अक्षयतृतीया

 

अक्षय तृतीया उत आखा तीज वैशाखमासे शुक्लपक्षस्‍य तृतीया तिथिं कथ्‍यते ।  पौराणिकग्रन्‍थानाम् अनुसारम् अस्मिन् दिवसे यानि कार्याणि कृयन्‍ते तेषामुत्‍तमं फलं लभ्‍यते एतदर्थमेव एतत् अक्षयतृतीया इति कथ्‍यते ।  एवं तु सर्वेषां द्वादशमासानां शुक्‍लपक्षस्‍य तृतीयातिथि: शुभं भवति किन्‍तु वैशाख मासस्‍य एषा तिथि: स्‍वयंसिद्धतिथि: मन्‍यते ।  भविष्‍यपुराणस्‍य अनुसारम् अस्‍या: तिथे: युगादितिथिषु गणनां कृयते ।  सतयुगत्रेताभ्‍याम् आरम्‍भ: एतस्‍यां तिथौ एव जातमासीत् ।  भगवत: विष्‍णो: अस्मिन् एव तिथौ नर-नारायण, हयग्रीव एवं च परशुराम रूपेण अवतार: जात: ।  अस्मिन् दिवसे एव बद्रीनाथभगवत: प्रतिमां संस्‍थाप्‍य तस्‍य पूजार्चनं कृयते एवं च भगवत: लक्ष्‍मीनारायणस्‍य दर्शनमपि कृयते ।  प्रसिद्धतीर्थस्‍थलं बद्रीनारायणस्‍य कपाटमपि अस्यां तिथौ एव उद्घट्यते ।  वृंदावने स्थितस्‍य श्रीबांकेबिहारी जी मंदिरे भगवत: श्रीविग्रह: चरणयो: दर्शनं अस्मिन् दिवसे एव भवति, अनन्‍तरं सम्‍पूर्णे वर्षे भगवत: पादौ वस्‍त्रेण आवृतौ भवत: ।  अस्मिन् दिवसे एव महाभारतस्‍य युद्धस्‍य समापनं जातमासीत् एवं च द्वापरयुगस्‍य समापनमपि अस्मिन् दिवसे एव जातमासीत् ।  पद्मपुराणस्‍य अनुसारेण एषा तृतीया अपराह्नव्‍यापिनी अस्ति ।  धर्मसिन्‍धु:, निर्णयसिन्‍धु: ग्रन्‍थयो: अनुसारं अक्षयतृतीया ६ घटीत: अधिका भवेत् ।

मदनरत्नस्‍य अनुसारम्

“अस्यां तिथौ क्षयमुर्पति हुतं न दत्तं । तेनाक्षयेति कथिता मुनिभिस्तृतीया ॥

उद्दिष्य दैवतपितृन्क्रियते मनुष्यैः । तत् च अक्षयं भवति भारत सर्वमेव ॥„

अक्षयतृतीया सर्वार्थसिद्धिरूपेण मन्‍यमाना तिथिरस्ति ।  एवमपि क्‍थ्‍यते यत् अस्यां तिथौ कंचिदपि मांगलिकविवाहादिकार्यं पंचांगदर्शनेन विनापि आरब्‍धुं, सम्‍पादयितुं वा शक्‍यन्‍ते ।  अस्मिन् दिवसे पितरेभ्‍य: दत्‍तं पिण्‍डदानं विशिष्‍टफलकरं भवति ।  अस्मिन् दिवसे गंगायां स्‍नानान्‍तरं भगवत: पूजनेन सम्‍पूर्णपापकर्माणां नाशनं भवति ।  अस्मिन् दिवसे कृतानि तपाचरणानि, स्‍वाध्‍याया: इत्‍यादया: अपि अक्षय: भवन्ति ।  एषा तिथि: यदि सोमवासरे अथ च रोहिणीनक्षत्रे आगच्‍छेत् चेत् अस्‍य प्रभाव: इतोपि वर्धते ।

अस्‍यां तिथौ भगवत: लक्ष्‍मीनाराणस्‍य उपासनां स्‍वेतपुष्‍पेभ्‍य: कृयेत् ।

“सर्वत्र शुक्ल पुष्पाणि प्रशस्तानि सदार्चने ।

दानकाले च सर्वत्र मंत्र मेत मुदीरयेत् ॥„

अस्‍यां तिथौ एव वि‍वाहादिमांगलिककार्याणाम् आरम्‍भ: भवति ।  अक्षयतृतीयाया: अनेका: कथा: अपि प्रचलिता: सन्ति ।  एकस्‍या: कथाया: अनुसारम् - प्राचीनकाले कश्मिश्चित् नगरे एक: धर्मदासनामक: वैश्‍य: आसीत् ।  तस्‍य देवतासु, ब्राह्मणेषु पर्याप्‍तश्रद्धा आसीत् ।  स: एतस्‍य व्रतस्‍य माहात्‍म्यं श्रुत्‍वा गंगायां स्‍नानादिकं कृत्‍वा भगवत: पूजार्चनं कृतवान् ।  तस्मिन् दिवसे एव बहूनि वस्‍तूनि ब्राह्मणेभ्‍य: प्रददात् ।  रोगग्रस्‍त: सन् अपि तेन उपवासस्‍य विधिवत् पालनं कृतम् ।  एष: एव वैश्‍य: अग्रिमे जन्‍मे कुशावतीनगरस्‍य राजा अभूत् ।  स: तावत् प्रतापी अभवत् यत् तस्‍य राजदरबारे अक्षयतृतीयाया: अवसेर त्रिदेवा: अपि ब्राह्मणवेशं स्‍वीकृत्‍य यज्ञे सम्मिलिता: अभवन् ।  स: आत्‍मन: श्रद्धाभक्तिधनादिकस्‍योपरि कदापि गर्वं न कृतवान् ।  अनेनेव स: अग्रिमजन्‍मे पुन: चन्‍द्रगुप्‍त इति नामकस्‍य राजा अभवत् ।

स्‍कन्‍दपुराणे एवं च भविष्‍यपुराणे उल्लिखित: अस्ति यत् अस्मिन् एव अवसरे भगवत: विष्‍णो: जन्‍म रेणुकागर्भात् परशुरामरूपेण अभवत् ।  कोंकण, चिप्‍लून च मंदिर्यो: एतां तिथिं परशुरामजयंतीरूपेण मोदयन्‍ते ।  दक्षिणभारते परशुरामजयन्‍ती विशिष्‍टं महत्‍वं वहति ।

जैनधर्मे अपि अस्‍य धार्मिकमहत्‍वं विशिष्‍टमेव ।  अस्मिन् दिवसे एव जैनधर्मस्‍य प्रथम‍तीर्थंकर: श्रीआदिनाथ: एकवर्षस्‍य तपस्‍यां समाप्‍य पारायणं कृतवान् ।  श्रीआदिनाथ: संसारस्‍य भौतिकं सुखं त्‍यक्‍त्‍वा सत्‍यअहिंसाधर्माणां प्रचारं कुर्वन् हस्तिनापुरस्‍य गजपुरं प्रति गतवान् यत्र अस्‍यैव पौत्रस्‍य सोमयशस्‍य शासनमासीत् ।  तस्‍य दर्शनाय सम्‍पूर्णं नगरं मार्गे आगतम् ।  सोमयशस्‍य पुत्र: राजकुमारश्रेयांस: श्रीआदिनाथं अवगम्‍य तत्‍क्षणमेव इक्षुरसं दत्‍तवान् ।  तेन एव आदिनाथ: व्रतस्‍य पारायणं कृतवान् ।

भारतस्‍य विभिन्‍नप्रान्‍तेषु अक्षयतृतीया सोत्‍साहेन मोदयते ।  बुंदेलखण्‍डे अक्षयतृतीयात: पूर्णिमापर्यन्‍तम् उत्‍सवम् आयोजयन्ति ।  अस्मिन् कुमारीकन्‍या: आत्‍मन: भ्रातरं, कुटुम्‍बं, ग्राम्‍यजनं प्रति शगुनावन्‍टनं कुर्वन्‍ती नृत्‍यन्ति ।  राजस्‍थानराज्‍ये अस्मिन् दिवसे एव वर्षाया: कृते शगुननिस्‍सारणं कुर्वन्ति ।  मालवायां नूतनघटस्‍योपरि फलं संस्‍थाप्‍य पल्‍लवं च स्‍थाप्‍य पूजार्चनं कुर्वन्ति ।  एवं मन्‍यन्‍ते यत् अनेन कृषका: कृषि: च समृद्धिं प्राप्नुवन्ति ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .