अलंकारस्‍य भेदा:

प्रायेण सर्वै: आचार्यै: शब्‍दार्थौ काव्‍यस्‍य शरीरमिति स्‍वीकृतमस्ति ।  अलंकारा: तस्‍य शब्‍दार्थरूपी-काव्‍यशरीरस्‍य शोभाधायकानि धर्माणि सन्ति ।  एतदर्थमेव काव्‍ये शब्‍दार्थयो: उत्‍कर्षाधायकं तत्‍वम् एव अलंकारस्‍य संज्ञा प्रदत्‍ता अस्ति ।  तात्‍पर्यमेतदस्ति यत् अलंकारस्‍य आधारौ शब्‍दार्थौ एव स्‍त: ।  एतदानुसारमेव अलंकारस्‍य द्विधा वर्गीकरणं कृतमस्ति ।

''ते च‍ द्विविधा: शब्‍दगता: अर्थगताश्‍च ।''

अलंकारस्‍य द्विधा वर्गीकरणं सर्वप्रथमम् आचार्येण रुद्रटेन कृतम् -

''वक्रोक्तिरनुप्रासो यमकं श्‍लेषस्‍तथापरं चित्रम् ।

शब्‍दस्‍यालंकारा: श्‍लेषोर्थस्‍यापि सोन्‍योस्‍तु ।। (काव्‍यालंकार: - 2.13)

अर्थस्‍यालंकारा: वास्‍तवमौपम्‍यतिशय: श्‍लेष: ।

एषामेव विशेषा अन्‍ये तु भवन्ति नि:शेषा: ।। (काव्‍यांलंकार: - 7.9)

यद्यपि अन्‍यै: आचार्यै: अपि अनेन प्रकारेण विभाजनस्‍य प्रयास: कृत: अस्ति, किन्‍तु आचार्यविश्‍वनाथेन कृतं विभाजनम् अत्‍यधिकं समीचीनं प्रतीयते । -

1. शब्‍दालंकार:, 2. अर्थालंकार:, 3. उभयालंकार: ।

1. शब्‍दालंकार: - य: अलंकार: शब्‍दानां सौन्‍दर्येण काव्‍यस्‍य शोभावर्धनं करोति स: शब्‍दालंकार: कथ्‍यते ।  अस्‍य लक्षणम् अस्ति - 'शब्‍दपरिवृत्‍यसहत्‍वम्' अर्थात् यत्र शब्‍दस्‍य परिवर्तनं कृत्‍वा तस्‍य पर्यायशब्‍दं स्‍थापयन्ति एवं च अलंकार: न दृष्‍यते चेत् अवगच्‍छेम यत् अलंकारस्‍य स्थिति: तस्‍य शब्‍दविशेषस्‍य कारणात् आसीत् ।  एतदर्थमेव स: शब्‍दालंकार: इति कथ्‍यते ।

2. अर्थालंकार: - ये अलंकारा: अर्थानां सौन्‍दर्येण काव्‍यस्‍य शोभावर्धनं कुर्वन्ति, ते अर्थालंकारा: ।  अस्‍य लक्षणम् अस्ति - 'शब्‍दपरिवृत्तिसहत्‍वम्' अर्थात् यत्र शब्‍दपरिवर्तनानन्‍तरम् अपि अलंकारस्‍य सत्‍ता न समाप्‍यते तत्र अर्थालंकार: भवति । 

3. उभयालंकार: - एष: अलंकार: शब्‍दार्थयो: द्वयो: अपि उपरि आ‍धारितं भवति ।  अस्‍य लक्षणं 'शब्‍दपरिवृत्यसहत्‍वम्' एवं च 'शब्‍दपरिवृत्तिसहत्‍वम्' उभयमपि भवति ।  तात्‍पर्यमस्ति यत् अस्मिन् शब्‍दालंकारस्‍य अर्थालंकारस्‍य च उभयो: अपि गुणं सम्मिलितं भवति ।  अलंकारस्‍य अस्‍य प्रकारस्‍य स्‍थापना महाराजभोज: सम्‍पादितवान् , यत् मुख्‍यरूपेण तस्‍य समयपर्यन्‍तमेव संकुचितम् अभवत् ।  अस्‍यातिरिक्‍तम् आचार्यविश्‍वनाथेन 'पुनरुक्‍तवदाभासम्' इति नामकं केवलम् एकस्‍य अलंकारस्‍य एव उभयालंकारनिरूपणं कृतमस्ति साहित्‍यदर्पणस्‍य दशमपरिच्‍छेदे ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी