ऋग्‍वेदे वर्णिता: प्रमुखा-देवा: ।

Vaidik devataवेदस्‍य मुख्‍यत: द्वौ भागौ स्‍त: - कर्मकाण्‍डं ज्ञानकाण्‍डम् च ।  कर्मकाण्‍डं वेदस्‍य अतिविशालभागं वहति ।  तदपेक्षया ज्ञानकाण्‍डम् अत्‍यल्‍पम् अस्ति किन्‍तु तद् वेदस्‍य सिद्धान्‍तानां अन्तिमपरिणति: अस्ति अत: 'वेदान्‍त' नामै: अभिहितमस्ति ।  वेदे निर्दिष्‍टं कर्मानुष्‍ठानं 'याग' इति कथ्‍यते यस्‍य लक्षणम् अस्ति - 'देवतोद्देशेन द्रव्‍ययाग: याग:' अर्थात् देवताभ्‍य: दत्‍तं द्रव्‍य-दानम् ।  देवतानां ज्ञानस्‍य विशिष्‍टं कारणमपि अस्ति, यास्‍केन अस्‍य प्रसंगस्‍य कृते कस्‍यचित् ब्राह्मणस्‍य वचनम् उद्धृतमस्ति - 'यस्‍यै देवतायै हविर्गृहीतं स्‍यात् तां मनसा ध्‍यायेत् वषट् करिष्‍यन्' (निरुक्‍तम् 8.22) ।  आशय: अस्ति यत् - अनुष्‍ठानान्‍ते 'वौषट्' इति उच्‍चारणस्‍य पूर्वं होता नामकं ऋत्विजाय यस्‍या: देवताया: कृते अध्‍वर्यु: हविषं ग्राहयति तां देवतां मनसि ध्‍यायेत ।  अनेन प्रकारेण देवानां प्राधान्‍यं स्‍वा‍भाविकमस्ति ।

देवशब्‍द: 'दिव' धातुना निष्‍पन्‍नो भवति यस्‍य मुख्‍यार्थ: भवति प्रकाशनम् ।  अनेन प्रकाशरूपेअर्थेन परमात्‍मन: बोध: भवति यतोहि सूर्य:, चन्‍द्र: आदय: स्‍वज्‍योतिना प्रकाशिता: नैव भवन्ति, परमात्‍मा एव तान् प्रकाशयति इति ।

यास्‍क: नैरुक्‍ते मतं निरूपयति यत् देवा: तिस्र: एव भवन्ति ।  द्युलोके सूर्य:, अ‍न्‍तरिक्षे वायु: अथवा इन्‍द्र तथा च पृथिव्‍याम् अग्नि: ।  स्‍थानभेदात् एता: तिस्र: एव देवाता: ।  एवं विधा देवानां तिस्र: कोटिरस्ति - द्युस्‍थानीय:, पृथ्‍वीस्‍थानीय: अन्‍तरिक्षस्‍थानीय: च ।

द्युस्‍थानीयदेवतासु प्रमुखा: सन्ति - द्यौस्, वरुण:, मित्र:, सूर्य:, सविता, पूषन्, विष्‍णु:, विवस्‍वान्, आदित्‍य:, अश्विनौ, उषा च ।

अन्‍तरिक्षस्‍थानीयेषु - इन्‍द्र:, रुद्र:, मरुत्, पर्जन्‍य:, अपांनपात्, त्रित आप्‍त्‍य, मातरिश्‍वन्, वायु-वात:, आप: च । पृथ्‍वीस्‍थानीयेषु - अग्नि:, बृहस्‍पति:, सोम: च ।

सम्‍पूर्णे ऋग्‍वेदे प्राप्‍तानां देवानां सम्‍पूर्णसंख्‍या 33 अस्ति ।  अर्थात् देवानां 33 कोटिरस्ति ऋग्‍वेदे ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।