दादा साहब फाल्‍के

दादासाहबफाल्‍के 23 अप्रैल 1870 ईसवीये ख्रीस्‍ताब्‍दे नासिकस्‍य पार्श्‍वे त्र्यम्‍बकेश्‍वरे जन्‍मं प्राप्‍तवान् ।  तस्‍य पिता एक: शास्‍त्री आसीत् ।  अनन्‍तरं स: मुंबईनगरस्‍य विल्‍सनकॉलेज इति विद्यालये पाठनं प्रारभत् ।

दादासाहबफाल्‍केवर्यस्‍य बाल्‍यकालस्‍य नाम धुंडीराज फाल्‍के आसीत् ।  स: मुंबईनगरस्‍य जे.जे.स्‍कूल ऑफ आर्ट्स एवं च बडौदाप्रदेशस्‍य कलाभवनत: अध्‍ययनं कृतवान् आसीत् ।

युवावस्‍थायां स: चित्रकर्षणं (फोटोग्राफी), नाटकेषु मंचसज्‍जा, एवं च 1903 ईसवीये सर्वकारीयसंस्‍थायां सेवा अपि कृतवान् यत् स्‍वदेशीआन्‍दोलनेन प्रभावितं भूत्‍वा त्‍यक्‍तवान् ।  सहभागितायां स: ब्‍लाक मेकिंग एवं च चित्रकषर्णं आरब्‍धवान् ।  1909 ईसवीये स: जर्मनीत: मुद्रणयन्‍त्रम् (छपाईमशीन) अपि आनीतवान् ।  एतस्‍य एव सहभागस्‍य (पार्टनरशिप) विच्‍छेदनेन तस्‍य रुचि: सिनेमाजगति अभवत् ।

भारतस्‍य प्रथमं चलचित्रं 'राजा हरिश्‍चन्‍द्र' - फाल्केमहोदय: प्रारम्‍भे लक्ष्‍मी आर्ट प्रिंटिंग प्रेस चालयन् आसीत् सहभागितायाम् ।  सहभागविच्‍छेदनेन स: निर्विकल्‍प: संजात: ।  तस्मिन् समये (15 अप्रैल, 1911) एव स: 'द अमेरिका इण्डिया सिनेमाटोग्राफ' इत्‍यस्मिन् चित्रमंदिरे प्रथमवारं चलचित्रदर्शनस्‍य लाभं प्राप्‍तवान् ।  चलचित्रम् ईसामसीहस्‍य जीवने आ‍धारितम् आसीत् ।  तस्‍य नाम ' द लाइफ आफ क्राइस्‍ट' आसीत् ।  प्रथमवारं स: दोलितानि चित्राणि दृष्‍टवान् ।  स: निर्धारितवान् यत् भारते अपि राम-कृष्‍णस्‍य जन्‍मस्‍योपरि स: चलचित्राणि प्रकाशयिष्‍यति ।

प्रारम्भिकप्रयत्‍नानि - इंग्लैण्‍डत: स: चलचित्रसम्‍बन्धितानि पुस्‍तकानि, सूची-पत्राणि, उपकरणा‍दिकानि आनीतवान् एवं च अनवरतं चलचित्रदर्शनं, पुस्‍तकानामध्‍ययनम् आरब्‍धवान् ।  प्रतिदिनं स: केवलं 3 होरा (घंटा) एव शयनं कृतवान् येन तस्‍य नेत्रयो: समस्‍या आगता ।  अत्‍यन्‍तं चिकित्‍साकार्यस्‍य अनन्‍तरमेव तस्‍य नेत्रे पुन: प्राप्‍तुमं शक्‍यमभवताम् ।

1912 ईसवीये स: एकेन मित्रेण सहायतां प्राप्‍य लन्‍दनं प्रति गतवान् एवं च बायोस्‍कोप इत्‍यस्‍य साप्‍ताहिकअखबारपत्रस्‍य ग्राहकत्‍वं स्‍वीकृत्य तस्‍य सम्‍पादकेन कार्बोन महोदयेन मिलितवान् ।  अष्‍टदिवसपर्यन्‍तं तेन सह विमर्शं कृत्‍वा अनन्‍तरं एकसप्‍ताहस्‍य पाठ्यक्रममपि (कोर्स) कृतवान् ।  अप्रैल 1912 ईसवीये स: आत्‍मना सह विलियमसन कैमरा, प्रिंटिंग एवं प्रोसेसिंग मशीन, एवं च कच्‍ची निगेटिव फिल्‍म स्‍वीकृत्‍य स: गृहं प्रति आगतवान् ।

भारतं प्रत्‍यागत्‍य तस्‍य वास्‍तविकी परीक्षा आरब्धा ।  प्रथमं स्‍वदेशीचलचित्रं निर्मातुं केनचिदपि धनं न प्रस्‍तुतम् ।  अनन्‍तरं दादामहोदयेन 'मटर के पौधे का विकास' इति चलचित्रं निर्मीय तस्‍य चित्रांकनं मासेभ्‍य: कृतम् ।  तेन् तस्‍य एकं मित्रं तस्‍य चलचित्रे धनं योजयितुं स्‍वीकृति: दत्‍तवान् ।

विषयवस्‍तु निर्धारणम् - ईसामसीहस्‍य जन्‍मकथां चलचित्रे दृष्‍ट्वा दादामहाभागस्‍य मनसि तु आसीत् भगवत: रामस्‍य, कृष्‍णस्‍य वा जन्‍मविषयकं चित्रं निर्मातुम् ।  किन्‍तु स: विचारं कृतवान् यत् एतयो: महापुरुषयो: जीवनवृत्‍तं द्विघण्‍टात्‍मके च‍लचित्रे संयोजितुं शक्‍यं नास्ति ।  अतएव स: एकां तादृशी कथां चेतुं मन: कृतवान् येन सामान्‍यभारतीया: परिचिता: स्‍यु: ।  तदनन्‍तरं स: राजा हरिश्‍चन्‍द्रस्‍य जीवनवृत्तिं स्‍वीकृतवान् ।

धनव्‍यवस्‍थां कर्तुं काकी फाल्‍के आत्‍मन: आभूषणानि विक्रीतवती - चलचित्रस्‍य निर्माणे इदानीमपि बहव्‍य: समस्‍या: आसन् ।  तासु प्रथमा समस्‍या पात्राणाम् आसीत् ।  तस्मिन् काले नाटकमेव सभ्‍यजनानां कार्यं न मन्‍यन्‍ते स्‍म, पुन: तु स्‍त्रीपात्राणां व्‍यवस्‍था विषये तु केपि अग्रे नैव आगतवन्‍त: ।  दादाफाल्‍केमहोदयेन विज्ञापनमपि दत्‍तं किन्‍तु उपलब्धि: नैवाभवत् ।  अनन्‍तरं सालुंके इति नामकेन एकेन परिवेशकेन (वेटर) रानी तारामती पात्रम् अंगीकृतम् ।  राजा हरिश्‍चन्‍द्रस्‍य पात्रं दत्‍तात्रेय दूबे वर्येण कृतम् ।  एकस्‍या: इतोपि महिलाया: पात्रं गणपत शिंदे नामकेन पुरुषेण कृतम् ।  श्री‍हरिश्‍चन्द्रस्‍य पुत्रस्‍य रोहितस्‍य पात्रं कर्तुमपि सा एव समस्‍या आगता ।  नाटके रोहितस्‍य मृत्‍यु भवति अतएव केनचित् अपि आत्‍मन: पुत्र न प्रदत्‍त: ।  अनन्‍तरं दादासाहबफाल्‍के वर्येण आत्‍मन: पुत्रं भालचन्‍द्राय एतत् पात्रं समर्पितम् ।

धनस्‍य अभाव: तु काकी फाल्‍के द्वारा निर्वापित: ।  सा आत्‍मन: आभूषणानि विक्रीतवती ।  एवं विधा अस्‍य चलचित्रस्‍य धनव्‍यवस्‍था जाता ।  अग्रे अस्‍माकं चलचित्रजगति बहुधा इयं घटना बहुषु चलचित्रेषु चित्रांकिता ।

निर्मितं प्रथमं भारतीय चलचित्रम् – विविधबाधानन्‍तरम् अन्‍तत: फाल्‍के महोदयने चतुर्षु रील मध्‍ये (4 रील) 2944 फीट विस्‍तृतं (लम्‍बी) चलचित्रं 'राजा हरिश्‍चन्‍द्रस्‍य पौराणिकी कथा' (राजा हरिश्‍चन्‍द्र की पौराणिक कथा) इत्‍यस्‍य निर्माणं जातम् ।  अस्‍य नामपरिवर्तनं कृत्‍वा अनन्‍तरं 'राजा हरिश्‍चन्‍द्र' इति कृतम् ।  21 अप्रैल 1913 ख्रीस्‍ताब्‍दे एतत् चलचित्रं मुंबईनगरस्‍य ओलंपिया थियेटर मध्‍ये अतिथीनां सम्‍मुखे प्रस्‍तुतम् ।  3 मई 1913 ख्रीस्‍ताब्‍दे शनिवासरे एतत् चित्रं सामान्‍यजनानां कृते प्रकाशितम् ।  अस्‍य चित्रस्‍य समीक्षा 5 मई 1913 ख्रीस्‍ताब्‍दे मुंबईनगरस्‍य 'बांबे क्रानिकल' वार्तापत्रे प्रकाशितम् ।  'कोरोनेशन थिएटर' मध्‍ये एतत् चलचित्रम् अनवरत् 23दिवसपर्यन्‍तं प्राचलत् ।

योगदानम् - 'राजा हरिश्‍चन्‍द्र' चलचित्रं निर्माय फाल्केमहोदयेन भारतीयचलचित्रस्‍य आधारनिर्माणं कृतम् ।  अतदनन्‍तरं तेन भस्‍मासुर मोहिनी, सत्‍यवान सावित्री, लंका दहन इत्‍यादि चलचित्राणां निर्माणमपि आत्‍मन: 'फाल्के फिल्‍म्स कम्‍पनी' द्वारा कृतम् ।  1914 ख्रीस्‍ताब्‍दे लंदनत: विभिन्‍न‍ चलचित्रकाराणाम् आमन्‍त्रणमपि प्राप्‍तं तेषां कृते कार्यं कर्तुं किन्‍तु राष्‍ट्रभावनाभावितेन फाल्‍केमहोदयेन तेषामामन्‍त्रणम् अनंगीकृतम् ।

लीलासमापनम् - 1931 ख्रीस्‍ताब्‍दे तस्‍य अंतिममूकचलचित्रं 'सेतुबन्‍धन' आगतम् ।  अस्मिन् वर्षे एव निर्देशक: आर्देशिर एम. ईरानी महोदयेन भारतस्‍य प्रथमध्‍वनिचलचित्रं 'आलम आरा' प्रकाशितम् ।  दादा साहेब फाल्‍के वर्येण 1934 ख्रीस्‍ताब्‍दे कोल्‍हापुर सिनेटोन कृते आत्‍मन: प्रथममन्तिमं च ध्‍वनिचलचित्रं (बोलतीफिल्‍म) 'गंगावतरण' निर्मितम् ।

16 फरवरी 1944 ख्रीस्‍ताब्‍दे नासिकशहरे एव स: दिवंगत: ।  1969 ईसवीये भारतीयसर्वकारेण दादासाहेबफाल्‍केपुरस्‍कारं घोषितं यत् प्रतिवर्षे चलचित्रजगत: सर्वश्रेष्‍ठजनं प्रदीयते ।  भारतीयचित्रजगत: अयं सम्‍मानं सर्वोच्‍चसम्‍मानं मन्‍यते अद्यापि ।  इति .......

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .