कृष्‍णयजुर्वेद:

krishna yajurved

 

'चरणव्‍यूहस्‍य' अनुसारं कृष्‍णयजुर्वेदस्‍य सर्वा: 85 शाखा: भवेयु:, किन्‍तु सम्‍प्रति चतस्र: शाखा: एवोपलब्‍धा: सन्ति - तैत्तिरीय, मैत्रायणी, काठक, कपिष्‍ठलं च

तैत्तिरीयसंहिता - वैशम्‍पायनस्‍य शिष्‍यै: तित्‍तररूपेण गृहीतानि यजुर्वेदमन्‍त्राणि कृष्‍णयजुर्वेदसंहिता इति उक्‍तानि - यदि अस्‍या: आख्‍यायिकाया: उपरि विश्‍वासं विधेम चेत् कृष्‍णयजुर्वेदस्‍य एषा एव मुख्‍या प्रतिनिधि: शाखा भवेत् एवं च अनया संहितया सम्‍बद्धा: सर्वे ब्राह्मण, आरण्‍यक, उपनिषद्, श्रौतसूत्र, गृह्यसूत्रादिग्रन्‍था: उपलभ्‍यते अपि अतएव अस्‍य पुष्टिरपि भवति ।  सायणचार्यस्‍य शाखा अपि एषा एव आसीत् अत: तेन सविस्‍तारम् अस्‍योपरि भाष्‍यप्रणयनं कृतम् ।

        तैत्तिरीयसंहितायां 7 काण्‍डानि, 44 प्रपाठका: तथा च 631 अनुवाका: सन्ति ।  विषयवस्‍तु: शुक्‍लयजुर्वेदात् पर्याप्‍तं समानतां वहन् सन् अपि काश्‍चन् भिन्‍नता: सन्ति ।

मैत्रायणीसंहिता - 'चरणव्‍यूहे' मैत्रायणीयानां गणना 12कठेषु कृता अस्ति ।  अग्रे एते सप्‍त उक्‍ता: सन्ति - मानव, वाराह, दुन्‍दुभ, ऐकेय, हरिद्रवीय, श्‍याम एवं च श्‍यामायनीय ।  अनेन ज्ञायते यत् मैत्रायणीयशाखाया: गणना अपि यजुर्वेदस्‍य प्रारम्भिकशाखासु एव भवति ।  पं. भगवद्दत्‍त: सातवलेकर: च मैत्रायणं अथवा मैत्रेयं अस्‍या: शाखाया: प्रवर्तक: इति निगदित: अस्ति ।

       मैत्रायणीसंहितायां 4 काण्‍डानि एव च 54 प्रपाठका: सन्ति; एतेषु 44 प्रपाठकेषु केवलं मन्‍त्राणि सन्ति शेषे दशे प्रपाठकेषु प्रकरणस्‍य एकरूपताया: एवं च मन्‍त्र-ब्राह्मणानां विभागस्‍य पूर्णतया अवधानं दत्‍तमस्ति ।  मैत्रायणीसंहितायां सर्वाणि 2144 मन्‍त्राणि सन्ति येषु 1701 ऋचा: ऋग्‍वेदात् उद्धृता: सन्ति ।

काठकस‍ंहिता - पतंजलिव्याकरणानुसारं कदाचित् अस्‍या: शाखाया: विस्‍तार: ग्रामे-ग्रामे आसीत् - 'ग्रामे-ग्रामे कठं कालापकं च प्रोच्‍यते' ।  चरणव्‍यूहे 12 कठा: सन्ति - चरक, आह्वरक, भ्रातिष्‍ठलकठ, प्राच्‍यकठ, कपिष्‍ठलकठ, वारायणीय, चारायणीय, श्‍वेत, श्‍वेताश्‍वतर, औपमन्‍यव, पाताण्डिनेय एवं च मैत्रायणीय ।  अन्‍यत्र देश: द्वीप: च भेदयो: कठानां 13 अवान्‍तरशाखा: सन्ति - पिंजुलकठ (क्रौंचद्वीप), औदलकठ (शाकद्वीप), सपिच्‍छलकठ (शाकद्वीप), मुद्गलकठ (कश्‍मीर), श्रृंगलकठ (श्रृंज), सौभरकठ (सिंहल), मौरसकठ (कुशद्वीप), चुचुकठ (यवनदेश), योगकठ (यवनदेश), दौसलकठ (सिंहल), घोषकठ (क्रौंचद्वीप) एवं च जृम्भकठ (श्‍वेतद्वीप)

ब्रह्मपुराणे प्राप्‍तविवरणे कठानां मूलपुरुष: महर्षि कठ, भरद्वाजस्‍य शिष्‍य: बहनोई अपि चासीत् ।  भरद्वाजस्‍य रेवती इति भगन्या सह कठस्‍य विवाह: अभवत् ।  ऋषि: कठ: श्रृतर्षि: अपि उच्‍यते ।

कठसंहितायां 5 खण्‍डा: सन्ति - इठिमिका, मध्‍यमिका, ओरिमिका, याज्‍यानुवाक्‍या एवं च अश्‍वमेधाद्यनुवचनम् ।  प्रत्‍येकस्‍य खण्‍डस्‍य अवान्‍तविभाजनं स्‍थानकेषु अस्ति ।  प्रथमचत्‍वारिखण्‍डेषु 40 स्‍थानका: सन्ति ।  पंचमखण्‍ड: अनुवाकेषु विभक्‍त: अस्ति यस्मिन् 13 अनुवचनानि सन्ति ।  सम्‍पूर्णे संहितायां 843 अनुवाका: 3091 मन्‍त्राणि च सन्ति ।  मन्‍त्र-ब्राह्मणयो: सम्मिलितसंख्‍या 18 सहस्रम् अस्ति ।

कपिष्‍ठलसंहिता - चरणव्‍यूहस्‍य कठानाम् अन्‍तर्गतं 'कपिष्‍ठलकठ:' इत्‍यस्‍या: शाखाया: उल्‍लेख: अस्ति ।  अस्‍या: शाखाया: विभाजनं ऋग्‍वेदसदृशमेव अष्‍टकेषु अध्‍यायेषु च कृतमस्ति ।  अस्‍यां 6 अष्‍टका:, 48 अध्‍यायानां च उल्‍लेख: प्राप्‍यते किन्‍तु सम्‍प्रति उपलब्‍धप्रथमअष्‍टकस्‍य अष्‍टअध्‍यायानाम् अतिरिक्‍तं अन्‍येषु न्‍यूनाधिक्‍येन लोप: प्राप्‍यते ।  अस्‍या: संहिताया: वर्ण्‍यविषय: अपि काठक-संहितावदेव अस्ति ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी