शुक्‍लयजुर्वेद:

shukl yajurvedah         शुक्‍लयजुर्वेदेन सम्‍बद्धा संहिता वाजसनेयि संहिता अस्ति ।  अस्‍या: द्वे शाखे स्‍त: - माध्‍यन्दिनीया संहिता, काण्‍व संहिता च ।  वाजसनेय: याज्ञवल्‍क्‍यस्‍य एव पितृ-परम्परागतं नाम अस्ति ।  वाजसनि नाम तस्‍य पितु: आसीत् इति ।  पुराणेषु तस्‍य पितु: नाम क्‍वचित् देवरात: इत्‍यपि प्राप्‍यते ।  सम्‍भवत: अन्‍नदानकारणात् एव तस्‍य उपाधि: 'वाजसनि:' इति अभवत् ।

माध्‍यन्दिनीया शाखाया: प्रसार: सरयूतटवर्ती क्षेत्रेषु - काशी, कोसल, लखनउ इत्‍येतेषां परित: अधिकं प्राप्‍यते ।

माध्‍यन्दिन संहिता - एषा शाखा उत्‍तरभारते विशिष्‍टरूपेण प्रतिष्‍ठिता अभवत् ।  महर्षिवैशम्‍पायनेन यजुर्वेदस्‍य अध्‍ययनं याज्ञवल्‍क्य: तेन च महर्षि मध्‍यन्दिन: अकरोत् ।  म‍हर्षि मध्‍यन्दिनेन एव अधिकं विस्‍तारं प्राप्‍ते सति अस्‍या: शाखाया: नाम माध्यन्दिनीया इति अभवत् ।  अद्य प्राय: यजुर्वेदस्‍य या शाखा प्राप्‍यते सा माध्‍यन्दिनीया एव ।

        अस्‍यां संहितायां 40 अध्‍याया: तथा च 1975 मन्त्राणि सन्ति येषु 15 खिला: सन्ति ।  40तम: अध्‍याय: इशावास्‍योपनिषद् इति कथ्‍यते ।  एषा संहिता द्वे भागे विभक्‍ता अस्ति - पूर्वविंशति:, उत्‍तरविंशति: च ।  प्रथम 20 अध्‍याया: पूर्वविंशति:, अंतिम 20 अध्‍याया: उत्‍तरविंशति: चेति कथ्‍यन्‍ते ।  प्रत्‍येकेषु अध्‍यायेषु काश्‍चन् कण्डिका: सन्ति येषाम् अन्‍तर्गतं कानिचन् मन्‍त्राणि सन्ति ।

काण्‍व संहिता - अस्‍या: संहिताया: सम्‍बन्‍ध: महर्षिकण्‍वत: अस्ति ।  ऋग्‍वेदस्‍य प्रथम, अष्‍टम, नवम च मण्‍डलेषु कण्‍ववंशीयानां मन्‍त्राणि प्राचुर्येण सन्ति ।  एतेषां निवासविषये काण्‍वशाखायाम् एव कुरु-पांचालप्रदेशयो: नामोल्‍लेख: अस्ति - 'एष व: कुरवो राजा, एष व: पांचालो राजा' (11.11) ।  आदित्‍यपुराणानुसारं शाखाप्रवर्तक: कण्‍व: बौधायनस्‍य पुत्र: एवं च याज्ञवल्‍क्‍यस्‍य शिष्‍य: आसीत् ।

बोधायन पितृत्‍वाच्‍च प्रशिष्‍यत्‍वाद बृहस्‍पते: ।

शिष्‍यत्‍वाद याज्ञवल्‍क्‍यस्‍य कण्‍वोभून्‍महतो महान् ।।

काण्‍वशाखीय: मन्‍त्राणाम् उच्‍चारणं ऋग्‍वेदीयमन्‍त्रवदैव कुर्वन्ति ।  केवलं काश्‍चन् भेदा: सन्ति ।

वाजसनेयिसंहितासदृशम् एव अस्‍याम् अपि 40 अध्‍याया: सन्ति ।  किन्‍तु अनुवाकानां संख्‍या 328 मन्‍त्राणि च 2086 सन्ति ।  शंकराचार्येण अस्‍यान्‍तर्गतस्‍य: ईशोपनिषदस्‍य अनुमोदनं कृतमस्ति ।  मन्‍त्रदृष्‍ट्या अपि उभयो: संहितयो: मध्‍ये क्रमभेद: अस्ति ।  एवंविधा अस्‍यां संहितायां माध्‍यन्दिने: अपेक्षया 111 मन्‍त्राणि अधिकानि सन्ति ।  इति

टिप्पणियाँ

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी