सामवेद संहिता

saamved sanhita'साम' शब्‍दस्‍य शाब्दिकार्थ: अस्ति- 'देवानां प्रशस्तिगानम्' इति ।  वृहदारण्‍यकोपनिषदे उक्‍तमस्ति यत् - 'सा च अमश्‍चेति तत्‍साम्न: सामत्‍वम् ।  सा ऋक् ।  तया सह सम्‍बन्‍ध: अमो नाम स्‍वरो यत्र वर्तते तत्‍साम ।' अर्थात् 'सा' तथा च 'अम' इत्‍ययो: मेलने 'साम' शब्‍दस्‍योत्‍पत्ति: जात: ।  अत्र 'सा' इत्‍यस्‍यार्थ: ऋचा एवं च अम इत्‍यस्‍यार्थ: षडज्, ऋषज्, गान्‍धारादय: सप्‍तस्‍वरा: ।  अत: ऋग्‍वेदस्‍य ऋचा: यदा स्‍वरै: योज्‍यते तदा सामस्‍योत्‍पत्ति: भवति ।  अनेन प्रकारेण या: ऋचा: सामै: आधाररूपेण मन्‍यन्‍ते ता: ऋचा: 'सामयोनि:' इति कथ्‍यन्‍ते ।  अर्थात् एता: एव ऋचा: सामस्‍योत्‍पत्तिकारणम् ।

'सामस्‍य' महत्‍वं दर्शयन् 'शतपथब्राह्मणे' उक्‍तमस्ति - ''नासामा यज्ञो भवति'' ।  अर्थात् सामै: विना यज्ञ: न भवति ।  'बृहद्देवतायां' निगदितमस्ति यत् - य: मनुष्‍य: सामं जानाति सैव वेदस्‍य रहस्‍यं जानाति इति - ''सामानि यो वेत्ति स वेद तत्‍वम्'' ।  श्रीमद्भगवद्गीतायां भगवता श्रीकृष्‍णेन उक्‍तमस्ति - 'वेदानां सामवेदोस्मि'' (10/22)

सामवेदस्‍य परम्परा श्रीकृष्‍णद्वैपायन वेदव्यासस्‍य शिष्‍येन जैमिनिना प्रारभ्‍यते ।  जैमिनि: स्‍वपुत्रं सुमन्‍तुं सामवेदस्‍य अध्‍ययनं कारितम्, सुमन्‍तुना सुन्‍वानं तेन सुकर्मा सामवेदं क्रमश: प्राप्‍तवन्‍तौ ।  सामतर्पणसमये सामगायकानां येषां त्रयोदशाचार्यानां तर्पणं कृयते ते सन्ति - 1. राणायन, 2. सात्‍यमुगिव्‍यास, 3. भागुरि-औलुण्डि, 4. गौल्‍मुलवि, 5. भानुमान, 6. औपमन्‍यव, 7. दाराल, 7. गार्ग्‍य, 9. सावर्णि, 10. वार्षगणि, 11. कुथुमि, 12. शालिहोत्र, 13. जैमिनि

सम्‍‍प्रति राणायन, कुथुमि एवं च जैमिनि एतेषां त्रयाणां आचार्याणां शाखा: राणायनीय, कौथुमीय, जैमिनीय: च प्राप्‍यन्‍ते ।  सामान्‍यत: सम्पूर्णे भारतवर्षे एव कौथुमीया शाखा प्रचलिता अस्ति ।  उच्‍चारणभेदेन अस्‍या: शाखाया: द्वे पद्वत्यौ स्‍त: - नागरपद्धति:, मद्रपद्धति: च

सामवेदस्‍य सहस्रशाखा: आसन् इति उच्‍यते - सहस्रवर्त्मा सामवेद: । वर्तमानसमये अस्‍य तिस्र: शाखा: कौ‍थुमीया, राणायनीया, जैमिनीया च सन्ति ।  कौथुमशाखानुसारं सामवेद संहिताया: द्वौ प्रमुखौ विभागौ स्‍त: - पूर्वार्चिकं, उत्‍तरार्चिकं च ।  अत्र आर्चिकस्‍य अभिप्राय: ऋचानां संग्रहणेन अस्ति ।  पूर्वार्चिके सर्वं 6 प्रपाठका: सन्ति एवं च उत्‍तरार्चिके 9 ।  एतेषां प्रपाठकानां विभाजनं अर्धेषु दशतिशु (अध्‍यायेषु खण्‍डेषु च) चास्ति प्रत्‍येके खण्‍डे एका देवता अथवा एकछन्‍दसम्‍बद्धा ऋचा: सन्ति ।  उत्‍तरार्चिके सम्‍पूर्ण मन्‍त्रसंख्‍या 1225 अस्ति पूर्वार्चिके च 650 ऋचा: सन्ति ।  एवं विधा कौथुमशाखायां 1875 ऋचा: सन्ति ।  एतेषु 1507 ऋचा: ऋग्‍वेदे अपि प्राप्‍यते ।  केवलं 75 मन्‍त्राणि सन्ति यानि स्वतन्‍त्ररूपेण सामवेदे एव प्राप्‍यन्‍ते ।

 सामगानम् - सामगानस्‍य चत्‍वार: विधा: सन्ति ।  1. ग्राम अथवा वेयगानम् (प्रकृतिगानम्), 2. अरण्‍यगानम्, 3. उहगानम्, 4. उह्यगानम् (रहस्‍यगानम्) ।

सामवेदस्‍थ विभिन्‍नप्रकारकाणि साममन्‍त्राणि यज्ञसम्‍पादन-काले गीयते ।  साधारणतया एतेषां पंच विभागा: सन्ति । -

1. प्रस्‍ताव: - एतत् मन्‍त्रस्‍य प्रारम्भिकभागम् अस्ति यत् 'हुँ'कारेण प्रारभ्‍यते ।  एतत् प्रस्‍तोतानामकं ऋत्विजेन गीयते ।

2. उद्गीथ: - एतत् सामस्‍य प्रधान ऋत्विजेन उद्गाताद्वारा गीयते ।  अस्‍य प्रारम्‍भे 'उँ'कार: योज्‍यते ।

3. प्रतीहार: - अस्‍यार्थ: अस्ति - द्वयं योज्‍यते य: ।  एतत् प्रतिहर्ता नामकेन ऋत्विजेन गीयते ।

4. उपद्रव: - एतदपि उद्गाताद्वारा एव गीयते ।

5. निधनम् - अस्‍य मन्‍त्रस्‍य द्वौ पादांशौ अथवा 'उँ'कारौ भवत: ।  अस्‍य गायनं त्रयेण अपि ऋत्विजेन क्रियते (प्रस्‍तोता, उद्गाता एवं च प्रतिहर्ता) ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।