अथर्ववेद संहिता

ATHARV VED SANHITA-SANSKRITJAGAT     वैदिकमन्‍त्रसंहितायाम् अथर्ववेदस्‍य कश्चित् विशिष्‍टम् एव महत्‍वमस्ति ।  एतस्‍या: संहिताया: महत्‍ववर्धनस्‍य कानिचन कारणानि अध: दत्‍तानि सन्ति -

1. ऋग्‍वेदादय: केवलम् आमुष्मिकफलप्रदातार: सन्ति किन्‍तु अथर्ववेद: ऐहिकमामुष्मिकम् च फलं प्रददाति ।  अतएव सायणाचार्यस्‍य कथनमस्ति - 'व्‍याख्‍या वेदत्रित यमामुष्मिकफलप्रदम् ।  ऐहिकामुष्मिक फलं चतुर्थं व्‍याचिकीर्षति' (अथर्ववेदभाष्‍यभूमिका)

2. ब्रह्मा यज्ञस्‍य सर्वप्रमुख: ऋत्विज: अस्ति, तस्‍य वेद: अथर्ववेद: अस्ति ।  गोपथब्राह्मणानुसारं त्रिभि: वेदै: अपि यज्ञस्‍य मात्रम् एकस्‍य पक्षस्‍यैव पूर्ति: भवति; ब्रह्मा मनसा तत् पूर्णतां प्रददाति - 'स वा एष त्रिभिर्वेदैर्यज्ञस्‍यान्‍यतर: पक्ष: संस्क्रियते ।  मनसैव ब्रह्मा यज्ञस्‍यान्‍तरं पक्षं संस्‍करोति - गोपथ ब्राह्मणम् 1.3.2

3. विभिन्‍ना लोकरीतय:, अभिचारकर्माणि, चमत्कारा:, जादू-टोना, कृत्या-मूठप्रहरणादिकानि एवं च अन्‍येषां तात्‍कालिकविश्‍वासानां विशालसंग्रह: अस्ति अथर्ववेद: ।  अतएव मैक्‍डानलस्‍य कथनमस्ति - सभ्‍यताया: इतिवृत्‍ते: अध्‍ययनाय ऋग्‍वेदस्‍यापेक्षया अथर्ववेदे उपलभ्‍यमाना सामग्रि: अधिकं रोचकं महत्‍वपूर्णं चास्ति

4. ऋग्‍वेदस्‍य दार्शनिकविचाराणां प्रौढरूपम् अस्मिन् एव वेदे प्राप्‍यते ।

5. आयुर्विज्ञानं, जीवाणुविज्ञानम्, औषधीनां विषये अथर्ववेदे पुष्‍कला सामग्री प्राप्‍यते ।

6. 'माता भूमि: पुत्रोहं पृथिव्‍या:' प्रभृतिमन्‍त्राणां द्वारा वैदिकी-राष्ट्रियभावनाया: सुदृढप्रतिपादनं सर्वप्रथमम् अत्रैव अभवत् ।

7. शान्ति: पौष्टिककर्माणां च सम्‍पादनमपि अस्मिन् एव वेदे भवति ।

एतानि एव कारणानि सन्ति यदर्थं स्‍थाने-स्‍थाने अस्‍य वेदस्‍य भूयसी प्रशंसा भवति ।

अथर्ववेदस्‍य विभिन्नानि नामानि - अथर्ववेदस्‍य प्रायश: 8 नामानि प्राप्‍यन्‍ते ।  1. अथर्ववेद: (अथर्वाऋषिद्वारादृष्‍टमन्‍त्राणां संख्‍या अस्ति अत:), 2. आंगिरसवेद: (अंगिराऋषि: एवं तस्‍य वंशजै: दृष्‍टमन्‍त्रकारणात्), 3. ब्रह्मवेद: (ब्रह्मा अस्‍य ऋत्विज: अस्ति), 4. भृग्‍वांगरोवेद: (भृग्‍वंगिराऋषि: 670 मन्‍त्राणि दृष्‍टवानस्ति अत:) 5. भैषज्‍यवेद: (आयुर्वेद:, चिकित्‍सा, औषधय: आदीनां विपुलवर्णनकारणात्), महीवेद: (पृथ्‍वीसूक्‍तम् अथर्ववेदस्‍य महत्‍सूक्तमस्ति अ‍त:), छत्रवेद:, छन्‍दोवेद: आ‍दीनि नामानि सन्ति अथर्ववेदस्‍य ।

अथर्ववेदस्‍य अध्‍ययन परम्‍परा - श्रीमद्भागवतानुसारं वेदव्‍यासेन सर्वप्रथमं तस्‍य शिष्‍य: सुमन्‍तु:, तेन कबन्‍ध:, तेन पथ्‍य: देवदर्शौ च द्वौ अपि अस्‍य वेदस्‍य अध्‍ययनं प्राप्‍तवन्‍तौ, पथ्‍येन तस्‍य त्रय: शिष्‍या: जाजलि, कुमुद:, शौनक: तथा च देवदर्शस्‍य चत्‍वार: शिष्‍या: मोद:, ब्रह्मबलि:, पिप्‍पलाद:, शौक्‍लायनि: च अथर्ववेदस्‍य ज्ञानं प्राप्‍तवन्‍त: ।  एते एव अग्रे अस्‍या: शाखाया: प्रसारं कृतवन्‍त: ।

अथर्ववेदस्‍य प्रमुखशाखा: - पतंजलिना महाभाष्‍ये - 'नवधा अथर्वणो वेद:' इत्‍युक्‍त्‍वा अथर्ववेदस्‍य नवशाखा: उल्लिखिता: ।  प्रपंचहृदये, चरणव्‍यूहे एवं च ऋग्‍वेदभाष्‍यभूमिकायां (सायणाचार्येन) अपि अस्‍य समर्थनं प्राप्‍तमस्ति किन्‍तु नामभिन्‍नता अस्ति ।  एता: नवशाखा: सन्ति - पैप्‍पलाद, तौद, मौद, शौनकीय, जाजल, जलद, ब्रह्मवद, देवदर्श, चारण वैद्य

सम्‍प्रति केवलं शौनकपैप्‍लादौ द्वे शाखे एव प्राप्‍येते ।

1. शौनकीया शाखा - अस्मिन् समये एषा एव शाखा अथर्ववेदस्‍य प्रतिनिधिरस्ति ।  अस्मिन् 20 काण्‍डानि, 730 सूक्‍तानि, एवं च 5987 मन्‍त्राणि सन्ति ।  एतेषु षष्‍ठ, उनविंशतितम:, विंशतितमा: च अध्‍याया: सर्वतोवृहदा: सन्ति येषु क्रमश: 454, 453, 954 च मन्‍त्राणि सन्ति ।  अस्मिन् गद्यांश: अपि प्राचुर्येण प्राप्‍यते ।  सायणस्‍य अपूर्णभाष्‍यम् अस्‍योपरि एव प्राप्‍यते ।

2. पैप्‍पलाद शाखा - अस्‍य प्रारम्भिक अंश: अप्राप्‍त: अस्ति ।  महाभाष्‍येन ज्ञायते यत् अस्‍य प्रथमं मन्‍त्रम् आसीत् - शन्‍नो देवीरभिष्‍टये..........' सम्‍प्रति शौनिकीयशाखायाम् एतत् मन्‍त्रं षष्‍ठसूक्‍तस्‍य आदौ अस्ति ।  श्री दुर्गामोहन भट्टाचार्य: तस्‍य आत्‍मज: दीपक भट्टाचार्य: च अस्‍या: शाखाया: उद्धारकार्ये विशेषरूपेण प्रयत्‍नशीलौ स्‍त: ।

अथर्ववेदस्‍य अनेकानि स्‍थलानि अत्‍यन्‍तं दुष्‍कराणि सन्ति ।  बहूनां शब्‍द-समूहानाम् अर्थ: एव न ज्ञायते ।  विंशतितमे काण्‍डे 127तमसूक्‍तारभ्‍य 136तमसूक्‍तपर्यन्‍तं कुन्तापनामके विभागे विचित्रसूक्‍तानि मन्‍त्राणि च सन्ति ।  एतेषु कौरम्, रुशम्, राजि, रौहिण, ऐतश, प्रातिसूत्‍वन्, मण्‍डूरिका आ‍दय: शब्‍दा: सन्ति यदर्थे सम्‍यकतया अद्यापि न ज्ञायते ।

अथर्ववेदस्‍य प्रमुखसूक्‍तानि - मेधाजनन सूक्‍तम् (1.1), विजयप्रार्थना सूक्‍तम् (1.9), राष्‍ट्राभिवर्धनसूक्‍तम् (1.29), राजासंवरणसूक्‍तम् (3.4), सामनस्‍य सूक्‍तम् (3.30), राष्‍ट्रदेवीसूक्‍तम् (4.30), ध्रुवोराजासूक्‍तम् (6.88), राजासूक्‍तम् (6.128), राष्‍ट्रसभासूक्‍तम् (7.11), भूमिसूक्‍तम् (पृथ्‍वीसूक्‍तम्/मातृभूमिसूक्‍तम्) (12.1) आदीनि सूक्‍तानि प्रमुखानि सन्ति ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

अव्यय पदानि ।।

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी