संदेश

April, 2012 की पोस्ट दिखाई जा रही हैं

कालिदासविरचिते रघुवंशे षष्ठः सर्गः

स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु ।
वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान् । । ६.१ । ।
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण ।
काकुत्स्थं आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशं । । ६.२ । ।
वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गं इवारुरोह । । ६.३ । ।
परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवद्(?) आसनं सः ।
भूयिष्ठं आसीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन । । ६.४ । ।
तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पय्ॐउचां पङ्क्तिषु विद्युतेव । । ६.५ । ।
तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणां इव पारिजातः । । ६.६ । ।
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः । । ६.७ । ।
अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके ।
संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः । । ६.८ । ।
पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ ।
प…

दादा साहब फाल्‍के

दादासाहबफाल्‍के 23 अप्रैल 1870 ईसवीये ख्रीस्‍ताब्‍दे नासिकस्‍य पार्श्‍वे त्र्यम्‍बकेश्‍वरे जन्‍मं प्राप्‍तवान् ।  तस्‍य पिता एक: शास्‍त्री आसीत् ।  अनन्‍तरं स: मुंबईनगरस्‍य विल्‍सनकॉलेज इति विद्यालये पाठनं प्रारभत् ।दादासाहबफाल्‍केवर्यस्‍य बाल्‍यकालस्‍य नाम धुंडीराज फाल्‍के आसीत् ।  स: मुंबईनगरस्‍य जे.जे.स्‍कूल ऑफ आर्ट्स एवं च बडौदाप्रदेशस्‍य कलाभवनत: अध्‍ययनं कृतवान् आसीत् ।युवावस्‍थायां स: चित्रकर्षणं (फोटोग्राफी), नाटकेषु मंचसज्‍जा, एवं च 1903 ईसवीये सर्वकारीयसंस्‍थायां सेवा अपि कृतवान् यत् स्‍वदेशीआन्‍दोलनेन प्रभावितं भूत्‍वा त्‍यक्‍तवान् ।  सहभागितायां स: ब्‍लाक मेकिंग एवं च चित्रकषर्णं आरब्‍धवान् ।  1909 ईसवीये स: जर्मनीत: मुद्रणयन्‍त्रम् (छपाईमशीन) अपि आनीतवान् ।  एतस्‍य एव सहभागस्‍य (पार्टनरशिप) विच्‍छेदनेन तस्‍य रुचि: सिनेमाजगति अभवत् ।भारतस्‍य प्रथमं चलचित्रं 'राजा हरिश्‍चन्‍द्र' - फाल्केमहोदय: प्रारम्‍भे लक्ष्‍मी आर्ट प्रिंटिंग प्रेस चालयन् आसीत् सहभागितायाम् ।  सहभागविच्‍छेदनेन स: निर्विकल्‍प: संजात: ।  तस्मिन् समये (15 अप्रैल, 1911) एव स: 'द अमेरिका इण्डिया सि…

रघुवंशे पञ्चमः सर्गः

तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं ।
उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः । । ५.१ । ।
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घ्यशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिं आतिथेयः । । ५.२ । ।
तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजं आरात्कृताञ्जलिः कृत्यविदित उवाच । । ५.३ । ।
अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानं अशेषं आप्तं लोकेन चैतन्यं इवोष्णरश्मेः । । ५.४ । ।
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययं अन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तथ् । । ५.५ । ।
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदं आश्रमपादपानां । । ५.६ । ।
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणां अनघा प्रसूतिः । । ५.७ । ।
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितःणां ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चिथ् । । ५.८ । ।
नीवारपाका…

अक्षयतृतीया

अक्षय तृतीया उत आखा तीज वैशाखमासे शुक्लपक्षस्‍य तृतीया तिथिं कथ्‍यते ।  पौराणिकग्रन्‍थानाम् अनुसारम् अस्मिन् दिवसे यानि कार्याणि कृयन्‍ते तेषामुत्‍तमं फलं लभ्‍यते एतदर्थमेव एतत् अक्षयतृतीया इति कथ्‍यते ।  एवं तु सर्वेषां द्वादशमासानां शुक्‍लपक्षस्‍य तृतीयातिथि: शुभं भवति किन्‍तु वैशाख मासस्‍य एषा तिथि: स्‍वयंसिद्धतिथि: मन्‍यते ।  भविष्‍यपुराणस्‍य अनुसारम् अस्‍या: तिथे: युगादितिथिषु गणनां कृयते ।  सतयुगत्रेताभ्‍याम् आरम्‍भ: एतस्‍यां तिथौ एव जातमासीत् ।  भगवत: विष्‍णो: अस्मिन् एव तिथौ नर-नारायण, हयग्रीव एवं च परशुराम रूपेण अवतार: जात: ।  अस्मिन् दिवसे एव बद्रीनाथभगवत: प्रतिमां संस्‍थाप्‍य तस्‍य पूजार्चनं कृयते एवं च भगवत: लक्ष्‍मीनारायणस्‍य दर्शनमपि कृयते ।  प्रसिद्धतीर्थस्‍थलं बद्रीनारायणस्‍य कपाटमपि अस्यां तिथौ एव उद्घट्यते ।  वृंदावने स्थितस्‍य श्रीबांकेबिहारी जी मंदिरे भगवत: श्रीविग्रह: चरणयो: दर्शनं अस्मिन् दिवसे एव भवति, अनन्‍तरं सम्‍पूर्णे वर्षे भगवत: पादौ वस्‍त्रेण आवृतौ भवत: ।  अस्मिन् दिवसे एव महाभारतस्‍य युद्धस्‍य समापनं जातमासीत् एवं च द्वापरयुगस्‍य समापनमपि अस्मिन् दिवसे एव…

महाकविकालिदासकृत रघुवंशमहाकाव्‍यस्‍य चतुर्थ: सर्ग:

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः । । ४.१ । ।
न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिं ।
राज्ञां उद्धृतनाराचे हृदि शल्यं इवार्पितं । । ४.१* । ।
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितं ।
पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः । । ४.२ । ।
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः । । ४.३ । ।
समं एव समाक्रान्तं तस्योन्नयनपङ्क्तयः ।
तेन सिंहासनं पित्र्यं अखिलं चारिमण्डलं । । ४.४ । ।
छायामण्डललक्ष्येन तं अदृश्या किल स्वयं ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितं । । ४.५ । ।
परिकल्पितसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती । । ४.६ । ।
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा । । ४.७ । ।
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः । । ४.८ । ।
मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य फुष्पोद्गम इव प्रजाः । । ४.९ । ।
नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितं ।
पूर्व एवाभवत्…
चित्र
जालसूचिकानिर्माणानन्‍तरं भवन्‍त: सम्‍भवत: अस्‍या: प्रयोगमपि प्रारम्‍भं कृतवन्‍त: स्‍यु: ।  प्रायश: सूचिकानिर्माणसमये तकनीकिज्ञानाभावे वयम् अस्‍माकं सूचिकाया: सज्‍जा न कुर्म: ।  तस्‍य भित्तिफलकमपि परिवर्तनं न कुर्म: ।  साक्षात् यत् फलकं भवति तदेव भवति ।  किन्‍तु अनन्‍तरं यदा वयं जालसूचिकाया: सम्‍यकतया प्रयोगं प्रारम्‍भं कुर्म:, दश-पंचदश लेखान् लिखित्‍वा निवृत्‍तं भवाम: तदा अस्‍माकं मस्तिष्‍के आयाति यत् सूचिकाया: किंचित् सज्‍जा अपि भवेत् ।
सज्‍जाया: सर्वप्रथमा श्रृंखला, सर्वाधिकीमहात्‍वपूर्णश्रृंखला च अस्ति भित्तिफलकम् ।  भित्तिफलकं प्रत्‍येकस्‍य पृष्‍ठस्‍य, सूचिकाया: वा पृष्‍ठदृष्‍येन सहैव तस्‍य सम्‍पूर्णं प्रारूपं परिवर्तयति ।  अतएव यदि सूचिका प्रभावकारिणी निर्मातव्‍या चेत् भित्तिफलकं तु निश्‍चयेन आकर्षकं भवेत् इति ।  

अद्य अत्र वयं भित्तिफलकस्‍य परिवर्तनविषये जानिम: ।  एषा सूच‍ना केवलं ब्‍लागरस्‍थानके निर्मितानां सूचिकानां कृते अस्ति ।


1. सर्वप्रथमं तु भवद्भि: आत्‍मन: जालचालके (ब्राउजरमध्‍ये) ब्‍लागर.काम इति उद्घाटव्‍यम् ।  तत्र आवश्‍यकस्‍थाने आत्‍मन: प्रयोक्‍तानाम, प्रयोक्‍तागुप्‍तशब्‍…

रघुवंशमहाकाव्‍यम् (तृतीय: सर्ग:)

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं ।
निदानं इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ । । ३.१ । ।
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी । । ३.२ । ।
ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखं ।
अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा । । ३.२आ । ।
मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा ।
स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयथ् । । ३.२भ् । ।
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिं आययौ ।
करीव सिक्तं पृषतैः पय्ॐउचां शुचिव्यपाये वनराजिपल्वलं । । ३.३ । ।
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः ।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा । । ३.४ । ।
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेर्प्रियासखीरुत्तरकोसलेश्वरः । । ३.५ । ।
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतं ।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यं अधिज्यधन्वनः । । ३.६ …

विधि:

यज्ञस्‍य अनुष्‍ठानोपदेश: एव विधिरित्‍यभिधीयते ।  ब्राह्मणग्रन्‍थेषु प्रतिपाद्यविधे: दशप्रकारा भवन्ति ।
हेतुर्निर्वचनं निन्‍दा प्रशंसा संशयो विधि: परक्रिया पुराकल्‍पो व्‍यवधारणकल्‍पना ।। उपमानं दशैते तु विधयो ब्राह्मणस्‍य तु ।। यज्ञसम्‍बन्धिविविधानां विधीनां वर्णनं ब्राह्मणग्रन्‍थेषु प्राप्‍यते ।  यथा - पौर्णमास्‍यां दीक्षितो यजमान आहवनीयगार्हस्‍पत्‍याग्‍नयोर्मध्‍ये पूर्वस्‍यां दिशि उपविश्‍य जलस्‍य स्‍पर्शं कुर्यात् ।  यतो जलं मेध्‍यं भवति, यज्ञाय उपयोगी पदार्थ: भवति इति ।
मिथ्‍यावादी जन: यज्ञाय नोपयोगी भवति, अतएव जलस्‍पर्शेनासौ पापमपहाय मेध्‍यो भवति ।  जलस्‍पर्शेन पवित्रो भूत्‍वा स दीक्षितो भवति, अत एव जलस्‍पर्श करोति ।  यथोक्‍तं शतपथब्राह्मणे - ''अमेध्‍यो वै पुरुषो यदनृतं वदति तेन पूतिरन्‍तरत: ।  मेध्‍यो वै आप: ।  पवित्रं वा आप: ।  पवित्रपूतो व्रतमुपायानीति तस्‍माद् वा अप उपस्‍पृशति'' इति ।

हेतु:

कर्मकाण्‍डविधि: सम्यकतया सम्‍पन्‍नो भवेत् एतदर्थं दीयमाना: निर्देशा: हेतु: इति कथ्‍यन्‍ते ।  ब्राह्मणग्रन्‍थे यज्ञीयविधिविधाननिमित्‍तं समुचितकारणस्‍य निर्देश: अपि हेतु: कथ्‍यते । यथा -
अग्निष्‍टोमयागे उद्गाता सदसाभिधाने मण्‍डपे औदुम्‍बरस्‍य शाखाया: उच्‍छ्रयणं करोति ।  अस्‍य विधानस्‍य कारणं निर्दिशन् ताण्‍ड्य-ब्राह्मणं वदति यत्, प्रजापति: देवतायै उूर्ज: विभाजनमकरोत् ।  तेन एव उदुम्‍बरवृक्षस्‍य उत्‍पत्ति: जाता ।  एवं विधा उदुम्‍बरस्‍य देवता प्रजापति: अभवत् ।  उद्गाताऋत्‍विजस्‍य अपि सम्‍बन्‍ध: प्रजापतिना सह एव भवति ।  अत एव उद्गाता उदुम्‍बरशाखाया: उच्‍छ्रयणं प्रथमकर्मणा करोति ।
अनेन हेतुवचनेन यजमाना: अनुष्‍ठानस्‍य कारणेन परिचिता: भवन्ति ।  तेन यजमानेषु श्रद्धाया: वर्धनमपि जायते ।  इति

कालिदासविरचिते रघुवंशे द्वितीयः सर्गः

रघुवंशद्वितीयः सर्गः

अथ प्रजान्मां अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुं ऋषेर्मुमोच । । २.१ । ।
तस्याः खुरन्यासपवित्रपांसुं अपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छथ् । । २.२ । ।
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरां इवोर्वीं । । २.३ । ।
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः । । २.४ । ।
आस्वादवद्भिः कवलैस्तृणानं कण्डूयनैर्दंशनिवार्णैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट्समाराधन्तत्परोऽभूथ् । । २.५ । ।
स्थितः स्थितां उच्चलितः प्रयातां निषेदुषीं आसनबन्ध धीरः ।
जलाभिलाषी जलं आदधानां छावेय तां भूपति अन्वगच्छथ् । । २.६ । ।
स न्यस्तचिह्नां अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः । । २.७ । ।
लताप्रतानोद्ग्रथितैः स किशैरधिजय्धन्वा विचचार दावं ।
रक्षापदेशान्मुनिह्ॐअधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् । । २.८ । ।
चः (द्…

जालसूचिकानिर्माणं, लेखप्रकाशनं च कथं कुर्यात् ?

चित्र
गतलेखुषु ईसंकेतस्‍य निर्माणादिकविषयेषु पठितवन्‍त: वयम् ।  सम्‍प्रति वयं कथं जालसूचिका: निर्मापयेम, कथं तत्र प्रकाशनं च लेखानां कुर्याम इति एतस्मिन् विषये ज्ञास्‍याम: ।
जालसूचिकानिर्माणं कथम् - सर्वप्रथमं तु आत्‍मन: र्इसंकेतपृष्‍ठम् उद्घाटयेत् ।  अनेन जालसूचिकानिर्माणे सहायतां प्राप्‍यते ।  ईसंकेतपृष्‍ठस्‍य उद्घाटनानन्‍तरं निम्‍नोक्‍तकार्याणि करणीयानि भविष्‍यन्ति क्रमश: ।

1- यथा चित्रे दर्शितमस्ति तद्वदेव संकेतमंजूषायां 'ब्‍लागर.काम' इति संकेतं पूरयित्‍वा प्रवेश (इण्‍टर) पिंजं नोदयेत् ।  अनेन नूतनं पृष्‍ठं उद्घट्यते ।  यथा चित्रे दर्शितमस्ति - यदि भवत: पार्श्‍वे एका जालसूचिका पूर्वमेव अस्ति चेत् सामान्‍यतया सूचिकाम् उद्घाटयतु प्रयोक्‍तानाम एवं च गुप्‍तशब्‍दं प्रयोज्‍य ।  किन्‍तु यदि भवत: पार्श्‍वे इदानीं पर्यन्‍तम् एकापि सूचिका नास्ति चेत् सर्वतो उपरि दक्षिणभागे साइनअप इति नाम्‍ना श्रृखलां नोदयेत् ।  एषा श्रृंखला एकं नूतनं आवेदनपत्रम् उद्घाटयति, यत् पूरयित्‍वा सूचिकानियन्‍त्रणपटलं (ब्‍लाग कन्‍ट्रोल पैनल) निर्माप्‍यते ।

2- चित्रे प्रदत्‍तसूचना: यथा पूरिता: सन्ति तद्वदेव सूचना:…

कालिदासकृत रघुवंशमहाकाव्‍यस्‍य प्रथम: सर्ग:

कालिदासकृत रघुवंशमहाकाव्‍यस्‍य प्रथम: सर्ग: 

वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ । । १.१ । ।
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरं । । १.२ । ।
मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यतां ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः । । १.३ । ।
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः । । १.४ । ।
सोऽहं आजनमशुद्धानां आफलोदयकर्मणां ।
आसमुद्रक्षितीशानां आनाकरथवर्त्मनां । । १.५ । ।
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनां ।
यथापराधदण्डानां यथाकालप्रभोधिनां । । १.६ । ।
त्यागाय संभृतार्थानां सत्याय मितभाषिणां ।
यशसे विजिगीषुणां प्रजायै गृहमेन्धिनां । । १.७ । ।
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणां ।
वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजां । । १.८ । ।
रघूणां अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णं आगत्य चापलाय प्रचोदितः । । १.९ । ।
तं सन्तः श्रोतुं अर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । । १.१० । ।
वैवसतो मनुर्नाम माननीयो मनीषिणां…