संदेश

March, 2012 की पोस्ट दिखाई जा रही हैं

अर्थालंकार: - काव्‍यलिंग अलंकार:

वाक्‍यार्थ: यत्र हेतुरूप: भवति तत्र काव्‍यलिंग अलंकार: भवति ।हेतोर्वाक्‍यपदार्थत्‍वे काव्‍यलिंगं निगद्यते ।अर्थात् यत्र वाक्‍यार्थ: एव कस्‍‍यचित् हेतु: भवति तत्र काव्‍यलिंगालंकार: भवति । प्रस्‍तुतलक्षणे लिंग इत्‍युक्‍ते हेतु: इति अस्ति ।  काव्‍यलिंगस्‍यार्थ: - काव्‍याभिमतं लिंगं काव्‍यलिंगम् ।काव्‍यलिंगस्‍य द्वौ भेदौ स्‍त: । वाक्‍यार्थहेतुक पदार्थहेतुकउदाहरणम् - त्‍वद्वाजिराजिनिर्धूतधूलोपटलपंकिलाम् ।न धत्‍ते शिरसा गंगां भूरिभारभिया हर: ।।प्रस्‍तुतोदाहरणे प्रथमवाक्‍यस्‍यार्थ: एव द्वितीयवाक्‍ये जायमानानां क्रियाणां हेतुरिति अस्ति अत: काव्‍यलिंगालंकार: अस्ति अत्र । इति ......

अर्थालंकार: - अपह्नुति अलंकार:

उपमेयस्‍य निषेधे सति उपमानस्‍य स्‍थापना अपह्नुतिअलंकार: कथ्‍यते ।प्रकृतं प्रतिषिध्‍यान्‍यस्‍थापनं स्‍यादपह्नुति: ।अर्थात् यत्र उपमेयस्‍य निषेधं कृत्‍वा तस्‍योपरि उपमानस्‍य स्‍थापना क्रियते तत्र अपह्नुतिअलंकार: भवति ।उपमेयं निषिध्‍य तत्रोपमानाभेदव्‍यवस्‍थापनम् अपह्नुति:      - विश्‍वेश्‍वर पण्डित ।उदाहरणम् -नेदं नभोमण्‍डलमम्‍बुराशिर्नैताश्‍च तारा नवफेनभंगा: । नायं शशी कुण्‍डलित: फणीन्‍द्रो नासौ कलंक: शयितो मुरारि: ।।प्रस्‍तुतोदाहरणे उपमेयभूत आकाशमण्‍डलस्‍य निषेधं कृत्‍वा तत्र उपमानभूतसमुद्र, फेनराशि:, शेषनागस्‍य उपरि शयित: भगवत: विष्‍णो: स्‍थापनं कृतमस्ति अत: अपह्नुति अलंकार: अस्ति ।इति......

अर्थालंकार: - दृष्‍टान्‍त अलंकार:

वाक्‍ययो: उपमानोपमेयायो: प्रतिबिम्‍बनं दृष्‍टान्‍त अलंकार: कथ्‍यते । दृष्‍टान्‍तस्‍तु सधर्मस्‍य वस्‍तुन: प्रतिबिम्‍बनम् । अर्थात् द्वयो: वाक्‍ययो: धर्मयुक्‍तवस्‍तो: (उपमानस्‍य च उपमेयस्‍य च) बिम्‍बप्रतिबिम्‍बभाव: दृष्‍टान्‍तअलंकार: कथ्‍यते ।  तात्‍पर्यमस्ति यत् यत्र उपमेय, उपमानभूतयो: वाक्‍ययो: धर्मयुक्‍तउपमेयउपमानयो: प्रतिबिम्‍बनं वर्णितं भवति तत्र दृष्‍टान्‍तअलंकार: भवति । विशेष: - बिम्‍ब-प्रतिबिम्‍बभाव: -'द्वयोरर्थयोर्द्विरुपादानं बिम्‍बप्रतिबिम्‍बभाव:' । एकस्‍य अर्थस्‍य शब्‍दद्वयेन अभिधानं वस्‍तुप्रतिवस्‍तुभाव: ।   द्वयो: अर्थयो: द्वि: उपादानं बिम्‍ब‍प्रतिबिम्‍बभाव: ।।           -आचार्य विश्‍वनाथ: ।दृष्‍टान्‍तपदस्‍योत्‍पत्ति: - 'दृष्‍टोन्‍तो निश्‍चयो यत्र स दृष्‍टान्‍त: ।'उदाहरणम् - अविदितगुणापि सत्‍कविभणिति: कर्णेषु वमति मधुधाराम् । अनधिगत परिमलापि हि हरति दृशं मालतीमाला ।।प्रस्‍तुतोदाहरणे 'सत्‍कविभणिति' उपमेयं, 'मालतीमाला' उपमानं च अस्ति ।  एतयो: मध्‍ये बिम्‍ब-प्रतिबिम्‍बभाव: अस्ति अथ च एतयो: गुणा: अपि बिम्‍बप्रतिबिम्‍बभावं वहन्ति अत: दृष्‍टान्‍तअ…

नवरात्रिपर्वम्

चित्र
भारतवर्षेनवरात्रिपर्वं शक्‍ते: आराधनपर्वम् इति प्रसिद्धमस्ति ।  अस्मिन् पर्वे भगवतिदुर्गादेव्‍या: नवरूपाणां पूजनार्चनं भवति ।  एतत् पर्वं भारतीयपरम्परायां नारीगरिमा कियति इति दर्शयति ।  वर्षे चतुर्वारं नवरात्रि: मोदयते ।  एते चैत्र, आषाढ़, आश्विन एवं च माघ मासस्‍य शुक्ल प्रतिपदात: नवमी पर्यन्‍तं भवति ।  किन्‍तु प्रसिद्धि: तु चैत्राश्विनमासयो: एव अधिकमस्ति ।  एतानि यथाक्रमेण वासन्‍तीय शारदीय नवरात्रि: च कथ्‍यन्‍ते । शारदीय नवरात्रि:शारदीयनव‍रात्रि: अश्विनप्रदिपदात: आरभ्‍यते ।  अस्‍य पर्वस्‍य अति महत्‍वमस्ति विद्यते ।  अस्मिन् एव पर्वे गरबानृत्‍यायोजनं भवति । चैत्र अथवा वासन्ती नवरात्रि:चैत्र अथवा वासन्ती नवरात्रे: प्रारम्भ: चैत्र मासस्‍य शुक्लपक्षस्‍य प्रतिप्रदात: भवति ।  पूजार्चनस्‍य दृष्‍ट्या इदं पर्वं विशिष्‍टमेवास्ति । नव दिनानि उत रात्रय:अमावस्‍याया: रात्र्यारम्‍भात् अष्‍टमीपर्यन्‍तमथवा प्रतिपदात: नवमीमध्‍याह्नपर्यन्‍तं चलति सन नवरात्रनामस्‍य सार्थकता ।  अत्र रात्रि: गण्‍यते अत: नवरात्र इति निगदितमस्ति ।  नवरात्र इत्‍युक्‍ते नवरात्रीणां समूह: । शरीरस्‍य सुचारुसंचालनाय तु वयं विरे…

अर्थालंकार: - स्‍वभावोक्ति अलंकार:

दुरूहक्रियाणां वर्णनं स्‍वभावोक्ति: कथ्‍यते । स्‍वभावोक्तिर्दुरूहार्थस्‍वक्रियारूपवर्णनम् । अर्थात् यानि कार्याणि (बालानां पशूनां वा) सामान्‍यरूपेण ज्ञातुं शक्‍यं न भवन्ति केवलं कवि: तेषाम् अनुभवज्ञानेन स्‍वरूपवर्णनं करोति तत्र स्‍वभावोक्ति अलंकार: भवति । व्‍युत्‍‍पत्ति: - स्‍वभावस्‍य उक्ति:उदाहरणम् - लांगूलेनाभिहत्‍य क्षितितलमसकृद्दारयन्‍नग्रपद्भ्‍या- मात्‍मन्‍येवावलीय द्रुतमथ गगनं प्रोत्‍पतन् विक्रमेण । स्‍फूर्जत्‍फुत्‍कारघोर: प्रतिदिशमखिलान्‍द्रावयन्‍नेषजन्‍तून्कोपाविष्‍ट: प्रविष्‍ट: प्रतिवनमरुणोच्‍छूनचक्षुस्‍तरक्षु: ।।प्रस्‍तुतोदाहरणे क्रोधितस्‍य व्‍याघ्रस्‍य विभिन्‍नानां क्रियाणां  वर्णनं कृतमस्ति अत: स्‍वभावोक्ति अलंकार: अस्ति । इति .........

अर्थालंकार: - विशेषोक्ति अलंकार:

प्रसिद्धकारणे सति अपि फलस्‍य अभाव: यत्र तत्र विशेषोक्ति अलंकार: । सति हेतौ फलाभावे विशेषोक्तिस्‍तथा द्विधा ।अर्थात् यत्र प्रसिद्धकारणं तु अस्ति किन्‍तु फलस्‍य (कार्यस्‍य) उत्‍पत्ति: न भवति तत्र विशेषोक्ति: भवति ।विशेष: - विशेषोक्तिरपि द्विधा - उक्‍तनिमित्‍ताअनुक्‍तनिमित्‍ता विशेषोक्तिपदस्‍य व्‍युत्‍पत्ति: 'विशेषस्‍य, कारणेषु सत्‍सु, अपि कार्याभावरूपस्‍य उक्ति: विशेषोक्ति:' ।एष: अलंकार: विभावना अलंकारस्‍य विलोम अस्ति । प्रसिद्धकारणेषूक्‍तेषु सत्‍सु फलावच: कार्याभाववचनं विशेषोक्ति:     - नागेश्‍वरी टीका ।उदाहरणम् - धनिनोपि निरुन्‍मादा युवानोपि न चंचला प्रभवोयिप्रमत्‍तास्‍ते महामहिमशालिन: ।।प्रस्‍तुतोदाहरणे प्रसिद्धकारणानि 'धनं, यौवनं, प्रभुत्‍वं च' उपस्थितानि सन्ति चेदपि उन्‍माद:, चंचलता, प्रमादरूपकार्याणाम् अभाव: प्राप्‍यते महामहिमशालित्‍वात् ।  अतएव विशेषोक्ति अलंकार: अस्ति । इति ........

अर्थालंकार: - विभावना अलंकार:

हेतुं विना यत्र कार्योत्‍पत्ति: दृष्‍यते तत्र विभावना अलंकार: भवति ।विभावना विना हेतुं कार्योत्‍पत्तिर्यदुच्‍यते ।अर्थात् यत्र कारणेन विना एव कार्यस्‍य उत्‍पत्ति: प्रदर्श्‍यते तत्र विभावना अलंकार: भवति । विशेष: - विभावना अलंकारस्‍य व्‍युत्‍पत्तिरस्ति - 'विभावयति कारणान्‍तरं कल्‍पयति इति विभावना ।'''प्रसिद्धकारणस्‍य निषेधेपि तत्‍कार्यरूप फलस्‍य व्‍‍यक्ति: प्रकाशनं विभावना ।  विभावयति कारणान्‍तरं कल्‍पयतीति विभावना ।  प्रसिद्धकारणाभावेपि कार्योत्‍पत्त्‍िर्हि कारणान्‍तरं कल्‍पयति विभावना ।''- नागेश्‍वरी टीका ।विभावना अलंकारस्‍य द्वौ भेदौ कल्पितौ स्‍त: । उक्‍तनिमित्‍ता - अप्रसिद्धकारणं कदाचित् उक्‍तं भवेत् । अनुक्‍तनिमित्‍ता - अ‍प्रसिद्धकारणम् उनुक्‍तं भवेत् । उदाहरणम् - अनायासकृशं मध्‍यमशंकतरले दृशौअभूषणमनोहारि वपुर्वयतिस सुभ्रुव: ।।प्रस्‍तुतोदाहरणे कटिप्रदेशस्‍य कृशता, नेत्राभ्‍यां चंचलता, शरीरस्‍य आभूषणेन विनैव सुन्‍दरता इत्‍येषां प्रसिद्धकारणं नास्ति अत: विभावना अलंकार: अस्ति । इति ........

अर्थालंकार:– तुल्‍ययोगिता अलंकार:

यदा प्रस्‍तुताप्रस्‍तुतयाभ्‍याम् एकेन एव धर्मेण सह सम्‍बन्‍ध: भवति तत्र तुल्‍ययोगिता अलंकार: भवति ।पदार्थानां प्रस्‍तुतानामन्‍येषां वा यदा भवेत् एकधर्माभिसम्‍बन्‍ध: स्‍यात्‍तदा तुल्‍ययोगिता ।।अर्थात् यत्र केवलं प्रस्‍तुतस्‍य (उपमेयस्‍य) अथवा केवलम् अप्रस्‍तुतस्‍य (उपमानस्‍य) एकेन एव धर्मेण सम्बन्‍ध: भवति तत्र तुल्‍ययोगिता नामक: अलंकार: भवति ।  एष: धर्म: गुणरूपम् अथवा क्रियारूपं भवति ।विशेष: - तुल्‍ययोगिताया: व्‍युत्‍पत्ति: 'तुल्‍यश्‍चासौ योगश्‍च इति तुल्‍ययोग:'एकधर्माभिसम्‍बन्‍ध:, स: अस्ति येषां ते तुल्‍ययोगिन:, तेषां भाव: तुल्‍ययोगिता ।तुल्‍ययोगिताया: अर्थ: - एकेन एव धर्मेण सम्‍बन्‍ध: । तुल्‍ययोगिता नाम अन्‍वयो यत्रेति भाव:               - वैद्यनाथ वत्‍सत् ।प्रकृतानामेव अप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्‍वयस्‍तुल्‍ययोगिता   - भट्टेन्‍दुराज: उदाहरणम् - तदंगमार्दवं द्रष्‍टु: कस्‍य चित्‍ते न भासते । मालतीशशभृल्‍लेखाकदलीनां कठोरता ।।प्रस्‍तुतोदाहरणे नायिका प्रस्‍तुत (उपमेयम‍्) अस्ति एवं च मालती, चन्‍द्रकला, कदली च अप्रस्‍तुता: (उपमानम्) सन्ति ।  एतेषां त्रयाणामपि पदार्थानां…

अर्थालंकार: - दीपक अलंकार:

उपमानोपमेययो: एकधर्मात् सम्‍बन्‍ध: भवेत् चेत् दीपक अलंकार: कथ्‍यते ।  अप्रस्‍तुतप्रस्‍तुतयोर्दीपकं तु निगद्यते । अथकारकमेकं स्‍यादनेकासु क्रियासु चेत् ।। अर्थात् यत्र एकधर्मेण एव उपमानस्‍य च उपमेयस्‍य च द्वयो: अपि सम्‍बन्‍ध: भवति स: दीपकअलंकार: कथ्‍यते ।  अथवा यदि अनेकक्रियाणां सह एव एकस्‍य एव कारकस्‍य सम्‍बन्‍ध: भवतु तत्र दीपक अलंकार: भवति । आचार्यविश्‍वनाथेन दीपकालंकारस्‍य द्वौ भेदौ स्‍वीकृतौ - 1. कारकदीपकम् 2. क्रियादीपकम्केशवमिश्रस्‍य कथनमस्ति -'समस्‍तवाक्‍योपकत्‍वेन दीपसाम्‍याद्दीपकमित्‍यर्थ:' ।उदाहरणम् - क्रियादीपकम् - बलावलेपादधुनापि पूर्ववत् प्रबाध्‍यते तेन जगज्जिगीषुणा । सती च योषित् प्रकृतिश्‍च निश्‍चला पुमांसमभ्‍येति भवान्‍तरेष्‍वपि ।।प्रस्‍तुतम् उदाहरणं क्रियादीपकस्‍य अस्ति ।  अत्र अप्रस्‍तुत 'सती स्‍त्री' एवं च प्रस्‍तुत 'निश्‍चला प्रकृति:' इत्‍ययो: प्राप्ति: क्रियारूपमेकमेव धर्मेण सम्‍बध्‍यते । कारकदीपकम् -दूरं समागतवति त्‍वयि जीवनाथेभिन्‍ना मनोभवशरेण तपस्विनी सा । उत्तिष्‍ठति स्‍वपिति वासगृहं त्‍वदीय- मायाति याति हसति श्‍वसिति क्षणेन ।।प्रस्‍तुते…

नवसंवत्‍सरं - सृष्‍टे: वर्षग्रन्थि: ।

चित्र
23मार्चत: आरभ्‍यते संवत 2069चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमे अहनि
शुक्‍लपक्षे समग्रे तु सदा सूर्योदये सति ।।
ब्रह्मपुराणस्‍य अस्‍य श्‍लोकानुसारेण चैत्रमासस्‍य शुक्‍लपक्षस्‍य प्रथमे सूर्योदये ब्रह्मणा सृष्‍टे: रचना कृता ।  अस्मिन् दिवसे एव विक्रमी संवत: अपि प्रारम्‍भ: भवति ।  अद्य निश्‍चयेन जनवरी नववर्षरूपेण मोदयन्‍ते किन्‍तु बहुवर्षेभ्‍य: पूर्वं अस्तित्‍वे आगतं विक्रमीसंवत एव अद्यापि धार्मिकअनुष्‍ठानेषु, मांगलिककार्येषु च तिथिकालगणनाया: आधार: अस्ति । विक्रमी संवत
ग्रेगेरियन कैलेंडरत: अपि भिन्‍नानि सन्ति बहूनि संवतानि प्रचलितानि भारतवर्षे ।  एतेषु विक्रमसंवत, शकसंवत, बौद्धएवं जैन संवत एवं च तेलगूसंवत इत्‍यादीनि सन्ति ।  देशे सर्वाधिकं प्रचलितमस्ति शकसंवत, विक्रमसंवत च ।प्रारम्‍भ:
विक्रमसंवतं सम्राटविक्रमादित्‍येन शकान् पराजितं कृत्‍वा तस्‍यैव उपलक्ष्‍ये 57 ई. पूर्वे प्रारम्‍भं कृतम् ।  विक्रमसंवत चैत्रमासस्‍य शुक्‍लपक्षस्‍य प्रतिपदायां प्रारभ्‍यते ।  भारतीयप्रचांगस्‍य एवं च कालनिर्धारणस्‍य आधार: विक्रमसंवत एव अस्ति ।विशेषता
विक्रमीसंवत: सम्‍बन्‍ध: केनचित धर्मेण सह नास्ति अपितु सम्‍पूर्ण…

नववर्षारम्‍भस्‍य शुभकामनया सह एव संस्‍कृतजगतईपत्रिकाया: विमोचनम्

चित्र
मान्‍या: संस्‍कृतजगत: कार्यकर्तार: संस्‍कृतज्ञा:, संस्‍कृतेच्‍छुकाश्‍च
   अस्‍माकं भारतीय परम्‍पराया: नववर्ष: मार्चमासस्‍य 23 दिनांके प्रारभ्‍यते । अस्मिन् अवसरे अस्‍माकं उक्ति अनुसारं वयं सम्‍प्रति संस्‍कृतजगत् ईपत्रिकाया: विमोचनं कुर्वन्‍त: स्‍म: । एषा पत्रिका प्रथमे चरणे तु त्रैमासिकी एव प्रकाश्‍यते किन्‍तु यदि भवतां सहयोग: भविष्‍यति चेत् प्रतिमासे अपि प्रारम्‍भं करिष्‍याम: इति । सम्‍प्रति भवतां सम्‍मुखे अस्‍य संस्‍करणस्‍य प्रकाशनं कुर्म: । अत्र तिस्र: तलपूर्तिश्रृंखला: दीयते । इत: तलपूर्य एतां पत्रिकां पठन्‍तु, अस्‍या: आनन्‍दं स्‍वीकुर्वन्‍तु, विश्‍लेषणं कुर्वन्‍तु, आत्‍मन: टिप्‍पणय: प्रयच्‍छन्तु, आत्‍मन: लेखान् अपि प्रकाशयितुं सिद्धा: भवन्‍तु अग्रिमसंस्‍करणेषु ।

         अस्‍या: पत्रिकाया: तलपूर्तिश्रृखला: अत्र दीयन्‍ते ।
Click to launch the full edition in a new window
तलपूरितुं प्रथमा श्रृंखला
तलपूरयितुं द्वितीया श्रृंखला तलपूरयितुं तृतीया श्रृंखला
चैत्रशुक्‍ल प्रतिपदा, विक्रमसंवत् 2069 (23 मार्च 2012) भारतीय नववर्ष: भवतां सर्वेषां कृते शुभं भवेत् ।  
नववर्षस्…

अर्थालंकार: - भ्रान्तिमान अलंकार:

समता अथवा सादृश्‍यकारणात् कस्मिश्चित् वस्‍तौ अन्‍यवस्‍तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्‍यते । साम्यादतस्मिनस्‍तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थित: । अर्थात् यत्र समानता कारणात् कस्मिश्चित् वस्‍तौ कविकल्‍पनया कस्‍यचित् अन्‍यस्‍य वस्‍तो: निश्‍चयात्‍मकं ज्ञानं भवति तत्र भ्रान्तिमान् अलंकार: भवति । उदाहरणम् - मुग्धा दुग्‍धधिया गवां विदधते कुम्‍भानधो बल्‍लवा: । कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्‍ता अपि ।। कर्कन्‍धुफलमुच्चिनोति शबरी मुक्‍ताफलाशंकया । सान्‍द्रा चन्‍द्रमसो न कस्‍य कुरूते चित्‍तभ्रमं चन्द्रिका ।। प्रस्‍तुतोदाहरणे चन्‍द्रमस: मयूखे दुग्‍धस्‍य, कुवलये कुमुदस्‍य एवं च कर्कन्‍धुफले मुक्‍ताफलस्‍य कविकल्‍पनया भ्रान्तिपूर्णं वर्णनं कृतमस्ति अ‍त: अत्र भ्रान्तिमान् अलंकार: अस्ति । इति ....

अर्थालंकार: - सन्‍देह अलंकार:

उपमेये (प्रकृते) उपमानस्‍य (अन्‍यस्‍य) कविप्रतिभया वर्णितसंशय: सन्‍देहालंकार: भवति । सन्‍देह: प्रकृतेSन्‍यस्‍य संशय: प्रतिभोत्थित: । अर्थात् यत्र कवि: आत्‍मन: प्रतिभया उपमेये उपमानस्‍य संशयं वर्णयति तत्र सन्‍देहालंकार: भवति । सन्‍देहालंकारस्‍य भेदा: - सन्‍देहालंकारस्‍य त्रय: प्रमुखभेदा: सन्ति । 1- शुद्धसन्‍देह: - यत्र संशये एव वर्णनस्‍य समाप्ति: भवति अथवा आदिमध्‍यान्‍ते सर्वत्र संशयास्थिति: तिष्‍ठति, स: शुद्धसन्‍देह: कथ्‍यते । 2- निश्‍चयगर्भसन्‍देह: – यत्र आदौ, मध्‍ये च संशयस्‍य स्थिति: भवति किन्‍तु मध्‍ये निश्‍चय: भवति स: निश्‍चयगर्भसन्‍देह: कथ्‍यते । 3- निश्‍चयान्‍तसन्‍देह: - यत्र आदौ संशय: भवति किन्‍तु अन्‍ते निश्‍चय: भवति तत्र निश्‍चयान्‍तसन्‍देह: भवति । उदाहरणम् - अयं मार्तड: किं, स खलु तुरगै: सप्‍तभिरित: । कृशानुं किं, सर्वा: प्रसरति दिशो नैष नियतम् ।। कृतान्‍त: किं, साक्षान्‍महिषवहनोSसाविति पुन: समालोक्‍याजौ त्‍वां विदधति विकल्‍पान् प्रतिभटा: ।। प्रस्‍तुत उदाहरणे उपमेयभूतराज्ञि कविकल्‍पनया उपमानभूतमार्तण्‍ड:, कृशानु:, अग्नि: एवं च यमराजस्‍य संशय: वर्णित: अस्ति ।  अत: अत…

महान् सचिनस्य महान् शतकम्

चित्र
क्रिकेटजगतः ईश्‍वरः सचिनतेन्दुलकरः एकम् अद्भुतं कीर्तिमानं रचितवान् ।  मार्चमासस्य 16 दिनांके एशियाकपक्रिकेटक्रीडायां बांग्लादेशेन सह क्रीडन्नेव सचिनः आत्मनः 100तमं शतकं रचितवान् ।  सः 142कन्दुकेषु 113धावनांकम् अर्जितवान् ।  इदं शतकं सचिनस्य एव न अपितु विश्‍वस्य कस्यचिदपि क्रिकेटक्रीडकस्य सर्वोत्तमं क्रिकेटसांख्यमस्ति ।  
तस्मै हार्दिकं धन्यवादः ।

अर्थालंकार: - उत्‍प्रेक्षा अलंकार:

उपमेयस्‍य उपमानरूपे सम्‍भावना उत्‍प्रेक्षाअलंकार: कथ्‍यते । भवेत् सम्‍भावनोत्‍प्रेक्षा प्रकृतस्‍य परात्‍मना । अर्थात् यत्र उपमेयस्‍य सम्‍भावना उपमानवत् क्रियते तत्र उत्‍‍प्रेक्षाअलंकार: भवति ।
उत्‍प्रेक्षाया: व्‍युत्‍पत्ति: - ''उत् उर्ध्‍वंगता प्रेक्षा दृष्टि: प्रतिभा च यस्‍यां सोत्‍प्रेक्षा''
आचार्यविश्‍वनाथेन उत्‍प्रेक्षाया:  भेदोपभेदा: स्‍वीकृत: अस्ति ।  उत्‍प्रेक्षावाचकशब्‍दानां सन्‍दर्भे स: उक्‍तवान् - ''मन्‍ये शंके ध्रुवं प्रायो नूनमित्‍येवमादय:'' ।
आचार्य दण्डिना उत्‍प्रेक्षावाचकशब्‍दानां सूची प्रस्‍तुवन् 'काव्‍यादर्शे' निगदितमस्ति -
''मन्‍ये शंके ध्रुवं प्रायो नूनमित्‍येवमादिभि: ।
उत्‍प्रेक्षा व्‍यज्‍यते शब्‍दैरिवशब्‍दोपि तादृश: ।।''
उदाहरणम् -
लिम्‍पतीव तमोंगानि वर्षतीवांजनं नभ: । असत्‍पुरुषसेवेव दृष्टिर्विफलतां गता ।। अत्र 'व्‍यापन', 'अध: अंधकारप्रसरणयो:' उपमेयाभ्‍यां क्रमश: 'अंग', अंजनवर्षणरूपयो: सम्‍भावना कृतास्ति ।  अत: उत्‍प्रेक्षा अलंकार: अस्ति ।  अत्र उत्‍प्रेक्षावाचकम् इव शब्‍द: विद्यते ।

अर्थालंकार - रूपक अलंकार:

निर्लुप्‍ते विषये (उपमेये) रूपितस्‍य (उपमानस्‍य) आरोप: रूपकअलंकार: कथ्‍यते । रूपकं रूपितारोपो विषये निरपह्नवे ।अर्थात् यत्र अलोपस्‍य उपमेयस्‍योपरि उपमानस्‍यारोप: क्रियते तत्र रूपकअलंकार: भवति । रूपकअलंकारस्‍य प्रमुखा: त्रय: भेदा: सन्ति । (1) परम्‍परितरूपकम् । (2) सांगरूपकम् ।(3) निरंगरूपकम् ।उदाहरणम् - पान्‍तु वो जलदश्‍यामा: शार्गंज्‍याघातकर्कशा: । त्रैलोक्‍यमण्‍डपस्‍तम्‍भाश्‍चत्‍वारो हरिबाहव: ।।अत्र 'जलदश्‍यामा:', 'शार्गंज्‍याघातकर्कशा, त्रैलोक्‍यमण्‍डपस्‍तम्‍भाश्‍चत्‍वारो शब्‍देषु रूपकअलंकार: विद्यते ।  अत्र 'त्रैलोक्‍य' इत्‍यस्‍योपरि 'मण्‍डप' शब्‍दस्‍य, 'हरिबाहु' इत्‍यस्‍योपरि 'स्‍तम्‍भ' शब्‍दस्‍य पुनश्‍च 'त्रैलोक्‍य' इत्‍यस्‍यो‍परि 'मण्‍डप' इत्‍यस्‍य आरोप: अस्ति ।  अत: अत्र रूपकअलंकार: अस्ति । इति

होलिकोत्‍सव कथा ।

होलिकोत्‍सवस्‍य आयोजनं सम्‍पूर्णे भारतवर्षे भवति ।  प्रत्‍येकस्‍य वर्गस्‍य जना: मिलित्‍वा एतत् पर्वं मोदयन्ति ।  अस्‍य उत्‍सवस्‍य विषये एका प्राचीना कथा विद्यते ।  हिरण्‍यकश्‍यप: हिरण्‍याक्ष: च -        सतयु्गे एक: महान् दानव: महर्षि कश्‍यपस्‍य पुत्र: हिरण्‍यकश्‍यप: आसीत् ।  तस्‍य अनुज: हिरण्‍याक्ष: अपि महान् बलशाली आसीत् ।  एतौ द्वौ अपि म‍हर्षिकश्‍यपस्‍य पत्‍नी दिते: सन्‍तानौ आस्‍ताम् । पृथ्‍वीहरणम् वाराहावतार: च - एकदा हिरण्‍याक्ष: मदान्‍धं भूत्‍वा पृथिवीदेव्‍य: हरणं कृत्‍वा रसातले शयनार्थं गतवान् ।  रसातले स: पृथिवीं स्‍वसिरस: अध: स्‍थाप्‍य शंयनम् आरब्‍धवान् ।  पृथिव्‍या: एतां गतिं दृष्‍ट्वा देवा:, ऋषयाश्‍च चिन्तिता: अभवन् ।  ते मिलित्‍वा पितामह: ब्रह्मण: पार्श्‍वे गता: अनुनयं च आरब्‍धवन्‍त: ।         ब्रह्मा अत्‍यन्‍तं चिन्तित: अभवत् ।  स: भगवत: श्रीनारायणं अस्‍मरत् ।  तत्‍क्षणमेव ब्रह्मण: नासिकात: एक: लघुवाराह: अप्रकटत् ।  स: वाराह: क्षणे एव वृहत्‍कायं भूत्‍वा रसातले प्रवृष्‍ट: ।  पृथ्‍वीं दन्‍तौ संस्‍‍थाप्‍य स: बहि: निर्गत: । हिरण्‍याक्षवधं पृथ्‍वीउद्धार: च -        शयनं कुर…