संदेश

February, 2012 की पोस्ट दिखाई जा रही हैं

संस्‍कृतजगत् ईपत्रिकाया: प्रथमं संस्‍करणं प्रकाश्‍यते ।

चित्र
आदरणीया: संस्‍कृतज्ञबान्‍धवा:
वयं भवन्‍त: सूचयन् हर्षम् अनुभवाम: यत् संस्‍कृतभाषाया: प्रथमा ईपत्रिका सम्‍प्रति अस्‍माभि: प्रकाश्‍यते ।  एषा पत्रिका नूतनभारतीयवर्षस्‍य प्रारम्‍भावसरे करिश्‍यते ।  अस्‍या: पत्रिकाया: मुखपृष्‍ठं पूर्वमेव प्रकाशितम् अस्ति यत् भवतां पुरत: अत्र प्रस्‍तूयते ।
ये संस्‍कृतज्ञा: बान्‍धवा: स्‍वलेखान्, काव्‍यानि, गीतानि, कथा:, सामान्‍यज्ञानं, हास्‍यकणिका: आदय: अस्‍यां पत्रिकायां प्रकाशयितुं ईच्‍छन्‍त: सन्ति ते आत्‍मन: लेखान् 'pramukh@sanskritjagat.com' ईपत्रे प्रेषयितुं शक्‍नुवन्ति ।  कृपया स्‍वलेखान् मार्चमासस्‍य प्रथमसप्‍ताहपर्यन्‍तम् अवश्‍यमेव प्रेषयन्‍तु येन पत्रिकाया: प्रथमसंस्‍करणे एव भवतां लेखा: प्रकाशयितुं शक्‍यं भवेत् ।
लेखा: संस्‍कृतभाषायाम् एव भवेयु: ।




धन्‍यवादा:

संस्‍कृतजगत्

pramukh@sanskritjagat.com

अर्थालंकार: - उपमा अलंकार:

एकस्मिन् वाक्‍ये एव उपमानउपमेययो: वैधर्म्यरहितं सादृश्‍यम् उपमाअलंकार: कथ्‍यते ।साम्‍यं वाच्‍यमवैधर्म्‍यं वाक्‍यैक्‍य उपमा द्वयो:उपमाया: चत्‍वारि अंगानि भवन्ति - 1. उपमेयम् - (उपमातुं योग्‍यम् उपमेयम्) - य: उपमाया: योग्‍यं भवेत् अथवा यस्‍य तुलना क्रियते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये मुखम् उपमेयमस्ति । 2. उपमानम् -(उपमीयते अनेनेति उपमानम्) यस्‍य उपमा दीयते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये चन्‍द्र: उपमानम् अस्ति । 3. साधारणधर्म: -(उपमाने उपमेये च संगतोधर्म: साधारणो धर्म:) - उपमानोपमेययो: य: धर्म: समानतां वहति स: साधारणधर्म: ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'रम्‍यम्' साधारणधर्म: अस्ति ।4. उपमावाचक शब्‍द: - (वाचक सादृश्‍यार्थक इवादिशब्‍द:) - येन औपम्‍यं प्रकट्यते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'इव' शब्‍द: उपमां प्रकटयति । उपर्युक्तानुसारम् उपमाया: द्वौ भेदौ स्‍त: - 1. पूर्णोपमा -यस्‍याम् उपर्युक्‍तानि चत्‍वारि समग्रलक्षणानि भवन्ति सा पूर्णोपमा भवति । 2. लुप्‍तोपमा -य‍स्‍याम् उपर्युक्‍तेषु एकमपि लुप्‍त…

शब्‍दालंकार: - श्‍लेष अलंकार:

श्लिश्‍टपदै: (अनेकार्थयुक्‍तपदै:) अनेकानाम् अर्थानां प्रतिपादनं भवति यत्र तत्र श्‍लेषअलंकार: भवति ।'श्लिष्‍टै: पदैरनेकार्थाभिधाने श्‍लेष इष्‍यते' ।प्रायेण दृश्‍यते यत् बहूनाम् अर्थानां प्रतिपादनाय बहव: शब्‍दा: प्रयुज्‍ज्‍यते, किन्‍तु यत्र एकेन शब्‍देन एव एकाधिकार्थ: प्राप्‍यते तत्र श्‍लेष अलंकार: भवति ।श्‍लेष शब्‍द: अर्थवाची 'श्लिष्' धातुना (ष्लिष् आलिंगने) 'घयं' प्रत्‍ययं योज्‍य निष्‍पन्‍नो भवति ।  श्‍लेषस्‍य अर्थ: 'चिपकना' इति भवति ।आचार्य विश्‍वनाथेन श्‍लेषस्‍य 'वर्ण, प्रत्‍यय, लिंग, प्रकृति, पद, विभक्ति, वचन एवं च भाषा' इति षड् भेदा: भवन्ति ।  - ''वर्णप्रत्‍ययलिंगानां प्रकृत्‍यो: पदयोरपि । श्‍लेषाद् विभक्तिवचनभाषाणामष्‍टधा च स: ।।''अन्‍ये आचार्या: श्‍लेषालंकारं 'शब्‍दश्‍लेष' 'अर्थश्‍लेष'भेदयो: द्विधा भवति ।  उदाहरणम् - पृथुकार्तस्‍वरपात्रं भूषितनि:शेषपरिजनं देव । विल्‍सत्‍करेणुगहनं सम्‍प्रति सममावयो: सदनम् ।।अत्र अस्‍य श्‍लोकस्‍य द्विधा अर्थ: अस्ति ।  एक: भिक्षुक: एकस्‍य राज्ञ: पुरत: तस्‍य प्रशंसां कुर्वन् आत्…

शब्‍दालंकार: - यमक अलंकार:

चित्र
2. यमक अलंकार: - यस्मिन् काव्‍ये भिन्‍न-भिन्‍नअर्थप्रतिपादकशब्‍दानां एकाधिकवारम् आवृत्ति: भवति तत्र यमक अलंकार: भवति । सत्‍यर्थे पृथगर्थाया: स्‍वरव्‍यंजनसंहते: ।क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।।एते शब्‍दा: क्वचित् सार्थका: क्वचित् निरर्थका: अपि भवितुमर्हन्ति ।  किन्‍तु तेषां क्रमेण आवृत्ति: आवश्‍यकं भवति ।  क्रमेण आवृत्तिअभावे सति यमकं विहाय अनुप्रास अलंकार: भवति ।उदाहरणम् - नवपलाश-पलाशवनं पुर: स्‍फुटपरागपरागतपंकजम् ।मृदुलतान्‍तलतान्‍तमलोकयत् स सुरभिं-सुरभिं सुमनोभरै: ।।अत: क्रमश: 'पलाश' (पलाशपुष्‍पं/पत्रं), 'पराग' (पुष्‍पपराग/निरर्थकं), 'लतान्‍त' (निरर्थकं/लताया: अन्तिमभाग:) एवं च 'सुरभि' (सुगन्धि:/वसन्‍तऋतु:) शब्‍दानां एकाधिकवारं आवृत्ति: अस्ति ।  अस्मिन् उदाहरणे त्रयाणां भेदानाम् उदाहरणम् अपि प्रदत्‍तमस्ति ।'यमक' शब्‍दस्‍य व्‍युत्‍पत्ति: कुर्वन् काव्‍यप्रकाश-नागेश्‍वरी-टीकायाम् उक्‍तमस्ति - यमौ द्वौ समजातौ, तत्‍प्रतिकृतिर्यमकम्इवे प्रतिकृताविति (पा.सू. 5.3.96) कन् ।।अर्थात् 'यम- शब्‍दस्‍यार्थ: युगलम् इति ।  आचार्य पाणिनि: यम शब्‍देन…

शब्‍दालंकार: - अनुप्रास अलंकार:

चित्र
शब्‍दालंकार: स: अलंकार: अस्ति य: शब्‍दस्‍य शोभां वर्धयति ।  अस्‍य त्रय: भेदा: सन्ति । 1. अनुप्रास अलंकार:, 2. यमक अलंकार: एवं च3. श्‍लेष अलंकार:प्रत्‍येकस्‍य अलंकारस्‍य संक्षिप्‍तवर्णनं कृयते अत्र ।1. अनुप्रास अलंकार: – अनुप्रास शब्‍द: 'अनु*प्र*आस' शब्‍दै: मिलित्‍वा निष्‍पन्नो अभवत् ।  यस्‍यार्थ: अस्ति रसादे: अनुकूलं शब्‍दविन्‍यास: ।  स्‍वरस्‍य वैशम्‍ये अपि शब्‍दसाम्‍यं प्राप्‍यते यत्र तत्र अनुप्रास अलंकार: भवति । 'अनुप्रास: शब्‍दसाम्‍यं वैशम्‍येपि स्‍वरस्‍य यत्'।  तात्‍पर्यं – यदि शब्‍देषु स्‍वरा: समानं न सन्ति किन्‍तु व्‍यंजनानां समानता प्राप्‍यते चेत् तत्र अनुप्रास अलंकार: भवति ।आचार्यविश्‍वनाथ: अनुप्रास शब्‍दस्‍य व्‍युत्‍पत्ति: करोति -''रसाद्यनुगतत्‍वेन प्रकर्षेण न्‍यासोनुप्रास:''।  अर्थात् रसानाम् अनुकूलं न्‍यासम् (वर्णानां रचना विन्‍यास:) अनुप्रास: कथ्‍यते ।यथा - आदाय बकुलगन्‍धान्‍धीकुर्वन पदे पदे भ्रमरान् ।अयमेति मन्‍दमन्‍दं कावेरीवारिपावन: पवन: ।। उपर्युक्‍ते उदाहरणे ''गन्‍धान्‍धी'' शब्‍दे 'न' 'ध' वर्णयो:, 'का…

अलंकारस्‍य भेदा:

प्रायेण सर्वै: आचार्यै: शब्‍दार्थौ काव्‍यस्‍य शरीरमिति स्‍वीकृतमस्ति ।  अलंकारा: तस्‍य शब्‍दार्थरूपी-काव्‍यशरीरस्‍य शोभाधायकानि धर्माणि सन्ति ।  एतदर्थमेव काव्‍ये शब्‍दार्थयो: उत्‍कर्षाधायकं तत्‍वम् एव अलंकारस्‍य संज्ञा प्रदत्‍ता अस्ति ।  तात्‍पर्यमेतदस्ति यत् अलंकारस्‍य आधारौ शब्‍दार्थौ एव स्‍त: ।  एतदानुसारमेव अलंकारस्‍य द्विधा वर्गीकरणं कृतमस्ति । ''ते च‍ द्विविधा: शब्‍दगता: अर्थगताश्‍च ।''अलंकारस्‍य द्विधा वर्गीकरणं सर्वप्रथमम् आचार्येण रुद्रटेन कृतम् - ''वक्रोक्तिरनुप्रासो यमकं श्‍लेषस्‍तथापरं चित्रम् ।शब्‍दस्‍यालंकारा: श्‍लेषोर्थस्‍यापि सोन्‍योस्‍तु ।। (काव्‍यालंकार: - 2.13)अर्थस्‍यालंकारा: वास्‍तवमौपम्‍यतिशय: श्‍लेष: । एषामेव विशेषा अन्‍ये तु भवन्ति नि:शेषा: ।। (काव्‍यांलंकार: - 7.9)यद्यपि अन्‍यै: आचार्यै: अपि अनेन प्रकारेण विभाजनस्‍य प्रयास: कृत: अस्ति, किन्‍तु आचार्यविश्‍वनाथेन कृतं विभाजनम् अत्‍यधिकं समीचीनं प्रतीयते । -1. शब्‍दालंकार:, 2. अर्थालंकार:, 3. उभयालंकार: ।1. शब्‍दालंकार: - य: अलंकार: शब्‍दानां सौन्‍दर्येण काव्‍यस्‍य शोभावर्धनं करोति स: शब्…

अलंकार:

चित्र
अलंकार शब्‍दस्‍य सामान्‍यार्थ: भवति- आभूषणम् ।  'अलम्' अव्‍ययपूर्वकं 'कृ' धातुना 'घय्ं' प्रत्‍ययप्रयोगे निष्‍पन्‍नो भवति ।  अस्‍य तिस्र: व्‍युत्‍प‍त्‍तय: सन्ति -
1. अलंकरोति इति अलंकार: (कर्तृप्रधानव्‍युत्‍पत्ति: इयम्, अस्‍यार्थ: - शब्दार्थौ सुशोभयति स:),
2. अलंक्रियते अनेन इति अलंकार:(करणप्रधानव्‍युत्‍पत्ति: इयम्, अस्‍यार्थ: - शब्‍दार्थयो: अलंकरणं कृयते येन),
3. अलंकरणम् अलंकार:/अलंकृति: अलंकार:(भावप्रधानव्‍युत्‍पत्ति: इयम्, अस्‍यार्थ: - अलंकरणस्‍य भाव: एव अलंकार:) ।
अलंकार: साहित्‍यशास्‍त्रस्‍य महत्‍वपूर्र्म् अंगमस्ति ।  भगवता वेदव्‍यासेन अस्य महत्‍ताप्रतिपादनं कुर्वन् उक्‍तमस्ति यत् - अलंकारविहीनं काव्‍यं विधवास्‍त्रीसदृशं भवति ।  महाकवि पीयूषवर्ष जयदेव: स्‍वग्रन्‍थे 'चन्‍द्रलोके' उक्‍तवान् अस्ति -
''अंगीकरोति य: काव्‍यं शब्‍दार्थावनलंकृती ।
असौ न मन्‍यते कस्‍मादनुष्‍णमनलंकृती ।।
भामह आचार्य: अलंकारविषये वदति - ''न कान्‍तमपि निर्भूषं विभाति वनिताननम्''(आभूषणेन विना सुन्‍दरी स्‍त्री अपि न शोभते) ।
आचार्य दण्‍डी काव्‍यसुश…

अथर्ववेद संहिता

चित्र
वैदिकमन्‍त्रसंहितायाम् अथर्ववेदस्‍य कश्चित् विशिष्‍टम् एव महत्‍वमस्ति ।  एतस्‍या: संहिताया: महत्‍ववर्धनस्‍य कानिचन कारणानि अध: दत्‍तानि सन्ति -1. ऋग्‍वेदादय: केवलम् आमुष्मिकफलप्रदातार: सन्ति किन्‍तु अथर्ववेद: ऐहिकमामुष्मिकम् च फलं प्रददाति ।  अतएव सायणाचार्यस्‍य कथनमस्ति - 'व्‍याख्‍या वेदत्रित यमामुष्मिकफलप्रदम् ।  ऐहिकामुष्मिक फलं चतुर्थं व्‍याचिकीर्षति' ।(अथर्ववेदभाष्‍यभूमिका)2. ब्रह्मा यज्ञस्‍य सर्वप्रमुख: ऋत्विज: अस्ति, तस्‍य वेद: अथर्ववेद: अस्ति ।  गोपथब्राह्मणानुसारं त्रिभि: वेदै: अपि यज्ञस्‍य मात्रम् एकस्‍य पक्षस्‍यैव पूर्ति: भवति; ब्रह्मा मनसा तत् पूर्णतां प्रददाति - 'स वा एष त्रिभिर्वेदैर्यज्ञस्‍यान्‍यतर: पक्ष: संस्क्रियते ।  मनसैव ब्रह्मा यज्ञस्‍यान्‍तरं पक्षं संस्‍करोति - गोपथ ब्राह्मणम् 1.3.2 ।3. विभिन्‍ना लोकरीतय:, अभिचारकर्माणि, चमत्कारा:, जादू-टोना, कृत्या-मूठप्रहरणादिकानि एवं च अन्‍येषां तात्‍कालिकविश्‍वासानां विशालसंग्रह: अस्ति अथर्ववेद: ।  अतएव मैक्‍डानलस्‍य कथनमस्ति - सभ्‍यताया: इतिवृत्‍ते: अध्‍ययनाय ऋग्‍वेदस्‍यापेक्षया अथर्ववेदे उपलभ्‍यमाना सामग्रि…

सामवेद संहिता

चित्र
'साम' शब्‍दस्‍य शाब्दिकार्थ: अस्ति- 'देवानां प्रशस्तिगानम्' इति ।  वृहदारण्‍यकोपनिषदे उक्‍तमस्ति यत् - 'सा च अमश्‍चेति तत्‍साम्न: सामत्‍वम् ।  सा ऋक् ।  तया सह सम्‍बन्‍ध: अमो नाम स्‍वरो यत्र वर्तते तत्‍साम ।'अर्थात् 'सा' तथा च 'अम' इत्‍ययो: मेलने 'साम' शब्‍दस्‍योत्‍पत्ति: जात: ।  अत्र 'सा' इत्‍यस्‍यार्थ: ऋचा एवं च अम इत्‍यस्‍यार्थ: षडज्, ऋषज्, गान्‍धारादय: सप्‍तस्‍वरा: ।  अत: ऋग्‍वेदस्‍य ऋचा: यदा स्‍वरै: योज्‍यते तदा सामस्‍योत्‍पत्ति: भवति ।  अनेन प्रकारेण या: ऋचा: सामै: आधाररूपेण मन्‍यन्‍ते ता: ऋचा: 'सामयोनि:'इति कथ्‍यन्‍ते ।  अर्थात् एता: एव ऋचा: सामस्‍योत्‍पत्तिकारणम् ।'सामस्‍य' महत्‍वं दर्शयन् 'शतपथब्राह्मणे' उक्‍तमस्ति - ''नासामा यज्ञो भवति'' ।  अर्थात् सामै: विना यज्ञ: न भवति ।  'बृहद्देवतायां' निगदितमस्ति यत् - य: मनुष्‍य: सामं जानाति सैव वेदस्‍य रहस्‍यं जानाति इति -''सामानि यो वेत्ति स वेद तत्‍वम्'' ।  श्रीमद्भगवद्गीतायां भगवता श्रीकृष्‍णेन उक्‍तमस्ति - '…

कृष्‍णयजुर्वेद:

चित्र
'चरणव्‍यूहस्‍य'अनुसारं कृष्‍णयजुर्वेदस्‍य सर्वा: 85 शाखा: भवेयु:, किन्‍तु सम्‍प्रति चतस्र: शाखा: एवोपलब्‍धा: सन्ति - तैत्तिरीय, मैत्रायणी, काठक, कपिष्‍ठलं च । तैत्तिरीयसंहिता -वैशम्‍पायनस्‍य शिष्‍यै: तित्‍तररूपेण गृहीतानि यजुर्वेदमन्‍त्राणि कृष्‍णयजुर्वेदसंहिता इति उक्‍तानि - यदि अस्‍या: आख्‍यायिकाया: उपरि विश्‍वासं विधेम चेत् कृष्‍णयजुर्वेदस्‍य एषा एव मुख्‍या प्रतिनिधि: शाखा भवेत् एवं च अनया संहितया सम्‍बद्धा: सर्वे ब्राह्मण, आरण्‍यक, उपनिषद्, श्रौतसूत्र, गृह्यसूत्रादिग्रन्‍था: उपलभ्‍यते अपि अतएव अस्‍य पुष्टिरपि भवति ।  सायणचार्यस्‍य शाखा अपि एषा एव आसीत् अत: तेन सविस्‍तारम् अस्‍योपरि भाष्‍यप्रणयनं कृतम् ।         तैत्तिरीयसंहितायां 7 काण्‍डानि, 44 प्रपाठका: तथा च 631 अनुवाका: सन्ति ।  विषयवस्‍तु: शुक्‍लयजुर्वेदात् पर्याप्‍तं समानतां वहन् सन् अपि काश्‍चन् भिन्‍नता: सन्ति ।मैत्रायणीसंहिता -'चरणव्‍यूहे' मैत्रायणीयानां गणना 12कठेषु कृता अस्ति ।  अग्रे एते सप्‍त उक्‍ता: सन्ति - मानव, वाराह, दुन्‍दुभ, ऐकेय, हरिद्रवीय, श्‍याम एवं च श्‍यामायनीय ।  अनेन ज्ञायते यत् मैत्रायणीय…

अटल बिहारी वाजपेयी

चित्र
भारतस्‍य एकादशतम: प्रधानमंत्री(प्रथम शासनकाल:) कार्यकाल:१६ मई१९९६१ जून१९९६पूर्ववर्ती - पी. वी. नरसिंह राव: परवर्ती - ऍच. डी. देवगौड़ा(द्वितीय शासनकाल:) कार्यकाल:१९ मार्च१९९८२२ मई२००४पूर्ववर्ती - इन्द्र कुमार गुजराल: परवर्ती - मनमोहन सिंह: जन्म - २५ दिसंबर१९२४ग्वालियर, मध्य प्रदेशराजनैतिकसंघ: - भारतीय जनता पार्टीअटल बिहारी वाजपेयी (जन्म २५ दिसंबर, १९२४) भारतस्‍य पूर्व प्रधानमन्‍त्री अस्ति ।  स: भारतीय जनसंघस्‍य स्‍थापकेषु: एक: अस्ति एवं च १९६८ त: १९७३ पर्यन्‍तं तस्‍य अध्‍यक्ष: अपि आसीत् ।  स: जीवनपर्यन्‍तं (यावच्‍छक्‍यं) भारतीयराजनीते संक्रिय: आसीत् ।  स: दीर्घकालपर्यन्‍तं राष्‍ट्रधर्म:, पांचजन्‍यं, वीरअर्जुन: च राष्ट्रियभावोत्‍प्रोतपत्र-पत्रिकाणां सम्‍पादनम् अपि अकरोत् ।  एतदरिक्‍तं स: एक: ओजस्‍वी वाक्‍पटु: च प्रसिद्ध हिन्‍दीकवि: आसीत् ।  स: जीवनपर्यन्‍तम् अविवाहितम् अपि आसीत् ।
आरम्भिकजीवनम्उत्‍तरप्रदेशस्‍य आगराजनपदस्‍य एकस्‍य प्राचीनस्‍थानस्‍य बटेश्‍वरस्‍य मूलनिवासी पण्डित कृष्‍णबिहारी वाजपेयी, मध्‍यप्रदेशस्‍य ग्‍वालियशासने (रियासत) अध्‍यापनकार्यं कुर्वन्‍नासीत् ।  तत्रैव '…

शुक्‍लयजुर्वेद:

चित्र
शुक्‍लयजुर्वेदेन सम्‍बद्धा संहिता वाजसनेयि संहिता अस्ति ।  अस्‍या: द्वे शाखे स्‍त: - माध्‍यन्दिनीया संहिता, काण्‍व संहिता च ।  वाजसनेय: याज्ञवल्‍क्‍यस्‍य एव पितृ-परम्परागतं नाम अस्ति ।  वाजसनि नाम तस्‍य पितु: आसीत् इति ।  पुराणेषु तस्‍य पितु: नाम क्‍वचित् देवरात: इत्‍यपि प्राप्‍यते ।  सम्‍भवत: अन्‍नदानकारणात् एव तस्‍य उपाधि: 'वाजसनि:'इति अभवत् ।माध्‍यन्दिनीया शाखाया: प्रसार: सरयूतटवर्ती क्षेत्रेषु - काशी, कोसल, लखनउ इत्‍येतेषां परित: अधिकं प्राप्‍यते ।माध्‍यन्दिन संहिता -एषा शाखा उत्‍तरभारते विशिष्‍टरूपेण प्रतिष्‍ठिता अभवत् ।  महर्षिवैशम्‍पायनेन यजुर्वेदस्‍य अध्‍ययनं याज्ञवल्‍क्य: तेन च महर्षि मध्‍यन्दिन: अकरोत् ।  म‍हर्षि मध्‍यन्दिनेन एव अधिकं विस्‍तारं प्राप्‍ते सति अस्‍या: शाखाया: नाम माध्यन्दिनीया इति अभवत् ।  अद्य प्राय: यजुर्वेदस्‍य या शाखा प्राप्‍यते सा माध्‍यन्दिनीया एव ।         अस्‍यां संहितायां 40 अध्‍याया: तथा च 1975 मन्त्राणि सन्ति येषु 15 खिला: सन्ति ।  40तम: अध्‍याय: इशावास्‍योपनिषद् इति कथ्‍यते ।  एषा संहिता द्वे भागे विभक्‍ता अस्ति - पूर्वविंशति:, उत्…

यजुर्वेद: - शाखा: एवं च विस्‍तार:

चित्र
ऐतिहासिक दृष्‍ट्या एषा शाखा वेदव्‍यासेन तस्‍य शिष्‍यं वैशम्‍पायनं प्राप्‍तमासीत् ।  वैशम्‍पायनस्‍यैव अपरं नाम चरकाचार्य: आसीत् ।  अनया एव परम्‍परया तस्‍य शिष्‍या: अपि चरका: एव उक्‍ता: यथाहि श्रीमद्भागवते (12.6.61) उक्‍तमस्ति -'वैशम्‍पायनशिष्‍या वै चरकाध्‍वर्यवोभवन्'।  एतेषाम् अन्तेवासिनां संख्‍या 9 आसीत् ।  तेषां नामानि क्रमश: - आलम्बि, कालिंग (महाभाष्‍ये पलंग इति नाम अस्ति), कमल, ऋचाभ:, आरुणि:, ताण्‍ड्य, श्‍यामायन, कठ एवं च कलापी इति सन्ति ।  एतेषु पातंजलमहाभाष्‍यानुसारं प्रथम-त्रय: प्राच्‍यदेशवर्तिन:, मध्‍यवर्तिन: त्रय: उदीच्‍यभागात् अन्तिम: त्रय: च मध्‍यभागात् सन्ति ।  अनेन एव यजुर्वेदस्‍य सप्‍तविंशति: शाखानां विस्‍तार: जात: ।        सम्‍प्रति यजुर्वेदस्‍य द्वे शाखे स्‍त: - कृष्‍णयजुर्वेद: शुक्‍लयजुर्वेद: च ।  एतेषाम् अपि अनेका: अवान्‍तरशाखा: सन्ति ।  कृष्‍णयजुर्वेद: ब्रह्मसम्‍प्रदायान्‍तर्गतम् अस्ति एवं च शुक्‍लयजुर्वेद: आदित्‍यसम्‍प्रदायान्‍तर्गतम् अस्ति ।  एतेषां शुक्‍लत्‍वस्‍य कृष्‍णत्‍वस्‍य च कारणम् एतत् अस्ति यत् शुक्‍लयजुर्वेदे केवलं मन्‍त्रभाग: अस्ति यद्यप…

भगवत: श्रीहनुमत: अष्‍टोत्‍तरशतनामावली ।

चित्र
भगवतः श्रीहनुमतः एषा नामावली सालासर-हनुमान-मन्दिरे रजतपत्रे अंकिता अस्ति ।  एषा नामावली अस्माभिः कल्याणपत्रिका (गीताप्रेस गोरखपुर) तः स्वीकृता अस्ति ।  तेभ्यः हार्दिकं धन्यवादाः ।  एतस्‍य तलपूर्ति: अपि कर्तुं शक्‍यमस्ति ।  अत्र नुदन्‍तु ।

आनन्दपाण्डेयः (प्रमुखः संस्कृतजगत्) ॐ अंजनीगर्भसम्भूताय नमः
ॐ वायुपुत्राय नमः
ॐ चिरंजीवने नमः
ॐ महाबलाय नमः
ॐ कर्णकुण्डलाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ ग्रामवासिने नमः
ॐ पिंगकेषाय नमः
ॐ रामदूताय नमः
ॐ सुग्रीवकार्यकर्त्रे नमः
ॐ बालिनिग्रहकारकाय नमः
ॐ रुद्रावताराय नमः
ॐ हनुमते नमः
ॐ सुग्रीवप्रियसेवकाय नमः
ॐ सागरक्रमणाय नमः
ॐ सीताशोकनिवारणाय नमः
ॐ छायाग्रहीनिहन्त्रे नमः
ॐ पर्वताधिश्रिताय नमः
ॐ प्रमाथाय नमः
ॐ वनभंगाय नमः
ॐ महाबलपराक्रमाय नमः
ॐ महायुद्धाय नमः
ॐ धीराय नमः
ॐ सर्वासुरमहोद्यताय नमः
ॐ अग्निसूक्तोक्तचारिणे नमः
ॐ भीमगर्वविनाशाय नमः
ॐ शिवलिंगप्रतिष्ठात्रे नमः
ॐ अनघाय नमः
ॐ कार्यसाधकाय नमः
ॐ वज्रांगाय नमः
ॐ भास्करग्रसाय नमः
ॐ ब्रह्मादिसुरवन्दिताय नमः
ॐ कार्यकर्त्रे नमः
ॐ कार्यार्थिने नमः
ॐ दानवान्तकाय नमः
ॐ नाग्रविद्यानां पण्डिताय नमः
ॐ वनमाल्यसुरान्तकाय नमः
ॐ वज्रकायाय नमः
ॐ महावीर…

काश्‍चन् विशेषता: राकमेल्ट जालसंचालकस्‍य

चित्र
राकमेल्‍ट जालसंचालक: (RockMelt Web Browser) अत्‍यधिकं रोमांचकरम् आनन्‍ददायकं चास्ति ।  अद्य प्रथमवारं मया अस्‍य प्रयोग: कृत: एवं च प्रथमे एव अहम् अस्‍य वशीभूत: अभवम् ।  भवतां सम्‍मुखे अस्‍य कस्‍याश्चित् विशेषता: प्रस्‍तुतोमि ।  यथा चित्रे दत्‍तमस्ति -
1- सर्वतो उपरि भवत: फेसबुकसूचनामंजूषावत् (Facebook Notification Box) एव एका मंजूषा (Box) स्‍थाप्‍यते ।  एषा मंजूषा भवत: फेसबुकपृष्‍ठस्‍य सर्वा: सूचना: विनापृष्‍ठोद्घाटने एव प्रददाति ।
2- वामभागे अनुप्रयोगसूची (Application List) भवति ।  अत्र भवान् बहुविधानाम् अनुप्रयोगानां प्रयोगं प्राप्‍नोति ।
3- सर्वतो दक्षिणभागे चैटजनानां सूची प्रदर्श्‍यते । अत्र के सक्रिया: (Online) सन्ति के निष्क्रिया: (Offline) च इत्‍यपि प्रदर्श्‍यते ।
4- सर्वतो उ‍परि दक्षिणभागे आवंटनपिंज: (Share Button) अस्ति । सरलतया आवंटयितुम् ।
5- तस्‍य साक्षात् दक्षिणत: पिंज: (Button) अस्ति सर्वेषां सुविधानां विलोपनाय (Hide) ।
6- कस्मिश्चिदपि पृष्‍ठे सति साक्षात् चैट कर्तुं शक्‍यमस्ति अनेन ।
इतोपि बहुगुणानि सन्ति ।  भवन्‍त: स्‍वयमेव प्रयोज्‍य पश्‍यन्‍तु ।
अध: दत्‍तश्…

एक: नूतन: जालसंचालक: भवतां सेवायाम्

चित्र
बान्‍धवा:
         वर्षेभ्‍य: भवन्‍त: गूगलक्रोम, फायरफाक्‍स, सफारी प्रभृतीनां विविधानां जालसंचालकानां (Web Browsers) प्रयोगं कृत्‍वा थकिता: स्‍यु: ।  सम्‍प्रति भवन्‍त: अपि किमपि नूतनं वांछन्‍त: स्‍यु: ।  चेत् भवतां कृते निश्‍चयेन प्रसन्‍नताया: विषय: ।  जालजगति सम्‍प्रति एकं नूतनं जालचालकम् आगतमस्ति ।  रॉकमेल्‍ट (RockMelt Web Browser) इति ।  अस्‍य सम्‍प्रति मयापि प्रयोग: तु नैव कृत: किन्‍तु अद्य अहम् एतस्‍य स्थापनं (Installation) कुर्वन्‍नस्मि स्‍व अंककयन्‍त्रे (Laptop) ।  अद्य आरभ्‍य अस्‍य एव प्रयोगं करिष्‍यामि कस्‍मैचित् दिनाय ।  यदि अस्‍य प्रयोग: सम्‍यक् लगिष्‍यति चेत् अग्रे सर्वं विहाय अस्‍यैव प्रयोगं कुर्म: ।
            भवन्‍त: अपि निश्‍चयेन एतस्‍य तलपूर्ति: (Download) इच्‍छन्‍त: स्‍यु: ।  चेत् भवतां कृते मया अस्‍य श्रृंखला (Link) अध: दीयते ।  साक्षात् नोदनं (Click) कृत्‍वा तलपूरयन्‍तु ।


यजुर्वेद:

चित्र
वेदा: दीर्घकालपर्यन्‍तं भारतीय जन-जीवनस्‍य अंगानि आसन्; अद्य एवं भाति यत् भारतीया: वेद-विज्ञानात् अत्‍यधिकं दूरे तिष्‍ठन्ति परं च 'यजुर्वेद:' वेदस्‍य एष: एक: प्रभाग: अस्ति य: सम्‍प्रत्‍यपि जन-जीवने स्‍व-स्‍थानं केनचित् अपि रूपेण यथावत् स्‍थापयति ।  जन्‍मत: मृत्‍युपर्यन्‍तं विभिन्‍नसंस्‍कारेषु अस्‍य वेदस्‍य मन्‍त्राणि प्रयुज्‍यन्‍ते एव ।यजुष् शब्‍दस्‍य निरुक्ति: यास्‍केन 'यज' धातुना कृतमस्ति - 'यजुर्यजते:'- (निरुक्‍तम् 7.12)।  तदनुसारं अस्‍या: संहिताया: सम्‍बन्‍ध: यज्ञात् सन्निकटस्‍य अस्ति ।  एनम् अध्‍वर्युवेद: अपि निगद्यते यतोहि अनेन मन्‍त्रेण अध्‍वर्युनामक: ऋत्विज: यज्ञ-शरीरस्‍य संपादनं करोति । 'अध्‍वयुनामक एक ऋत्विक् यज्ञस्‍यस्‍वरूपं विशेषेण निष्‍पादयति ।  'अध्‍वर्यु:' इत्‍यत्र छान्‍दस्‍या प्रक्रियया लुप्‍तमकारं पुन: प्रक्षिप्‍य 'अध्‍वर्यु:' इति नाम संपादनीयम् ।  अध्‍वरं युनक्ति इति अवयवार्थ: ।  अध्‍वरस्‍य नेता इति तात्‍पर्यार्थ:' - (ऋग्‍भाष्‍यभूमिका) ।सायणेन तैत्तिरीय-भाष्‍य-भूमिकायां, यजुर्वेदं भित्तिरूपम् अथ च अन्‍यौ द्वौ वेदौ चित्र…

ऋग्‍वेदस्‍य प्रमुखानि सूक्‍तानि ।

चित्र
ऋग्‍वेदे सूक्‍तानां सम्‍पूर्ण-संख्‍या 1028 अस्ति ।  एतेषु सूक्‍तेषु प्रायश: सर्वाणि सूक्‍तानि एव महत्‍वपूर्णानि सन्ति किन्‍तु विशिष्‍टसूक्‍तानि तेषु अपि सन्ति किंचन् ।  तेषां सूक्‍तानां संक्षिप्‍तपरिचय: दीयते अत्र । अस्‍यवामीयसूक्‍तम् (1.164) - ऋग्‍वेदस्‍य प्रथमस्‍य मण्‍डलस्‍य 164तमं सूक्‍तम् अस्ति अस्‍यवामीयसूक्‍तम् ।  अस्मिन् सूक्‍ते सृष्टिरचनाया: अद्भुतं विज्ञानं दर्शितं वर्णितं चास्ति ।  इदं सूक्‍तम् अस्‍माकं पूर्वजानां मुनीनां दूरदृष्‍टे:, वैज्ञानिकउन्‍नते: च परिचयं प्रददाति ।  अस्मिन् सूक्‍ते विभिन्‍नानि तथ्‍यानि यथा - सूर्येण एव पृथिव्‍या: उत्‍पत्ति:, सूर्ये एव पृथिव्‍या: शक्ति: निहिता, मेघेषु उर्वराशक्ति:, मेघानां सूर्यकिरणानां सम्‍पर्के आगते सति एव नाद:, सूर्येण एव सर्वा: ऋतव:, रात्रि:, दिवस: च भवति इति, सूर्य: एव वर्षाया: प्रधानकारणम् इत्‍यादीनि वैज्ञानिक तथ्‍यानि सन्ति; सहैव आकाश: अस्‍माकं पितातुल्‍य:, पृथिवीमातातुल्‍या च इति राष्ट्रिय-चेतना वर्णनमपि प्राप्‍यते ।  अन्‍यविधासु अपि अस्‍य सूक्‍तस्‍य महत्‍ता जगद्विदितमस्ति । विश्‍वामित्र-नदीसंवादसूक्‍तम् (3.33) - एतत् सूक्‍तमप…

ऋग्‍वेदे वर्णिता: प्रमुखा-देवा: ।

चित्र
वेदस्‍य मुख्‍यत: द्वौ भागौ स्‍त: - कर्मकाण्‍डं ज्ञानकाण्‍डम् च ।  कर्मकाण्‍डं वेदस्‍य अतिविशालभागं वहति ।  तदपेक्षया ज्ञानकाण्‍डम् अत्‍यल्‍पम् अस्ति किन्‍तु तद् वेदस्‍य सिद्धान्‍तानां अन्तिमपरिणति: अस्ति अत: 'वेदान्‍त'नामै: अभिहितमस्ति ।  वेदे निर्दिष्‍टं कर्मानुष्‍ठानं 'याग'इति कथ्‍यते यस्‍य लक्षणम् अस्ति - 'देवतोद्देशेन द्रव्‍ययाग: याग:'अर्थात् देवताभ्‍य: दत्‍तं द्रव्‍य-दानम् ।  देवतानां ज्ञानस्‍य विशिष्‍टं कारणमपि अस्ति, यास्‍केन अस्‍य प्रसंगस्‍य कृते कस्‍यचित् ब्राह्मणस्‍य वचनम् उद्धृतमस्ति -'यस्‍यै देवतायै हविर्गृहीतं स्‍यात् तां मनसा ध्‍यायेत् वषट् करिष्‍यन्' (निरुक्‍तम् 8.22)।  आशय: अस्ति यत् - अनुष्‍ठानान्‍ते 'वौषट्'इति उच्‍चारणस्‍य पूर्वं होता नामकं ऋत्विजाय यस्‍या: देवताया: कृते अध्‍वर्यु: हविषं ग्राहयति तां देवतां मनसि ध्‍यायेत ।  अनेन प्रकारेण देवानां प्राधान्‍यं स्‍वा‍भाविकमस्ति । देवशब्‍द: 'दिव'धातुना निष्‍पन्‍नो भवति यस्‍य मुख्‍यार्थ: भवति प्रकाशनम् ।  अनेन प्रकाशरूपेअर्थेन परमात्‍मन: बोध: भवति यतोहि सूर्य:, चन्‍द्र: आदय: …