यजुर्वेद:

yajurvedवेदा: दीर्घकालपर्यन्‍तं भारतीय जन-जीवनस्‍य अंगानि आसन्; अद्य एवं भाति यत् भारतीया: वेद-विज्ञानात् अत्‍यधिकं दूरे तिष्‍ठन्ति परं च 'यजुर्वेद:' वेदस्‍य एष: एक: प्रभाग: अस्ति य: सम्‍प्रत्‍यपि जन-जीवने स्‍व-स्‍थानं केनचित् अपि रूपेण यथावत् स्‍थापयति ।  जन्‍मत: मृत्‍युपर्यन्‍तं विभिन्‍नसंस्‍कारेषु अस्‍य वेदस्‍य मन्‍त्राणि प्रयुज्‍यन्‍ते एव ।

यजुष् शब्‍दस्‍य निरुक्ति: यास्‍केन 'यज' धातुना कृतमस्ति - 'यजुर्यजते:'- (निरुक्‍तम् 7.12) ।  तदनुसारं अस्‍या: संहिताया: सम्‍बन्‍ध: यज्ञात् सन्निकटस्‍य अस्ति ।  एनम् अध्‍वर्युवेद: अपि निगद्यते यतोहि अनेन मन्‍त्रेण अध्‍वर्युनामक: ऋत्विज: यज्ञ-शरीरस्‍य संपादनं करोति ।

'अध्‍वयुनामक एक ऋत्विक् यज्ञस्‍यस्‍वरूपं विशेषेण निष्‍पादयति ।  'अध्‍वर्यु:' इत्‍यत्र छान्‍दस्‍या प्रक्रियया लुप्‍तमकारं पुन: प्रक्षिप्‍य 'अध्‍वर्यु:' इति नाम संपादनीयम् ।  अध्‍वरं युनक्ति इति अवयवार्थ: ।  अध्‍वरस्‍य नेता इति तात्‍पर्यार्थ:' - (ऋग्‍भाष्‍यभूमिका)

सायणेन तैत्तिरीय-भाष्‍य-भूमिकायां, यजुर्वेदं भित्तिरूपम् अथ च अन्‍यौ द्वौ वेदौ चित्रस्‍थानीयौ इति उक्‍तमस्ति - 'भित्तिस्‍थानीयो यजुर्वेदश्चित्रस्‍थानीयावितरौ ।  तस्‍मात्‍कर्मसु यजुर्वेदस्‍यैव प्राधान्‍यम्'

'यजुष्' इत्‍यस्‍य एक: इतोपि अर्थ: अस्ति - तदनुसारं 'यजुष्' गद्यात्‍मकमन्‍त्राणि सन्ति । 'अनियताक्षरावसानो यजु:' ।  एतेषां गद्यात्‍मकमन्‍त्राणाम् अस्मिन् वेदे बाहुल्‍यमस्ति, यद्यपि स्‍थाने-स्‍थाने ऋचा: अपि सन्ति ।

टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी