अर्थालंकार: - उपमा अलंकार:

 

एकस्मिन् वाक्‍ये एव उपमानउपमेययो: वैधर्म्यरहितं सादृश्‍यम् उपमाअलंकार: कथ्‍यते ।

साम्‍यं वाच्‍यमवैधर्म्‍यं वाक्‍यैक्‍य उपमा द्वयो:

उपमाया: चत्‍वारि अंगानि भवन्ति -

1. उपमेयम् - (उपमातुं योग्‍यम् उपमेयम्) - य: उपमाया: योग्‍यं भवेत् अथवा यस्‍य तुलना क्रियते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये मुखम् उपमेयमस्ति ।

2. उपमानम् - (उपमीयते अनेनेति उपमानम्) यस्‍य उपमा दीयते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये चन्‍द्र: उपमानम् अस्ति ।

3. साधारणधर्म: - (उपमाने उपमेये च संगतोधर्म: साधारणो धर्म:) - उपमानोपमेययो: य: धर्म: समानतां वहति स: साधारणधर्म: ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'रम्‍यम्' साधारणधर्म: अस्ति ।

4. उपमावाचक शब्‍द: - (वाचक सादृश्‍यार्थक इवादिशब्‍द:) - येन औपम्‍यं प्रकट्यते ।  यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'इव' शब्‍द: उपमां प्रकटयति ।

उपर्युक्तानुसारम् उपमाया: द्वौ भेदौ स्‍त: -

1. पूर्णोपमा - यस्‍याम् उपर्युक्‍तानि चत्‍वारि समग्रलक्षणानि भवन्ति सा पूर्णोपमा भवति ।

2. लुप्‍तोपमा - य‍स्‍याम् उपर्युक्‍तेषु एकमपि लुप्‍तं भवति सा लुप्‍तोपमा इति कथ्‍यते ।

उदाहरणम् -

मधुर: सुधावदधर: पल्‍लवतुल्‍योतिपेलव: पाणि: ।

चकितमृगलोचनाभ्‍यां सदृशी चपले च लोचने तस्‍या: ।।

अत्र 'अधर, पाणि एवं च लोचनं' एतानि त्रीणि उपमेयानि, 'सुधा, पल्‍लवं,  चकितमृगलोचनम्' एतानि त्रीणि उपमानानि, 'मधुर:, अतिपेलव:, चपल:' च एते त्रय: साधारणधर्म: एवं च 'वत्, तुल्‍य, सदृश' आदय: उपमावाचकशब्‍दा: सन्ति ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

अव्यय पदानि ।।

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी