ऋग्‍वेदस्‍य व्‍यवस्‍था विषयविन्‍यास: च - मण्‍डलक्रम:

rigved

 

मण्‍डलक्रम: - मण्‍डलक्रमस्‍य अवान्‍तरविभाजनम् अनुवाकेषु सूक्‍तेषु च अस्ति ।  सम्‍पूर्णे ऋग्‍वेदे 10 मण्‍डलानि सन्ति ।  मण्‍डलस्‍य एषा एव संख्‍या ऋग्‍वेदस्‍य 'दाशतयी' इति अभिधानकारणम् ।  प्रत्‍येकं मण्‍डलं कश्मिश्चित् अनुवाके विभक्‍तम् अस्ति ।  प्रत्‍येके अनुवाके कानिचन् सूक्‍तानि सन्ति, प्रत्‍येकेषु सूक्‍तेषु च अनुपातत: 10 ऋचा: सन्ति ।

ऋक्‍-संहितायां सम्‍पूर्ण 85 अनुवाका: सन्ति 1017 सूक्‍तानि च सन्ति ।  ऐतिहासिकआधारस्‍य कारणेन आधुनिकविदुषां मध्‍ये मण्‍डलक्रम: विशेषलोकप्रिय: अस्ति ।  शौनककृत अनुवाकानुक्रमणी अनुसारेण ऋचानां पूर्णसंख्‍या 10]580-1@4 इति अस्ति ।

ऋचां दश सहस्राणि ऋचां पंचशतानि च ।

ऋचामशीति: पादश्‍च पारणं संप्रकीर्तितम् ।।

आधुनिकगणनानुसारं ऋग्‍वेदे सम्‍पूर्णं ऋचा: 10]417 सन्ति ।  अस्मिन् बालखिल्‍यसूक्‍तानि अपि सम्मिलितानि सन्ति ।  प्रक्षेपम् अपवारितुम् अनुक्रमणीकारा: ऋक्-संहिताया: शब्‍दसंख्या अपि गणितवन्‍त: ।  तदनुसारं ऋचासु 1]53]826 शब्‍दा: आगता: सन्ति ।

शाकल्‍यदृष्‍टे: पदलक्षमेकं सार्धं च वेदे त्रिसहर्सयुक्‍तम् ।

शतानि चाष्‍टौ दशकेद्वयं च पदानि षट् चेति हि चर्चितानि ।।

ऋग्‍वेदस्‍य गोत्र/वंशमण्‍डलम् - द्वितीयमण्‍डलत: सप्‍तममण्‍डलपर्यन्‍तं गोत्र अथवा वंशमण्‍डलम् इति उच्‍यते, यतोहि एतेषु समाविष्‍टमन्‍त्राणां दर्शनं केनचित् एकेन ऋषिणा तस्‍य वंशजै: च कृतम् अस्ति ।  तदनुसारं द्वितीयस्‍य द्रष्‍टा कवि: गृत्‍समद:, तृतीयस्‍य विश्‍वामित्र:, चतुर्थस्‍य वामदेव:, पंचमस्‍य अत्रि:, षष्‍ठस्‍य भारद्वाज:, सप्‍तमस्‍य च वशिष्‍ठ: तस्‍य गोत्रीयजना: च सन्ति ।

अन्‍यानि मण्‍डलानि - प्रथम-दशममण्‍डलयो: च सूक्‍तसंख्‍या 111 अस्ति ।  प्रथममण्‍डलस्‍य ऋषय: कात्‍यायनेन 'शतर्चिन:' (शतऋचा: कृता: यै:) उक्‍ता: सन्ति ।  अस्‍य मण्‍डलस्‍य प्रथम: ऋषि: विश्‍वामित्रस्‍य पुत्र: मधुच्‍छन्‍दा अस्ति ।  मधुच्‍छन्‍दाया: नामे शताधिकऋचा: सन्ति अत: छत्रिन्‍यायेन सर्वे ऋषय: शतर्चिन: कथ्‍यन्‍ते ।  नवममण्‍डलस्‍य सर्वाणि सूक्‍तानि सोमस्‍य स्‍तुतौ प्रयुक्‍तानि सन्ति ।  सामवेदे मन्‍त्रा: प्राय: अनेन मण्‍डलेन एव स्‍वीकृता: सन्ति ।  एनं मण्‍डलं पवमानमण्‍डलम् इति अपि कथ्‍यते ।  षड्गुरुशिष्‍यानुसारं दशमे मण्‍डले नासदीयसूक्‍तात् (10-129) पूर्वं सूक्‍तानि 'महासूक्‍तम्' इति अनन्‍तरं सूक्‍त‍ानि 'क्षुद्रसूक्‍तम्' चेति कथ्‍यन्‍ते अतएव एतेषां ऋषय: अपि तानि एव नामानि अभिधायते ।  दशममण्‍डलस्‍य एका इतोपि विशेषता अस्ति - अस्‍य ऋचा: यां देवतां समर्पिता: सन्ति: ता: एव देवता: तस्‍या: ऋचाया: ऋषय: अपि सन्ति ।

निम्‍नतालिकायां विभिन्‍नमण्‍डलानां ऋषय:, सूक्‍तसंख्‍या च प्रदर्शिता अस्ति ।

मण्‍डलानि ऋषय: सूक्‍तसंख्‍या
1 मधुच्‍छन्‍दा, दीर्घतमा, अंगिरा च 191
2 गृत्‍समद: तस्‍य वंशजा: च 43
3 विश्‍वामित्र: तस्‍य पुत्रा:, शिष्‍या: च 62
4 वामदेव: तस्‍य वंशजा: च 58
5 अत्रि: तस्‍य शिष्‍या: च 78
6 भरद्वाज: तस्‍य शिष्‍या: च 75
7 वशिष्‍ठ: तस्‍य वंशजा: च 104
8 कण्‍व: तस्‍य वंशजा: च 92$11(बालखिल्‍यम्)
9 पवमान:, अंगिरा च 114
10 महासूक्‍तीया: क्षुद्रसूक्‍तीया: ऋषय: 191
     
योग: - 1017$11&1028

 

शतपथब्राह्मणे उल्‍लेखं प्राप्‍यते यत् प्रजापति: ऋचा: गणनार्थं पृथक्‍कृतवान् ।  या: ऋचा: प्रजापतिन: सृष्‍टा: ताषाम् अक्षर संख्‍या द्वादशसहस्रबृहती (12]000*36&4]32]000) आसीत् - 'स ऋचो व्‍यौहत् ।  द्वादश बृहतीसहस्राण्‍येतावत्‍यो हर्चो या: प्रजापति सृष्‍टा:'

'चत्‍वारिंशतसहस्राणि द्वात्रिंशच्‍चाक्षरसहस्राणि' ।

एतन्निर्धारणं प्राचीनकालस्‍य अस्ति ।  अधुना उपलब्‍धशाकलशाखायां मन्‍त्राणां संख्‍या तु 10]417 एवास्ति ।

इति

टिप्पणियाँ

  1. आवश्यक ..लाभकारी जानकारी रिग्वेद के बारे में धन्यवाद ....

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।