कविराजविश्‍वनाथ:

 

साहित्‍यशास्‍त्रस्‍य सुप्रसिद्धविद्वान् 'कविराज' उपाधिधारी आचार्यविश्‍वनाथस्‍य नाम क: न जानाति साहित्‍यविश्‍वे ।  तस्‍य पितु: नाम चन्‍द्रशेखर: इति स: स्‍वयम् आत्‍मन: साहित्‍यदर्पणग्रन्‍थस्‍य दशमपरिच्‍छेदे वर्णितवानस्ति ।

''श्रीचन्‍द्रशेखर महाविचन्‍द्रसूनु-

श्रीविश्‍वनाथ कविराजकृतप्रबन्‍धम् ।।

साहित्‍यदर्पणममु सुधयोविलोक्‍य

साहित्‍यतत्‍वमखिलं सुखमेव वित्‍त ।।

अनेन श्‍लोकेन ज्ञायते यत् आचार्यस्‍य पिता श्रीचन्‍द्रशेखर: अपि एक: महाकवि: आसीत् ।  आचार्यविश्‍वनाथ: स्‍वपितु: द्वे रचने अपि उद्धृतवान् अस्ति ।

    1. पुष्‍पमाला
    2. भाषार्णव

आचार्यविश्‍वनाथस्‍य पितामह: नाम श्री नारायण: आसीत् ।  सोपि एक: उत्‍कृष्‍ट विद्वान् आसीत् ।  स: शास्‍त्रार्थे धर्मदत्‍त नामकं विद्वांसं पराजितमपि कृतवानासीत् ।  तस्‍यपितु: श्रीनारायणस्‍य एक: कनिष्‍ट: भ्राता श्री चण्‍डीदास: आसीत् ।  एषोपि संस्‍कृतस्‍य शीर्षस्‍थविद्वत्‍सु लब्‍धप्रतिष्‍ठ: आसीत् ।  अनेन प्रतीयते यत् विद्वत्‍वं, कवित्‍वं, ऐश्‍वर्यादिकं तु विश्‍वनाथं विरासते प्राप्‍तमासीत् ।  अतएव कलिंगराजेन तस्‍मै कविराज इति उपाधि: प्रदत्‍तमासीत् ।

कविराजविश्‍वनाथस्‍य पितामह उत्‍कलदेशस्‍य निवासी आसीत् ।  स: कलिंगनरेशस्‍य नरसिंहदेवस्‍य सन्धिविग्रहिक: (प्रधानमन्‍त्री) आसीत् ।  विश्‍वनाथस्‍य पुत्र: श्री चन्‍द्रशेखर: अपि निश्‍चयेन एव कलिंगराजस्‍य सभात: सम्‍बन्धित: आसीत् ।  एवमेव आचार्यविश्‍वनाथ: अपि कलिंगराज्येन सम्‍बन्धित: आसीत् इत्‍यपि स्‍पष्‍टं भवति ।

व्‍यक्तित्‍वं  - आचार्यविश्वनाथस्‍य पाण्डित्‍यं, व्‍यक्तित्‍वं सर्वं तस्‍य रचनासु दृष्‍यते ।  स: आत्‍मन: रचनासु आत्‍मन: विषये विविधान् विशेषणान् अपि प्रयुक्‍तवान् अस्ति, येन तस्‍य व्‍यक्तित्‍वं इतोपि स्‍वच्‍छं भवति ।  एतानि विशेषणानि निम्‍नलिखितानि सन्ति -

    1. श्रीनारायणचरणारविन्‍दमधुव्रतम्
    2. साहित्‍यार्णवकर्णधार:
    3. ध्‍वनिप्रस्‍थापनपरमाचार्य:
    4. कविसूक्तिरत्‍नाकर:
    5. अष्‍टादशभाषावारविलासिनीभुजंग:
    6. सन्धिविग्रहिक:
    7. आलंकारिकचक्रवती

एतेषां विशेषणानामतिरिक्‍तमपि तस्‍य अन्‍यकृतिषु विविधविशेषणानि प्राप्‍यन्‍ते ।  यथा -

1. संगीतविद्याविद्याधरकलाविद्यामालतीमधुकरविविधविद्याविद्यार्णवकर्णधार: ।

2. नाट्यशास्‍त्र दीक्षागुरु:

अस्‍य 'अष्‍टादशभाषावारविलासिनीभुजंग:' विशेषणम् अस्‍य 18 भाषाणां भाषाविद: सिद्धयति ।

स्थितिकाल: - आचार्यविश्‍वनाथ: साहित्‍यदर्पणस्‍य चतुर्थे परिच्‍छेदे दिल्‍लीसम्राट् अलाउद्दीनस्‍य विषये निम्‍नलिखितं लिखितवान् - ''अलाउद्दीननृपतौ न सन्धिर्न च विग्रह:'' ।

दिल्‍लीसुलतानअलाउद्दीनस्‍य काल: 1296ई. त: 1316 ई. आसीत् ।  अतएव आचार्यविश्‍वनाथस्‍य काल: तत: परमेव भवेत् ।  एतदरिक्‍तं साहित्‍यदर्पणस्‍य एका हस्‍तलिखिता प्रति: उपलब्‍धा अस्ति यस्‍य लेखनकाल: 1384 इति उल्लिखिति: अस्ति एतएव आचार्यविश्‍वनाथस्‍य स्थितिकाल: 14तमी शताब्‍दे: मध्‍यभाग: इति चिन्‍तयितुं शक्‍नुम: ।

कविराजविश्‍वनाथस्‍य कृतित्‍वम् -

आचार्यविश्‍वनाथस्‍य रचना: अधोलिखिता: सन्ति ।

    1. राघवविलास: (महाकाव्‍यम्)
    2. कुवलयाश्‍वचरितम् (प्राकृतकाव्‍यम्)
    3. चन्‍द्रकला (नाटिका)
    4. प्रभावती परिणयम् (नाटकम्)
    5. प्रशस्तिरत्‍नावली (16 भाषाणां करम्‍भक:)
    6. नरसिंहविजयम् (खण्‍डकाव्‍यम्)
    7. कंसवधम् (काव्‍यम्)
    8. साहित्‍यदर्पणम् (काव्‍यशास्‍त्रीयग्रन्‍थ:)
    9. काव्‍यप्रकाशदर्पणम् (काव्‍यप्रकाश-टीका)

एतेषां ग्रन्‍थाणामतिरिक्‍तं महाकवे: साहित्‍यदर्पणग्रन्‍थस्‍य षष्‍ठमे परिच्‍छेदे गद्यकाव्‍यस्‍य विवेचने वृत्तिगन्धिउत्‍कलिकाप्राय एवं च चूर्णकगद्यानाम् उदाहरणं प्राप्‍यते ।  अनेन एतत् सिद्धं भवति यत् विश्‍वनाथेन कश्चित् गद्यकाव्‍यमपि लिखितम् अस्ति, यत् सम्‍प्रति अनुपलभ्‍यते ।  सम्‍प्रति एतस्‍य रचनासु केवलं साहित्‍यदर्पणम् एवं च काव्‍यप्रकाशदर्पणम् एव उपलभ्‍यते ।

इति ......

टिप्पणियाँ

  1. साधु कार्यम्‌ ! प्रशंसां अर्हति !अनन्त कुलकर्णी ,पुणे ,महाराष्ट्र .

    उत्तर देंहटाएं

एक टिप्पणी भेजें

अपने सुझाव, समाधान, प्रश्‍न अथवा टिप्‍पणी pramukh@sanskritjagat.com ईसंकेत पर भेजें ।

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .