथा पं. सत्‍यव्रत सामश्रमीवर्येण निगदितम् 'वेदशाखाभेदो न मन्‍वाद्यध्‍यायभेदतुल्‍य:, प्रत्‍युत भिन्‍नकाललिखितानां भिन्‍नदेशीयानामेकग्रन्‍थानामपि ब‍हुतरादर्शपुस्‍तकानां यथाभवत्‍येव पाठादिभेद: प्रायस्‍तथैव' (वेदत्रयी परिचय:, पृ.42)।पतंजले: व्‍याकरणमहाभाष्‍यगत कथनानुसारं ऋग्‍वेदस्‍य कदाचित् 21 शाखा: आसन् - …

वेदानाम् आविर्भाव:

चित्र
भारतीयविद्वान्‍स: केनचित् पुरुषेण तु वेदानाम् उत्‍पत्ति: रचना वा नैव मन्‍यन्‍ते ।  तेषामनुसारं मन्‍त्रै: सह येषां नामानि आगतानि सन्ति ते तु द्रष्‍टार: न तु रचयिता ।  सायणाचार्यानुसारं एते द्रष्‍टार: उत ऋषय: अतीन्द्रियार्थानां साक्षात्‍कर्तार: सन्ति -'अतीन्द्रियार्थद्रष्‍टारो हि ऋषय:' ।  यास्‍कस्‍य कथनमपि महत्‍वपूर्णमेव -'साक्षात्‍कृतधर्माणं ऋषयो बभूवु: ।  तेवरेभ्‍योसाक्षात्‍कृतधर्मेभ्‍य उपदेशेन मन्‍त्रान् सम्‍प्रादु: (निरुक्‍तम् 1.2) ।ग्रन्‍थरूपेण वेदा: मानव-समूहे कथम् आगतवन्‍त: इति एतस्मिन् विषये 40 मता: प्रचलिता: सन्ति, येषां वर्गीकरणं त्रिषु वर्गेषु कर्तुं शक्‍यमस्ति ।1- वेदा: स्‍वत: आविर्भूत: अतएव अपौरुषेया: ।  पूर्वमीमांसाकार जैमिनि: तस्‍य भाष्‍यकार: शबरस्‍वामिवर्य: वार्तिककार: कुमारिलभट्टवर्य: च अस्‍य विशदविवेचनं कृतवन्‍त: सन्ति । 2- न्‍याय-वैशेषिक दर्शनेषु ईश्‍वर: एव वेदस्‍य रचयिता इति स्‍वीकृत: अस्ति ।  तेषामनुसारे प्रत्‍येकस्‍य ग्रन्‍थस्‍य रचयिता भवति एव अत: वेदस्‍य रचयिता तु केवलं ईश्‍वर: एव यतोहि वेदस्‍य वाक्‍यरचना अतएवबुद्धिपूर्णा अस्ति - 'बुद्धिपूर्वा …

वेदानां विभिन्नानि नामानि ।

चित्र
वेदग्रन्‍थानां कानिचन् इतोपि नामानि सन्ति ।  वेदं श्रुति:, त्रयी, छन्‍दस्, निगम, आम्‍नाय, स्‍वाध्‍याय: च अपि कथ्‍यते ।श्रुति: - गुरुमुखात् प्राप्‍ते सति श्रुति: इति कथ्‍यते ।त्रयी - रचनात्रैविध्‍यकारणात् (ऋचा, यजुष्, सामन्) त्रयी इति कथ्‍यते । छन्‍दस् - छन्‍द: इत्‍युक्‍ते बन्‍धनं - छन्‍दान्सि छादनात् ।  छन्‍दान्सि मनोभावान् आच्‍छन्‍नं कुर्वन्ति ।  निघण्‍टौ छन्‍दस्‍य कान्ति इत्‍यपि अर्थ: प्राप्‍यते ।  पूजाया: अर्थे अपि छन्‍द: प्रयुज्‍‍यते ।  अग्रे छन्‍दस्‍य विशिष्‍टार्थ: साममन्‍त्राणां प्रति अभवत् ।निगम - अस्‍यार्थ: वेदानां अर्थवत्‍ता इति अस्ति ।  एतत् नाम वेदानां गम्‍भीरअर्थवत्‍तां प्रकटयति । आम्‍नाय/समाम्‍नाय – 'म्‍ना' धातो: प्रयोग: अभ्‍यासार्थे भवति ।  इमौ वेदानां दैनन्दिनअभ्‍यासविषये वदत: ।स्‍वाध्‍याय: - वेदानां प्रतिदिनं सम्‍यकरूपेण अध्‍ययनं भवति स्म अत: ।इति

वेदा:

चित्र
वेदग्रन्‍था: अस्‍माकं भारतस्‍य एव न अपितु विश्‍वसाहित्‍यस्‍य प्राचीनतमा: ग्रन्‍था: सन्ति ।  सम्‍प्रति एतेषां ग्रन्‍थानां प्राचीनताया: विषये न केवलं भारतीया: मनीषिण: अपितु पाश्‍चात्‍य-मनीषिण: अपि मन्‍यन्‍ते ।  वेदानां विषये इत्‍यपि उक्‍तमस्ति यत् एते ग्रन्‍था: न केवलं हिन्‍दुधर्मस्‍य मूलम् अपितु सर्वधर्माणां मूलमेव । वेदोखिलो धर्ममूलम्वेदानां महत्‍वगायनं कुर्वन् एक: श्‍लोक: प्रतिपादित: अस्ति ।प्रत्‍यक्षेणानुमित्‍या वा यस्‍तूपायो न वुध्‍यते एनं विदन्ति वेदेन तस्‍माद्वेदस्‍य वेदता ।।अर्थात् यत् किमपि प्रत्‍यक्षे उत अनुमित्‍या ज्ञातुं शक्‍यं न भवति तेषां विषये ये ग्रन्‍था: वेदयन्ति ते एव वेदा: कथ्‍यन्‍ते ।वेद शब्‍द: विद् धातुना सह् घंय(च वर्गस्‍य अन्तिम: वर्ण:) प्रत्‍यय योजनेन निष्‍पन्‍नो भवति ।विद् धातो: प्रयोग: लाभे, ज्ञाने, सत्‍तायाम्, विचारणे च भवति ।  अनेन वेदस्‍य सामान्‍यार्थ: भवति तत् ज्ञानं येन धर्मार्थकाममोक्षा: इति पुरुषार्थचतुष्‍टया: ज्ञायन्‍ते, लभन्‍ते, विचारयन्ति च ते एव वेदा: । विदन्ति विन्‍दते लभते धर्मादिपुरुषार्थान् अनेन इति वेद:वेदानां विषये आचार्य सायण: लिखति …

अन्‍धेरनगरी चौपट राजा नाटकस्‍य प्रदर्शनम्

चित्र
श्रीमती सत्‍यवतीदेवी महाविद्यालये 26 जनवरी इति अवसरे अस्‍य नाटकस्‍य मंचनं कृतम् ।  अतिप्राचीनं नाटकमस्ति एतत् ।  पश्‍यन्‍तु मोदयन्‍तु च ।

गणतन्‍त्रदिवसस्‍य हार्दिकी शुभकामना:

चित्र
26 जनवरी 1950 इति अस्मिन् दिवसे एव अस्‍माकं भारतस्‍य गणतन्‍त्रं पूर्णरूपेण क्रियान्वितम् अभवत् ।  गणतन्‍त्रस्‍य पूर्णक्रियान्‍वयनं इत्‍यस्‍यार्थ: पूर्णस्‍वतन्‍त्रता ।  तत: पूर्वं स्‍वतन्‍त्रताया: उद्घोषणा तु आसीत् किन्‍तु शासनकार्यस्‍य चालका: अस्‍माकं भारतीया: न अपितु वैदेशिका: एव आसन् ।  केवलं नाम आसीत् अस्‍माकं स्‍वतन्‍त्रताया: ।  अस्‍माकं संविधानमपि नासीत् ।  26 जनवरी 1950 इति दिवसे एव अस्‍माकं संविधानं पूर्णरूपेण कार्ये आगतम् ।  तदारभ्‍य वयं पूर्णरूपेण स्‍वतन्‍त्रा: अभवाम ।
बहव: क्रान्तिकारिण: अस्यैव दिवसस्‍य कृते आत्‍मन: रक्‍तं जलवद् पातितवन्‍त: ।  किन्‍तु तेषु केषुचित् एव अस्‍माकं मध्‍ये अवशिष्‍टा: अभवन् राष्‍ट्रस्‍य स्‍वतन्‍त्रतावसरे ।  तेषां बलिदानिनां योगदानं तु अविस्‍मरणीयमेव ।  धन्‍या: ते महापुरुषा: ये आत्‍मोत्‍सर्गं कृत्‍वा अस्‍माकं जीवनं स्‍वतन्‍त्रं कृतवन्‍त: ।  ते एव सदर्थेषु भारतस्‍य भगवन्‍त: ।
तेषां कृते अस्‍माकं सर्वेषां नमनम्


जय हिन्‍द

नेता जी सुभाष चन्द्र बोसस्य जन्मदिवसस्य हर्दिकी शुभ कामनाः

चित्र
सुभाषचन्‍द्रबोसः सुभाषचंद्रबोसः
नेताजी सुभाषचंद्रबोसः
आज़ादहिन्दफ़ौज़स्य सर्वोच्यसेनापतेः समवस्त्रे।जन्मदिनम्२३ पूर्वमाघः १८९७जन्मस्थानम्कटकम्, ओड़िशामरणदिनम्१८ श्रावणः १९४५मरणस्थानम्ताईवानजन्मराज्यम्अङ्लभारतम्विचारधारासमाजवादराजकीयपक्षःफ़ोर्वडब्लोकमतम्हिन्दुधर्मःतुम मुझे खून दो, मैं तुम्हे आज़ादी दुँगा

नेताजी सुभाषचन्द्रबोसः (१८९७-१९४५) युगपुरुषः अस्ति। सः भारतभूमेः स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातेव बुद्धिमा आसीत्। प्ररम्भे तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातेव अङ्लशासनस्य विरोधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।
द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्यसर्वोच्यसेनापति असीत। रासबिहारीबोसः सुभाषम् दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत्। सः दक्षिणोत्तरजम्बुद्वीपात् पुर्वोत्तरभारते अङ्गलराज्ये आक्रमणम् अकरोत्।

बाल्यकालः विद्यार्थीजीवनं चओड़िशायाः प्रसिद्धनगरे कटके सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयेण जानकीनाथः अपि विरोधिः अभवत्। अतः सः काङ्ग्रेसे अपि असङ्गच्छत्।
सुभाषस्य कुटु…

विभक्ति प्रकरणम् (प्रथमा विभक्ति:)

चित्र
प्रथमा विभक्ति: - (1) प्रातिपदिकार्थ-लिंग-परिमाण-वचनमात्रे प्रथमा – प्रातिपदिकार्थे, लिंगमात्रे, संख्‍यामात्रे च प्रथमा स्‍यात् ।


उदाहरणम् – गौ: गोष्‍ठम् आगच्‍छति । अत्र ‘गो’ इति प्रातिपदिकस्‍य अर्थ: गोत्‍वविशिष्‍ट: गौ: इति ।


सम्‍बोधने च –सम्‍बोधनस्‍य अर्थे अपि प्रथमा वि‍भक्ति: भवति ।
यथा – हे राम हे रामौ हे रामा:


* कर्तृवाच्‍ये कर्तरि प्रथमा भवति तथा च कर्मवाच्‍ये कर्मणि प्रथमा भवति ।
यथा – राम: पठति । रामेण पठ्यते ।

संस्‍कृतजगत्

कारकप्रकरणम् (धात्‍वर्थ:)

चित्र
धात्‍वर्ध:
धातु: - धातू द्वौ - तिड.: कृतश्‍च । ‘पचति’ इत्‍या‍दौ तिड.न्‍ते प्रकृति: ‘पच् धातु:’, प्रत्‍यय: च ‘तिड.’ इति । एवमेव ‘पचन्’ इत्‍यादौ कृदन्‍ते प्रकृति: प्रत्‍यय: च भवत: । अत्र ‘पच् धातु:’, प्रत्‍यय: च ‘कृत्’ ।

तिड.न्‍तम् – प्रकृति:, प्रत्‍यय: च
कृदन्‍तम् – प्रकृति:, प्रत्‍यय: च

धातु: फलं व्‍यापारं च बोधयति ।

यथा – ‘पचति’ इत्‍यत्र पच् धातु: अस्ति । स: पच् धातु: विक्लित्तिरूपं फलं (विक्लिति: = मृदुविशदत्‍वम् । तण्‍डुलादौ जायमान: विकार: इति यावत्) तदनुकूलव्‍यापारं च बोधयति । एवं च पच् धातो: अर्थ: विक्लित्‍यनुकूलव्‍यापार: इति ।

संस्‍कृतजगत्

कारक प्रकरणम् (सम्‍प्रदानम्, अपादानम्, अधिकरणम् च) - Karak Prakaranam (Sampradanam, Apadanam and Adhikaranam)

चित्र
सम्‍प्रदानम्

कर्मणा यमभिप्रैति स सम्प्रदानम् – दानकर्मणा यं विशेषरूपेण तुष्‍यति तस्‍य सम्‍प्रदानसंज्ञा भवति । ‘क्रियया यमभिप्रैति सोSपि सम्‍प्रदानम्’अनेन वार्तिकेन – कर्ता क्रियाद्वारा यस्‍य विशेषरूपेण उन्‍मुखी भवति, तस्‍यापि सम्‍प्रदानसंज्ञा भवति इति ।

उदाहरणम् – विप्राय गां ददाति । अस्मिन् वाक्‍ये दानकर्मणा विप्रं तुष्‍यति अतएव विप्रस्‍य सम्‍प्रदान संज्ञा अभवत् ।



अपादानम्

ध्रुवमपायेSपादानम् – अपायस्‍य (पार्थक्‍यस्‍य) अवस्‍थायां ध्रुवस्‍य (अचलस्‍य) अपादानसंज्ञा भवति ।

उदाहरणम् – बालक: ग्रामात् आयाति । अत्र बालकस्‍य ग्रामात् पार्थक्‍यं भवति अ‍त: ‘ग्राम’ इति शब्‍दस्‍य अपादानसंज्ञा अभवत् ।



अधिकरणम्

आधारोSधिकरणम् – कर्त्रा कर्मणा वा विद्यमानक्रियाया: य: आधार: भवति स: अधिकरणं कथ्‍यते । अर्थात् यस्मिन् स्‍थाने कर्त्रा कर्मणा वा द्वारा क्रियाया: सम्‍पादनं भवति, तदधिकरणं कथ्‍यते ।

उदाहरणम् – स्‍थाल्‍यां पचति । अस्मिन् वाक्‍ये पाचनकार्यस्‍य आधार: स्‍थालिका अस्ति अत: स्‍थालिकाया: अधिकरणसंज्ञा अभवत् ।

संस्‍कृतजगत्

कारक प्रकरणम् (कर्ता, कर्म, करणं च)

चित्र
कर्ता
स्‍वतन्‍त्र: कर्ता – क्रियायां स्‍वातन्‍त्र्येण विवक्षित: अर्थ: कर्ता स्‍यात् इति सूत्रार्थ: । स्‍वातन्‍त्र्यं नाम व्‍यापाराश्रयत्वम् ।

उदाहरणम् – बाल: खादति । खादधातो: अर्थ: भक्षणक्रिया । सा क्रिया बाले तिष्‍ठति अत: क्रियाया: आश्रय: बालक: । अत: बालक: एव कर्ता इति ।


कर्म

कर्तुरीप्सिततमं कर्म – कर्ता क्रियया यं विशेषरूपेण इच्‍छति तस्‍य कर्मसंज्ञा भवति ।

उदाहरणम् – स: ग्रामं गच्‍छति । अस्मिन् वाक्‍ये कर्तु: इप्सिततमं ‘ग्रामम्’ अस्ति अत: ग्रामस्‍य कर्मसंज्ञा भवति । ‘’अनभिहिते’’ सूत्रेण यत्र कर्म अनुक्‍तं भवेत् तत्रापि अनेन सूत्रेण कर्मकारकस्‍यैव विधानं अभवत् ।


करणम्

साधकतमं करणम् – क्रियाया: सिद्धौ प्रकृष्‍टोपकारकं (सर्वाधिकं सहायकम्) कारकं करणसंज्ञं स्‍यात् इति ।

उदाहरणम् – रामेण बाणेन हतो बाली । अस्मिन् वाक्‍ये हनन क्रियायां कर्तु: सर्वाधिकं सहायकं ‘वाणम्’ अस्ति अत: बाणस्‍य करणसंज्ञा अस्ति ।



संस्‍कृतजगत्

कथा दुर्गासप्‍तशती - Katha Durga Saptshati Music edition

चित्र
कथा दुर्गासप्‍तशती सम्‍पूर्ण दुर्गासप्‍तशतीश्‍लोकानां हिन्‍दी अनुवाद: अस्ति ।  अस्‍य अनुवादक: माननीय: कवि: डॉ देवीसहायपाण्‍डेय: 'दीप' इति नामधेय: अस्ति ।  गायक: च मम पिता माननीय: श्री कवि: अनिरुद्धमुनि पाण्‍डेय: 'आर्त' इति नामधेय: अस्ति ।

कथा दुर्गासप्‍तशती - Katha Durga Saptshati Music edition

चित्र
कथा दुर्गासप्‍तशती सम्‍पूर्ण दुर्गासप्‍तशतीश्‍लोकानां हिन्‍दी अनुवाद: अस्ति ।  अस्‍य अनुवादक: माननीय: कवि: डॉ देवीसहायपाण्‍डेय: 'दीप' इति नामधेय: अस्ति ।  गायक: च मम पिता माननीय: श्री कवि: अनिरुद्धमुनि पाण्‍डेय: 'आर्त' इति नामधेय: अस्ति ।

ब्‍लागरपृष्‍ठस्‍य नूतनी आवंटन सुविधा ।

चित्र
सम्‍भवत: अस्‍या: सुविधाया: विषये भवन्‍त: पूर्वमेव जानियु: ।  मया तु अद्यैव दृष्‍टम् अत: चिन्तितं यत् भवन्‍त: सूचयामि ।  ब्‍लागरपृष्‍ठस्‍य साक्षात् गूगलपृष्‍ठे आवंटनस्‍य (Share) सुविधा सम्‍प्रति सम्‍प्राप्‍ता अस्ति ।
        भवत्‍सु प्रायश: सर्वे एव ब्‍लागर इत्‍यस्‍य पृष्‍ठे लेखनाय ब्‍लागर डैशबोर्ड इत्‍यस्‍यैव प्रयोग: कुर्वन्ति ।  पुनश्‍च तत् गूगलप्‍लससामाजिकपृष्‍ठे प्रेषयितुं एकत्रत्‍य प्रतिकृत्‍वा (Copy) अन्‍यत्र संयोजयन्ति (Past) ।  किन्‍तु अधुना तु यदा भवन्‍त: लेखनं प्रकाशयन्ति, साक्षात् एव एकं नूतनं वातायनम् (Window) उद्घटति ।
उपरि दत्‍ते चित्रे साक्षात् गूगलप्‍लसपृष्‍ठे प्रापयितुं वातायनम् उद्घटिष्‍यति ।  सम्‍प्रति साक्षात् शेयर इति विकल्‍पे नोदनं कृत्‍वा गूगलप्‍लसपृष्‍ठे प्रकाशयतु ।
एवं किमपि एवं विधा दृष्‍यते गूगलप्‍लसपृष्‍ठस्‍योपरि । ---
 लेखप्रकाशनानन्‍तरं यदि आवंटयितुम् इच्‍छति चेत् अध: दत्‍तचित्रे यथा दर्शितमस्ति तथैव क्रियताम् ।
सम्‍प्रति गूगलप्‍लसपृष्‍ठे लेखप्रकाशनं सामान्‍यमेव ।

संस्‍कृतजगत्


कारक प्रकरणम्

चित्र
कारकम् अक्षरम् – न क्षीयते इति अक्षरम् । पदम्– सुप्तिड्.न्‍तं पदम् ।  क्रमवतां वर्णानां समूह: पदम् । वाक्‍यम् – एकतिड्. वाक्‍यम् ।  अथवा कारकान्विता क्रिया वाक्‍यम् । कारकम् – क्रियान्‍वयित्‍वं कारकत्‍वम् ।  अन्‍वय: - सम्‍बन्‍ध: इति ।  क्रियया सह सम्‍बन्‍ध: अस्ति यस्‍य तत् कारकम् इति ।  कारकाणि षड् सन्ति । कर्ता कर्म च करणं सम्‍प्रदानं तथैव च ।   अपादानाधिकरणमित्‍याहु: कारकाणि षट् ।। कर्ता, कर्म, करणम्, सम्‍प्रदानम्, अपादानम्, अधिकरणम् च ।  सम्‍बन्‍ध: कारके न गण्‍यते यतोहि अस्‍य क्रियया सह साक्षात् सम्‍बन्‍ध: नास्ति । 1-पाचक: पचति – अत्र पाचक: (कर्ता) पाचनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति । 2-गां स्‍पृशति – अत्र गौ: (कर्म) स्‍पर्शनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति । 3-परशुना छिनत्ति – अत्र परशु: (करणम्) छेदनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति । 4-बालाय फलं ददाति – अत्र बाल: (सम्‍प्रदानम्) दानक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति । 5-प्रासादात् प‍तति – अत्र प्रासाद: (अपादानम्) पत‍नक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।