यजुर्वेद: - शाखा: एवं च विस्‍तार:

Yajurved-Shakha Vistar          ऐतिहासिक दृष्‍ट्या एषा शाखा वेदव्‍यासेन तस्‍य शिष्‍यं वैशम्‍पायनं प्राप्‍तमासीत् ।  वैशम्‍पायनस्‍यैव अपरं नाम चरकाचार्य: आसीत् ।  अनया एव परम्‍परया तस्‍य शिष्‍या: अपि चरका: एव उक्‍ता: यथाहि श्रीमद्भागवते (12.6.61) उक्‍तमस्ति - 'वैशम्‍पायनशिष्‍या वै चरकाध्‍वर्यवोभवन्' ।  एतेषाम् अन्तेवासिनां संख्‍या 9 आसीत् ।  तेषां नामानि क्रमश: - आलम्बि, कालिंग (महाभाष्‍ये पलंग इति नाम अस्ति), कमल, ऋचाभ:, आरुणि:, ताण्‍ड्य, श्‍यामायन, कठ एवं च कलापी इति सन्ति ।  एतेषु पातंजलमहाभाष्‍यानुसारं प्रथम-त्रय: प्राच्‍यदेशवर्तिन:, मध्‍यवर्तिन: त्रय: उदीच्‍यभागात् अन्तिम: त्रय: च मध्‍यभागात् सन्ति ।  अनेन एव यजुर्वेदस्‍य सप्‍तविंशति: शाखानां विस्‍तार: जात: ।

        सम्‍प्रति यजुर्वेदस्‍य द्वे शाखे स्‍त: - कृष्‍णयजुर्वेद: शुक्‍लयजुर्वेद: च ।  एतेषाम् अपि अनेका: अवान्‍तरशाखा: सन्ति ।  कृष्‍णयजुर्वेद: ब्रह्मसम्‍प्रदायान्‍तर्गतम् अस्ति एवं च शुक्‍लयजुर्वेद: आदित्‍यसम्‍प्रदायान्‍तर्गतम् अस्ति ।  एतेषां शुक्‍लत्‍वस्‍य कृष्‍णत्‍वस्‍य च कारणम् एतत् अस्ति यत् शुक्‍लयजुर्वेदे केवलं मन्‍त्रभाग: अस्ति यद्यपि कृष्‍णयजुर्वेदे मन्‍त्रै: सह अपि ब्राह्मणभाग: अपि अस्ति । 

        एतेषाम् अनुसारम् एका कथा अस्ति अस्मिन् विषये - तदनुसारं कदाचित् एकवारं वैशम्‍पायन: स्‍वशिष्‍येन याज्ञवल्‍क्‍येन रुष्‍ट: जात: ।  स: आत्‍मना दत्‍तसमस्‍तविद्या प्रतिप्राप्‍तुम् आदिष्‍टवान् ।  याज्ञवल्‍क्‍य: वमनक्रियया सर्वा: विद्या: निष्‍काषितवान् ।  वैशम्‍पायनस्‍य सर्वे शिष्‍या: तित्तिररूपं स्‍वीकृत्‍य तां वेदविद्यां स्‍वीकृतवन्‍त: ।  तदारभ्‍य एव एषा शाखा कृष्‍णयजुर्वेद: इति अभवत् ।  याज्ञवल्‍क्‍य: भगवत: सूर्यस्‍य आराधनं कृत्वा शुक्‍लयजुर्वेदं प्राप्‍तवान् इति ।

शुक्‍लयजुर्वेदस्‍य द्वे शाखे स्‍त: - माध्‍यन्दिन संहिता, काण्‍व संहिता च ।

कृष्‍णयजुर्वेदस्‍य चतस्र: शाखा: सन्ति - तैत्तिरीय संहिता, मैत्रायणी संहिता, काठक संहिता, कपिष्‍ठल संहिता च ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी