अर्थालंकार: - सन्‍देह अलंकार:

            उपमेये (प्रकृते) उपमानस्‍य (अन्‍यस्‍य) कविप्रतिभया वर्णितसंशय: सन्‍देहालंकार: भवति ।
सन्‍देह: प्रकृतेSन्‍यस्‍य संशय: प्रतिभोत्थित: ।
अर्थात् यत्र कवि: आत्‍मन: प्रतिभया उपमेये उपमानस्‍य संशयं वर्णयति तत्र सन्‍देहालंकार: भवति ।
सन्‍देहालंकारस्‍य भेदा: -
सन्‍देहालंकारस्‍य त्रय: प्रमुखभेदा: सन्ति ।
1- शुद्धसन्‍देह: - यत्र संशये एव वर्णनस्‍य समाप्ति: भवति अथवा आदिमध्‍यान्‍ते सर्वत्र संशयास्थिति: तिष्‍ठति, स: शुद्धसन्‍देह: कथ्‍यते ।
2- निश्‍चयगर्भसन्‍देह: – यत्र आदौ, मध्‍ये च संशयस्‍य स्थिति: भवति किन्‍तु मध्‍ये निश्‍चय: भवति स: निश्‍चयगर्भसन्‍देह: कथ्‍यते ।
3- निश्‍चयान्‍तसन्‍देह: - यत्र आदौ संशय: भवति किन्‍तु अन्‍ते निश्‍चय: भवति तत्र निश्‍चयान्‍तसन्‍देह: भवति ।
उदाहरणम् -
अयं मार्तड: किं, स खलु तुरगै: सप्‍तभिरित: ।
कृशानुं किं, सर्वा: प्रसरति दिशो नैष नियतम् ।।
कृतान्‍त: किं, साक्षान्‍महिषवहनोSसाविति पुन:
समालोक्‍याजौ त्‍वां विदधति विकल्‍पान् प्रतिभटा: ।।
प्रस्‍तुत उदाहरणे उपमेयभूतराज्ञि कविकल्‍पनया उपमानभूतमार्तण्‍ड:, कृशानु:, अग्नि: एवं च यमराजस्‍य संशय: वर्णित: अस्ति ।  अत: अत्र सन्‍देहालंकार: अस्ति ।  अत्र मध्‍ये मार्तण्‍ड:, कृशानु: एवं च कृतान्‍तस्‍य अभावस्‍य निश्‍चय: सन् निश्‍चयगर्भसन्‍देहालंकार: अस्ति ।
इति …

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी