कारक प्रकरणम्




कारकम्
अक्षरम् न क्षीयते इति अक्षरम् ।
पदम् सुप्तिड्.न्‍तं पदम् ।  क्रमवतां वर्णानां समूह: पदम् ।
वाक्‍यम् एकतिड्. वाक्‍यम् ।  अथवा कारकान्विता क्रिया वाक्‍यम् ।
कारकम् क्रियान्‍वयित्‍वं कारकत्‍वम् ।  अन्‍वय: - सम्‍बन्‍ध: इति ।  क्रियया सह सम्‍बन्‍ध: अस्ति यस्‍य तत् कारकम् इति ।  कारकाणि षड् सन्ति ।
कर्ता कर्म च करणं सम्‍प्रदानं तथैव च ।
  अपादानाधिकरणमित्‍याहु: कारकाणि षट् ।।
कर्ता, कर्म, करणम्, सम्‍प्रदानम्, अपादानम्, अधिकरणम् च ।  सम्‍बन्‍ध: कारके न गण्‍यते यतोहि अस्‍य क्रियया सह साक्षात् सम्‍बन्‍ध: नास्ति ।
1-      पाचक: पचति – अत्र पाचक: (कर्ता) पाचनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
2-      गां स्‍पृशति – अत्र गौ: (कर्म) स्‍पर्शनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
3-      परशुना छिनत्ति – अत्र परशु: (करणम्) छेदनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
4-      बालाय फलं ददाति – अत्र बाल: (सम्‍प्रदानम्) दानक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
5-      प्रासादात् प‍तति – अत्र प्रासाद: (अपादानम्) पत‍नक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
6-      पीठे उपविशति – अत्र पीठम् उपवेशनक्रियायाम् अन्‍वेति अत: कारकसंज्ञां धारयति ।
कर्तृकारकं क्रियायां साक्षात् अन्‍वेति ।  अन्‍यानि कारकाणि तु परम्‍परया क्रियायाम् अन्‍वयं प्राप्‍नुवन्ति इति ।

                             इदं परिशील्‍यताम् --------  


क:, कां, केन, कस्‍मै, कस्‍मात्, कुत्र ददाति इति प्रश्‍न: (अयोध्‍याया:) राजा, गां, हस्‍तेन, विप्राय, गोष्‍ठात्, गंगातीरे ददाति इति वाक्‍येन समाहित: भवति ।  अत: दानक्रियायां षडपि कारकाणि अन्वितानि भवन्ति इति स्‍पष्‍टम् । 
अयोध्‍याया: अन्‍वय: राज्ञि एव, न तु दानक्रियायाम् ।  अत: षष्‍ठी विभक्ति: (सम्‍बन्‍ध:) कारकं न इति ।

संस्‍कृतजगत्

टिप्पणियाँ

  1. Good Effort Fo Noble Cause of Sanskritam. Please Read The Useful Article..http://vivekajyoti.blogspot.com/2012/01/effect-of-sanskrit-on-brain.html

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी