रघुवंशे पञ्चमः सर्गः


तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं ।
उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः । । ५.१ । ।
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घ्यशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिं आतिथेयः । । ५.२ । ।
तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजं आरात्कृताञ्जलिः कृत्यविदित उवाच । । ५.३ । ।
अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानं अशेषं आप्तं लोकेन चैतन्यं इवोष्णरश्मेः । । ५.४ । ।
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययं अन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तथ् । । ५.५ । ।
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदं आश्रमपादपानां । । ५.६ । ।
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणां अनघा प्रसूतिः । । ५.७ । ।
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितःणां ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चिथ् । । ५.८ । ।
नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चिथ् ।
कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः । । ५.९ । ।
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमं आश्रमं ते । । ५.१० । ।
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्मां । । ५.११ । ।
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारां अपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तं इत्यवोचद्वरतन्तुशिष्यः । । ५.१२ । ।
सर्वत्र नो वार्त्तं अवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानां ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा । । ५.१३ । ।
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे ।
व्यतीतकालस्त्वहं अभ्युपेतस्त्वां अर्थिभावादिति मे विषादः । । ५.१४ । ।
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः । । ५.१५ । ।
स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः । । ५.१६ । ।
तदन्यतस्तावदनन्यकार्यो गुर्वर्थं आहर्तुं अहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि । । ५.१७ । ।
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तं अन्वयुङ्क्त । । ५.१८ । ।
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतं आचचक्षे । । ५.१९ । ।
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिं एवागणयत्पुरस्ताथ् । । ५.२० । ।
निर्बन्धसंजातरुषार्थकार्श्यं अचिन्तयित्वा गुरुणाहं उक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीष्चतस्रो दश चाहरेति । । ५.२१ । ।
सोऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषं ।
अभ्युत्सहे संप्रति नोपरोद्धुं अल्पेतरत्वाच्छ्रुतनिष्क्रयस्य । । ५.२२ । ।
इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः । । ५.२३ । ।
गुर्वर्थं अर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामं ।
गतो वदायान्तरं इत्ययं मे मा भूत्परीवादनवावतारः । । ५.२४ । ।
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुं अर्हन्यावद्यते साधयितुं त्वदर्थं । । ५.२५ । ।
तथेति तस्य्ऽ आवितथं प्रतीतः प्रत्यग्रहीत्संगरं अग्रजन्मा ।
गां आत्तसारां रघुरप्यवेक्ष्य निष्कष्टुं अर्थं चकमे कुबेराथ् । । ५.२६ । ।
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य । । ५.२७ । ।
अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भं ।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः । । ५.२८ । ।
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः ।
हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः । । ५.२९ । ।
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानाथ् ।
दिदेश कौतस्य समस्तं एव पादं सुमेरोरिव वज्रभिन्नं । । ५.३० । ।
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतां अभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनीःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च । । ५.३१ । ।
अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः ।
स्पृषन्करेणानतपूर्वकायं संप्रस्थितो वाचं उवाच कौत्सः । । ५.३२ । ।
किं अत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानां ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा । । ५.३३ । ।
आशास्यं अन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तं ईडं भवतः पितेव । । ५.३४ । ।
इत्थं प्रयुज्याशिषं अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशं ।
राजापि लेभे सुतं आशु तस्मादालोकं अर्कादिव जीवलोकः । । ५.३५ । ।
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारं ।
अतः पिता ब्रह्मण एव नाम्ना तं आत्मजन्मानं अजं चकार । । ५.३६ । ।
रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकं उन्नतत्वं ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपाथ् । । ५.३७ । ।
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तं ।
श्रीर्गन्तुकामापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष । । ५.३८ । ।
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः । । ५.३९ । ।
तं श्लाघ्यसंबन्धं असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रं ।
प्रस्थापयां आस ससैन्यं एनं ऋद्धां विदर्भाधिपराजधानीं । । ५.४० । ।
तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः । । ५.४१ । ।
स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयां आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यं । । ५.४२ । ।
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौत दानामलगण्डभित्तिर्यन्यः सरित्तो गज उन्ममज्ज । । ५.४३ । ।
निःशेषविक्षालितधातुनापि वप्रक्रियां ऋक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन । । ५.४४ । ।
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दं ।
बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः । । ५.४५ । ।
स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दं ।
संवर्धितार्त्धप्रहितेन दीर्घान्चिक्षेप वारीपरिघानिवोर्मीन् । । ५.४५* । ।
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चाथ् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटं उत्ससर्प । । ५.४६ । ।
कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः ।
कर्षन्स शैवाललता नदीषः स्कन्धावलग्नास्तटं उत्ससर्प । । ५.४६* । ।
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः । । ५.४७ । ।
सप्तच्छदक्षीरकटुप्रवाहं असह्यं आघ्राय मदं तदीयं ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः । । ५.४८ । ।
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार । । ५.४९ । ।
तं आपतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः । । ५.५० । ।
स विद्धमात्रः किल नागरूपं उत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्य्ॐअचरं प्रपेदे । । ५.५१ । ।
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः । । ५.५२ । ।
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वं ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य । । ५.५३ । ।
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतां अगच्छथ् ।
उष्णत्वं अग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य । । ५.५४ । ।
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भं अय्ॐउखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्मां । । ५.५५ । ।
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः । । ५.५६ । ।
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रं ।
गान्धर्वं आधत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते । । ५.५७ । ।
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभुः प्रहरन्नपि त्वं ।
तस्मादुपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यं । । ५.५८ । ।
तथेत्युपस्पृश्य पयः पवित्रं स्ॐओध्बवायाः सरितो नृस्ॐअः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापाथ् । । ५.५९ । ।
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यं अचिन्त्यहेतु ।
एको ययौ चैत्ररथपदेशान्सौराज्यरम्यानपरो विदर्भान् । । ५.६० । ।
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली । । ५.६१ । ।
प्रवेश्य चैनं पुरं अग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भं आगन्तुं अजं गृहेशं । । ५.६२ । ।
तस्य्ऽ आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भां ।
मेने यथा तत्र जनः समेतो बाल्यात्परां इव दशां मदनोऽध्युवास । । ५.६३ । ।
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयं अजस्य लिप्सोः ।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव । । ५.६४ । ।
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागं ।
सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्नुषसि वाग्भिरुदारवाचः । । ५.६५ । ।
रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तां एकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी । । ५.६६ । ।
निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वं अबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः । । ५.६७ । ।
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परपरतुलां अधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारं अन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मं । । ५.६८ । ।
वृन्ताच्छ्लथं हरति पुष्पं अनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः सौरभ्यं ईप्सुरिव ते मुखमारुतस्य । । ५.६९ । ।
ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः ।
आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयं । । ५.७० । ।
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तं ।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयं उच्छिनत्ति । । ५.७१ । ।
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोषाः । । ५.७२ । ।
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः । । ५.७३ । ।
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः ।
अयं अपि च गिरं नस्त्वत्प्रबोधप्रयुक्तां अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः । । ५.७४ । ।
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पं उज्झां चकार ।
मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः । । ५.७५ । ।
अथ विधिं अवसाय्य शास्त्रदृष्टं दिवसमुखोचितं अञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेषः क्षितिपसमाजं अगात्स्वयंवरस्थं । । ५.७६ ।

इति कालिदासविरचिते रघुवंशे पञ्चमः सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

फलानि ।।

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी