संदेश

May, 2012 की पोस्ट दिखाई जा रही हैं

कठोपनिषद्

कृष्‍णयजुर्वेदस्‍य कठशाखायांप्राप्‍यते अयं ग्रन्‍थ: । अयं ग्रन्‍थ: द्वयो: अध्‍यायो: विभ‍क्‍त: अस्ति । अध्‍याययो: अवान्‍तरविभाजनं पुन: वल्‍लीषु कृतमस्ति । प्रत्‍येकस्मिन् अध्‍याये वल्‍लीनां संख्‍या 3 अस्ति । अनेन प्रकारेण अस्मिन् ग्रन्‍थे द्वौ अध्‍यायौ, षड वल्‍लय: च सन्ति । अस्‍य उपनिषदस्‍य मुख्‍यप्रतिपाद्यविषय:अग्निचयनविद्या (ब्रह्मविद्या) अस्ति । अस्मिन् एव ग्रन्‍थे प्रसिद्ध 'यम-नचिकेता आख्‍यानम्' प्राप्‍यते । आख्‍यानसंक्षेप: - नचिकेताया: पिता 'उद्दालकमुनि:' एकं विश्‍वजितनामकं यज्ञं साधितवान् ।  तस्मिन् यज्ञे आत्‍मन: सर्वं धनं देयं भवति ।  उद्दालकेन तु दानस्‍य कृते केवलं तत् गोधनमेव प्रदत्‍तं यत् जनानां कार्यस्‍य नासीत् ।  गाव: वृद्धा अभवन् ता: दुग्‍धं दातुमपि शक्‍ता: न ।  एतत् सर्वं दृष्‍ट्वा नचिकेता पितु: पार्श्‍वे गत्‍वा अपृच्‍छत् ।  पिता अहमपि भवत: धनमेव, मह्मय कस्‍मै प्रयच्‍छति ।  स: द्विधा, तृधा च अपृच्‍छत् ।  अनेन क्रुध्द: पिता तुभ्‍यं मृत्‍यवे ददामि इति उक्‍तवान् । 
नचिकेता सम्‍प्रति यमस्‍य विषय: आसीत् अत: स: यमस्‍य गृहं प्रति गतवान् ।  तत्र यम: नासीत् अत: स: त्…

मुण्‍डकोपनिषद्

अथर्ववेदीय मुण्‍डकोपनिषद् सम्‍पूर्ण त्रिषु मुण्‍डकेषु विभक्‍तमस्ति ।  खण्‍डानां पुन: अवान्‍तरविभाजनं खण्‍डेषु अस्ति ।  एवं विधा सम्‍पूर्णमुण्‍डकोपनिषदे त्रय: मुण्‍डका:, षड् खण्‍डा: च सन्ति ।  स्‍वनामानुरूपेण एव अयं ग्रन्‍थ: मुण्‍डनसम्‍पन्‍नसन्‍यासीनां कृते अस्ति ।  अस्‍यान्‍तर्गते ब्रह्मणा स्‍वज्‍येष्‍ठपुत्राय अथर्वाऋषिकृते ब्रह्मविद्याया: उपदेश: कृत: अस्ति ।  अत्र कर्मकाण्‍डस्‍य हीनता एवं च ब्रह्मज्ञानस्‍य श्रेष्‍ठताया: वर्णनमस्ति ।द्वैतवादस्‍य प्रधानस्‍तम्‍भभूतं - 'द्वा सुपर्णासयुजा' 3/1/1 मन्‍त्र: अस्‍यैव उपनिषदस्‍य कथनम् ।  'वेदान्‍त' 3/2/6शब्‍दस्‍य अपि प्रथम: प्रयोग: अस्मिन् एव उपनिषदे प्राप्यते । इति ....

केनोपनिषद्

चित्र
अस्‍य उपनिषदस्‍य प्रथममन्‍त्र: 'केनेषितं पतति' इति अस्ति ।  अतएव इयम् उपनिषद: केनोपनिषद् इति नाम्‍ना अभिधीयते ।  अस्‍य उपनिषदस्‍य अपरं नाम 'तवलकारोपनिषद्' इत्‍यपि अस्ति ।एष: सम्‍पूर्ण ग्रन्‍थ: चतुर्षु खण्‍डेषु विभक्‍त: अस्ति ।  प्रथम खण्‍डे उपास्‍य ब्रह्मन् एवं च निर्गुणब्रह्म मध्‍ये भेद:, द्वितीयखण्‍डे ब्रह्मण: रहस्‍यमयस्‍वरूपस्‍य संकेत:, तृतीये-चतुर्थे च खण्‍डे उमा-हैमवत्‍य: रोचकआख्‍यनमाध्‍यमेन परब्रह्मण: सर्वशक्तिमत्‍ता अथ च देवानाम् अल्‍पश‍क्तिमत्‍ताया: सुन्‍दरनिदर्शनम् अस्ति ।इति

ईशावास्‍योपनिषद्

चित्र
उपनिषत्‍सु सर्वता प्राचीना, महत्‍वपूर्णाश्‍च अस्ति इयम् ।  यजुर्वेदस्‍य माध्‍यन्दिनिशाखाया: 40तम: अध्‍याय: ईशावास्‍योपनिषद् उत ईशोपनिषद् नाम्‍ना अभिधीयते ।  अस्‍य प्रथम: मन्‍त्र: 'ईशावास्‍यमिदं सर्वं' इति अस्ति; अस्‍य मन्‍त्रस्‍य प्राक् शब्‍दमाधृत्‍य अस्‍य उपनिषदस्‍य नामकरणं जातमस्ति अतएव अस्‍य नाम ईशावास्‍योपनिषद् इति अस्ति ।अस्मिन् उपनिषदे केवलं 18 मन्‍त्रा: सन्ति ।  किन्‍तु एते 18 मन्‍त्रा: श्रीमद्भगवद्गीताया: 18 अध्‍यायसदृशं गौरवं वहन्ति ।  एतेषु 18 मन्‍त्रेषु कर्मोपासनाया: मार्मिक विवेचनम् अस्ति एवं च अद्वैतभावस्‍य सुस्‍पष्‍टवर्णनं कृतमस्ति ।  अत्र ब्रह्मण: स्‍वरूपविवेचनात् परं विद्या-अविद्या, तथा सम्‍भूति-असम्‍भूति विषयस्‍य विवेचनं प्राप्‍यते ।एकस्मिन् मन्‍त्रे आत्‍महत्‍याया: विरोध:, तस्‍य दण्‍डविधानं च अस्ति ।  असुर्या नाम ते लोका, अन्‍धेन तमसावृतातान्‍स्‍ते प्रेत्‍याभिगच्‍छन्ति ये के चात्‍महनो जना: ।।समग्रउपनिषदे जीवनस्‍य सारतत्‍वं प्रकटितमस्ति ।  अतएव इदम् उपनिषदं सर्वाषु उपनिषत्‍सु सर्वप्रमुखं, सर्वप्राचीनं च मन्‍यन्‍ते । इति ।

प्रमुखा: उपनिषद्ग्रन्‍था:

चित्र
प्रमुखोपनिषत्‍सु यथा पूर्वमेवोक्‍तम् - आचार्यशंकरेण 10 उपनिषदानामुपि भाष्‍यं प्राप्‍यते, अथ च त्रयाणामुपनिषदानाम् उल्‍लेख: तेन आत्‍मन: भाष्‍ये कृतमस्ति ।  एवं विधा एते त्रयोदशग्रन्‍था: एव प्रमुखोपनिषत्‍सु गण्‍यन्‍ते ।  एताषाम् उपनिषदानां नामानि सन्ति -1. ईशावास्‍योपनिषद्, 2. केनोपनिषद्, 3. कठोपनिषद्, 4. प्रश्‍नोपनिषद्, 5. मुण्‍डकोपनिषद्, 6. माण्‍डूक्‍योपनिषद्, 7. ऐतरेयोपनिषद्, 8. तैत्तिरीयोपनिषद्, 9. छान्‍दोग्‍योपनिषद्, 10. बृहदारण्‍यकोपनिषद्एताषामुपरि शंकराचार्यस्‍य भाष्‍यं प्राप्‍यते ।
11. श्‍वेताश्‍वतरोपनिषद्, 12. कौषीतकिउपनिषद्, 13. मैत्रायणी उपनिषद्एताषां त्रयाणां तेन उल्‍लेख: भाष्‍ये कृत: अस्ति ।
एताषाम् उपनिषदानाम् अतिरिक्‍तमपि काश्‍चन् उपनिषदा: प्रामुख्‍यं भजन्‍ते ।  एतासु 1. महानारायणोपनिषद् (याज्ञिक्‍युपनिषद्), 2. बाष्‍कलमन्‍त्रोपनिषद्, 3. आर्षेयोपनिषद् 4. शौनकोपनिषद्चादय: सन्ति ।
इति ।

प्रश्‍नोपनिषद्

इयमुपनिषद: अथर्ववदीय ब्राह्मणभागस्‍य अन्तर्गतम् आगच्‍छति ।  शंकराचार्यानुसारं - 'मुण्‍डकोपनिषदे उक्‍ततथ्‍यानां विवेचनमेव 'प्रश्‍नोपनिषद्' इति अस्ति ।  - ''मन्‍त्रोक्‍तस्‍यार्थस्‍य विस्‍तरानुवादीदं ब्राह्मणमारभ्‍यते'' ।प्रश्‍नोपनिषद् सम्‍पूर्ण 6 खण्‍डेषु विभक्‍तमस्ति ।  अस्‍य प्रत्‍येक: खण्‍ड: प्रश्‍ननाम्‍ना एव अभिधीयते ।आख्‍यानस्‍य संक्षेप: - सुकेशा, सत्‍यकाम, सौर्यायणि, अश्‍वलकुमार, विदर्भदेशीय भार्गव तथा च कबन्‍धी एते षड ऋषय: मिलित्‍वा म‍हर्षिपिप्‍पलादस्‍य समीपं गत्‍वा प्रश्‍नान् अपृच्‍छन् ।तेषां प्रश्‍नानां समुचितमुत्‍तरं दत्‍वा महर्षि: तान् सन्‍तुष्टिं दत्‍तवान् ।प्रथमप्रश्‍ने- रयि प्राणयो: द्वारा प्रजापतित: सम्‍पूर्णजगत: उत्‍पत्तिरभवत् इति निरूपितमस्ति । द्वितीयप्रश्‍ने- स्‍थूलशरीरस्‍य प्रकाशक: धारक: च प्राणस्‍य वर्णनं कृतम् । तृतीयेप्रश्‍ने- प्राणस्‍य उत्‍पत्ति: स्थिति: च बोधितम् । चतुर्थप्रश्‍ने- स्‍वप्‍नावस्‍थाया: वर्णनम् । पंचमेप्रश्‍ने- ओंकारस्‍य स्‍वरूपवर्णनम् । षष्‍ठेप्रश्‍ने- मुक्‍तावस्‍थायां निरूपाधिकब्रह्मं प्राणादि 16 कलानां आरोहपूर्वकप्रत्‍…

उपनिषद् ग्रन्‍था:

यदिवेद‍वृक्षस्‍य ब्राह्मणग्रन्‍था: शाखा:, आरण्‍यकग्रन्‍था: तासु शाखासु उत्‍पन्‍नानि पुष्‍पाणि सन्ति चेत् तेषां पुष्‍पाणां सुगन्धि: तु निश्‍चयेन 'उपनिषद् ग्रन्‍था:' एव सन्ति ।  आशय: अस्ति यत् प्राचीनकाले यत् बीजं ऋषिभि: आरण्‍यके वपितमासीत् तदेव उपनिषत्‍सु पुष्पितं पल्‍लवितं च दृश्‍यते ।वेदस्‍य अन्तिम: भाग: सन् एते ग्रन्‍था: 'वेदान्‍त' नाम्‍नापि अभिधीयन्‍ते ।शंकराचार्यस्‍य दृष्‍टौ उपनिषदा: ब्रह्मविद्या: सन्ति ।  उपनिषद् शब्‍दस्‍योत्‍पत्ति: उप एवं च नि उपसर्गपूर्वकं सदलृ धातुना अभवत् ।  अत्र 'सदलृ' धातो: प्रयोग: - 1. विशरण, 2. गति: (ज्ञानं, प्राप्ति: वा), एवं च 3. अवशादन इति अर्थेषु अस्ति ।  एवं विधा उपनिषदस्‍य अभिप्राय: - अविद्याया: विशरणं (नाशनं), ब्रह्मविद्याया: प्राप्ति, एवं च सांसारिकदु:खानां शिथिलीकरणम् इति अस्ति ।  यद्यपि उपनिषदानां मुख्‍याभिप्राय: 'ब्रह्मविद्यया' एव अस्ति ।एतासु उपनिषत्‍सु प्रमुखा: उपनिषदा: 10 सन्ति ।''ईशकेनकठप्रश्‍नमुण्‍डमाण्‍डूक्‍यतित्तिर: ।छान्‍दोग्‍य-ऐतरेयं च बृहदारण्‍यकं तथा ।।''एताषामुपनिषदानामुपरि तु शंकराचार…

श्रीपार्वतीपंचकस्‍तोत्र

धराधरेन्‍द्रनन्दिनी  शशांकमौलिसंगिनी 
सुरेशशक्तिवर्धिनी नितान्‍तकान्‍तकामिनी 
निशाचरेन्‍द्रमर्दिनी त्रिशूलशूलधारिणी 
मनोव्‍यथा विदारिणी शिवंतनोतु पार्वती ।।1 ।।

भुजंगतल्‍पशायिनी महोग्रकान्‍तभामिनी 
प्रकाशपुंजदामिनी विचित्रचित्रकारिणी
प्रचण्‍डशत्रुधर्षिणी दयाप्रवाहवर्षिणी 
सदा सुभाग्‍यदायिनी शिवं तनोतु पार्वती ।।2।। 

प्रकृष्‍टसृष्टिकारिका प्रचण्‍डनृत्‍यनर्तिका
पिनाकपाणिधारिका गिरीशश्रृंगमालिका
समस्‍तभक्‍तपालिका पीयूषपूर्णवर्षिका
कुभाग्‍यरेखमार्जिका शिवं तनोतु पार्वती ।।3।। 

तपश्‍चरीकुमारिका जगत्‍पराप्रहेलिका 
विशुद्धभावसाधिका सुधासरित्‍प्रवाहिका

कालिदासविरचिते रघुवंशे नवमः सर्गः

पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः । । ९.१ । ।
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलं आत्मकुलोचितं ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः । । ९.२ । ।
उभयं एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां ।
वलनिषूदनं अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयं । । ९.३ । ।
जनपदे न गदः पदं आदधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे । । ९.४ । ।
दशदिगन्तजिता रघुणा यथा श्रियं अपुष्यदजेन ततः परं ।
तं अधिगम्य तथैव पुनर्बभौ न न महीऽनं अहीनपराक्रमं । । ९.५ । ।
समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा । । ९.६ । ।
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तं उदयाय न वा नवयौवना प्रियतमा यतमानं अपाहरा । । ९.७ । ।
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरं ईरिता । । ९.८ । ।
उदयं अस्तमयं च रघूद्वहादुभयं आनशिरे वसुधाधिपाः ।
स हि निदेशं अलङ्घयतां अभूत्सुहृदयोहृदयः प्रतिगर्जतां । । ९.९ । ।
अजयदेकरथेन स मेदि…

महा‍कविकालिदासकृत रघुवंशमहाकाव्‍यस्‍य अष्टमः सर्गः

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां । । ८.१ । । दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ् । तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया । । ८.२ । । अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं । विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव । । ८.३ । । स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा । । ८.४ । । रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि । । ८.५ । । अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं । पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं । । ८.६ । । सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव । । ८.७ । । अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ् । उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ् । । ८.८ । । न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन् । । ८.९ । । अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आ…

महाकविकालिदासकृत रघुवंशमहाकाव्‍यस्‍य सप्तमः सर्गः

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनां ।
स्वसारं आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव । । ७.१ । ।
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः । । ७.२ । ।
सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतां अभावः ।
काकुत्स्थं उद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः । । ७.३ । ।
तावत्प्रकीर्णाभिनवोपचारं इन्द्रायुधद्योतिततोरणाङ्कं ।
वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णं । । ७.४ । ।
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि । । ७.५ । ।
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः । । ७.६ । ।
प्रसाधिकालम्बितं अग्रपादं आक्षिप्य काचिद्द्रवरागं एव ।
उत्षृषृअलीलागतिरा गवाक्षाद्ययौ शलाकां अपरा वहन्ती । । ७.७ । ।
विलोचनं दक्षिणं अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्षं ययौ शलाकां अपरा वहन्ती । । ७.८ । ।
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीं …

रावणकृत - श्री शिवताण्‍डव स्‍तोत्रम् ।

कथा - एकदा रावण: श्रीकैलाशपर्वतं प्रति गतवान् ।  मदोन्‍मत्त: स: कैलाशपर्वतम् उत्‍थातुं प्रयत्‍नं कृतवान् ।  तस्‍य दुर्मति: दृष्‍ट्वा तस्‍य अभिमानापहर्तुं भगवान् सदाशिव चन्‍द्रमौलि: स्‍वपादअंगुष्‍ठ: कैलासस्‍योपरि नोदितवान् ।  तेन कैलाशपर्वतस्‍य भारं वर्धितं, रावण: कैलाशपर्वतम् उत्‍थातुं न शक्‍तवान् ।  यतोहि तस्‍य द्वौपि बाहू कैलाशस्‍य अध: एव आस्‍ताम् अत: तस्‍य बाहू कैलाशस्‍य अध: एव नुदितौ ।  सम्‍प्रति पीडाकारणात् रावण: चीत्‍कारं प्रारभत् ।  स: तत्रैव स्थित: सन् भगवत: शूलपाणे: अर्चनाम् आरब्‍धवान् ।  तस्‍य अर्चनया प्रसन्‍न: भगवान् शिव: तम् आत्‍मन: चन्‍द्रहासखड्ग: अपि दत्‍तवान् ।  तस्‍य एषा एव अर्चना कालान्‍तरे शिवताण्‍डवस्‍तोत्रमिति नाम्‍ना प्रसिद्धं जातम् ।  एषा स्‍तुति: पंचचामर छन्‍दे अस्ति । 
जटाटवीगलज्जलप्रवाहपावितस्थले, गलेऽवलम्ब्यलम्बितां भुजङ्गतुङ्गमालिकाम्‌।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं, चकारचण्डताण्डवं तनोतु नः शिवो शिवम्‌ ॥१॥
जटाकटाहसंभ्रमभ्रमन्निलिंपनिर्झरी, विलोलवीचिवल्लरी विराजमानमूर्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके, किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥२॥
धराधरेंद्…

गूगल ड्राइव - ईजगति एका नूतनी मंजूषा ।

चित्र
गूगल ड्राइव गूगल.काम इत्‍यस्‍य जालपृष्‍ठस्‍य नूतनी मंजूषा सेवा अस्ति ।  गूगल.काम इत्‍येतस्मिन् विषये तु सम्‍भवत: कमपि किमपि वक्‍तुं नैवास्ति ।  गूगल.काम एकम् ईअन्‍वेषणयन्‍त्रमस्ति ।  अस्‍य मुख्‍यकार्यं जालजगति विषयविशिष्‍टाधारेण जालपृष्‍ठानाम् अन्‍वेषणमस्ति ।  यथा - कश्चित् संस्‍कृतविषयम् अधिकृत्‍य किमपि अन्‍वेषयति ।  स: गूगलअन्‍वेषणयन्‍त्रस्‍य अन्‍वेषणमंजूषायाम् आत्‍मन: विषय: पूरयेत् ।  प्रवेश पिंजस्‍य नोदनानन्‍तरं संस्‍कृतविषयम् अधिकृत्य शताधिकश्रृंखला: प्राप्‍यते ।  ता: श्रृंखला: संस्‍कृतस्‍य विभिन्‍नविषयान् वहन्‍त्‍य: भवन्ति ।  तासु श्रृंखलासु या श्रृंखला भवत: कार्यस्‍य अस्ति तां श्रृंखलां नोदयेत् ।
गूगल.काम इत्‍यस्‍य अन्‍यानि अपि पृष्‍ठानि सन्ति ।  गूगल स्‍य एव ईपत्रसेवा अस्ति जीमेल.काम इति ।  अत्र भवन्‍त: आत्‍मन: ईसंकेत: निर्मूल्‍येन एव पंजीकर्तुं शक्‍नुवन्ति ।
ब्‍लागर अपि गूगलस्‍य एव सुविधा अस्ति येन माध्‍यमेन भवान् आत्‍मन: विचाराणां कृते एकां जालसूचिकां निर्मूल्‍येन एव प्राप्‍नोति ।
डाक्‍यूमेन्‍ट गूगलपृष्‍ठस्‍य सा सुविधा अस्ति येन माध्‍यमेन भवान् आत्‍मन: ग्रथनानि अन्‍यान् प्रति प…

ब्राह्मणग्रन्‍था:

सायणाचार्यानुसारं यानि परम्‍परया मन्‍त्राणि न भवन्ति तानि ब्राह्मणानि एवं च यानि ब्राह्मणानि न सन्ति तानि मन्‍त्राणि सन्ति । शतपथब्राह्मणानुसारं ''ब्रह्म वै मन्‍त्र:'' 7/1/1/5 त: स्‍पष्‍टमस्ति यत् वैदिकमन्‍त्राणां व्‍याख्‍यानकारणात् एव 'ब्राह्मण' इति नामकरणं कृतमस्ति ।  'ब्रह्म' शब्‍दस्‍य अपर: अर्थ: 'यज्ञम्' इत्‍यपि भवति ।  अनेन प्रकारेण ब्राह्मणेषु मन्‍त्राणां, कर्माणां एवं च विनियोगानां व्‍याख्‍या अस्ति ।  एतेषां ब्राह्मणानां द्रष्‍टार: रचनाकार: वा आचार्या: इति कथ्‍यन्‍ते यद्यपि ऋचानां द्रष्‍टार: ऋषय: इति कथ्‍यन्ते ।
विषयवस्‍तु: -
ब्राह्मणानां मुख्‍यप्रतिपाद्यविषय: विधि: इति अस्ति; तथापि शाबर-भाष्‍ये ब्राह्मणानां प्रतिपाद्यविषयरूपेण वि‍धे: अंगभूतं सम्‍पूर्णं 10वस्‍तूनाम् उल्‍लेख: अस्ति ।
''हेतुर्निर्वचनं निन्‍दा प्रशंसा संशयो विधि: । प्रक्रिया पुराकल्‍पो व्‍यवधारण कल्‍पना । उपमानं दशैतेतो विधयो ब्राह्मणस्‍य तु ।।'' किन्‍तु एतेषु तु विधि:, विनियोग:, हेतु: अर्थवाद:, निरुक्ति: एवं च आख्‍यानस्‍य एव प्राधान्यम् अस्ति ।  एतेषु अपि '…

आरण्‍यकग्रन्‍था:

सायणाचार्यानुसारं येषां ग्रन्‍थानां मननं-चिन्‍तनं ग्रामस्‍य/नगरस्‍य कोलाहलपूर्णे वातावरणे सम्‍भवं नासीत् अत: अरण्‍यस्‍य एकान्‍त, शान्‍तवातावरणे अध्‍ययनं कृतं ते ग्रन्‍था: एव आरण्‍यकग्रन्‍था: इति ज्ञायन्‍ते ।  एते ग्रन्‍था: वेदानां रहस्‍यानाम् उद्घाटनं, प्राणविद्यासदृशगूढविद्याया: दार्शनिकविश्‍लेषणं च कुर्वन्ति ।वस्‍तुत: आरण्‍यकग्रन्‍था: ब्राह्मणग्रन्‍थानां पूरकमेव सन्ति, सहैव उपनिषदानां प्रारम्भिकभाग: च सन्ति ।  ब्राह्मणग्रन्‍थेषु जटिलयज्ञप्रक्रिया वर्णिता भवति किन्‍तु आरण्‍यकग्रन्‍थेषु सामान्‍ययज्ञानां प्रतिपादनं कृतमस्ति ।  एते यज्ञा: वानप्रस्थिना अपि कर्तुं शक्‍यं भवन्ति स्‍म ।  एवं विधा वयं वक्‍तुं शक्‍नुम: यत् मन्‍त्रब्राह्मणात्‍मकं वेदस्‍य यस्मिन् अंशे आध्‍यात्मितत्‍वानां मीमांसा, प्राणविद्या तथा च प्रतीकोपासनाया: विषया: वर्णिता: सन्ति; स: अंश: आरण्‍यक इति नाम्‍ना अभिधीयते ।  महाभारतस्‍य आदिपर्वे कथनमस्ति ---''नवनीतं यथा दध्‍नो, मलयाच्‍चन्‍दनं यथा ।आरण्‍यकं च वेदेभ्‍य:, औषधिभ्‍योSमृतं यथा ।।''विषयवस्‍तु: - आरण्‍यकानां मुख्‍यप्रतिपाद्यविषय: प्राणविद्या एवं च प्रती…

प्रमुखा: आरण्‍यकग्रन्‍था:

ब्राह्मणग्रन्‍थसदृशमेव सर्वेषां वेदानां पृथक्-पृथक् आरण्‍यकग्रन्‍था: विद्यन्‍ते ।  एतेषां संक्षिप्‍तकथनं निम्‍नवदस्ति ............ऋग्‍वेदस्‍य आरण्‍यकग्रन्‍था: - ऋग्‍वेदस्‍य द्वौ आरण्‍यकग्रन्‍थौ सम्‍प्रति उपलब्‍धौ स्‍त: ।  एतयो: विवरणम् अधोक्‍तं विद्यते - 1. ऐतरेय आरण्‍यकम् - अस्मिन् ग्रन्‍थे पंच अध्‍याया: सन्ति ।  एतेषां पंचाध्‍यायानां पृथक्-पृथगपि आरण्‍यकसंज्ञा एव अस्ति ।  अस्‍य तृतीयप्रपाठक: (अध्‍याय:) संहितोपनिषद् नाम्‍ना अपि प्रसिद्ध: अस्ति ।2. शांखायन आरण्‍यकम् - अस्मिन् आरण्‍यके 15 अध्‍याया: सन्ति ।  अस्‍य आरण्‍यकस्‍य तृतीयअध्‍यायत: षष्‍ठअध्‍यायपर्यन्‍तं संहितोपनिषद् नाम्‍ना प्रसिद्धमस्ति ।  अस्‍य पंचदशे अध्‍याये आचार्याणां वंश-परम्‍परा प्रदत्तास्ति ।यजुर्वेदस्‍य आरण्‍यकग्रन्‍था: - यजुर्वेदस्‍य उभयो: शाखयो: (शुक्‍लयजुर्वेद:, कृष्‍णयजुर्वेद:) आरण्‍यकग्रन्‍थानां विवरणं संक्षेपेण अध: दीयते ।शुक्‍लयजुर्वेदस्‍य आरण्‍यकग्रन्‍था:1. वृहदारण्‍यकम् - अस्‍य शुक्‍लयजुर्वेदीयआरण्‍यकस्‍य विशेषप्रसिद्धि: उपनिषद्रूपेण अस्ति ।  शुक्‍लयजुर्वेदस्‍य उभयो: शाखयो: (काण्‍व, माध्‍यन्दिनीया) उपरि एतदारण…

प्रमुखा: ब्राह्मणग्रन्‍था:

प्रायश: सर्वेषां वेदग्रन्‍थानां ब्राह्मणानि सन्ति ।  तेषां संक्षिप्‍तपरिचयम् अधोलिखितमस्ति । ---ऋग्‍वेदस्‍य ब्राह्मणग्रन्‍था: - 1- ऐतरेयब्राह्मणम् - ऋग्‍वेदस्‍य इदं ब्राह्मणं यज्ञ-प्राख्‍यापनेन सह एव रोचकआख्‍यायिकानां द्वारा कर्तव्‍याकर्तव्‍यानां शिक्षां प्रदादाति ।अस्मिन् ब्राह्मणग्रन्थे 8 पंचिका: 40 अध्‍याया: एवं च 285 कंडिका: सन्ति ।  एतत् ब्राह्मणं होतृगणात् सम्‍बद्धशस्‍त्रशंसनादिकार्याणां विस्‍तृतविवेचनं प्रस्‍तोति ।  अस्‍य ब्राह्मणस्‍य प्रमुखाख्‍यानं शुन:-शेप आख्‍यानम् अस्ति ।2- शांखायनब्राह्मणम् - एतदपि ऋग्‍वेदस्‍यैव ब्राह्मणं विद्यते ।  अस्मिन् ब्राह्मणे 30 अध्‍याया: एवं च 226 खण्‍डा: सन्ति ।  एतत् ब्राह्मणं 'कौषीतकि ब्राह्मणम्' इत्‍यपि नाम्‍ना अभिधीयते ।यजुर्वेदस्‍य ब्राह्मणग्रन्था: - 1 - शतपथब्राह्मणम् - सर्वेषु ब्राह्मणेषु इदं ब्राह्मणं सर्वाधिकं महत्‍वपूर्णं, यज्ञानुष्‍ठानानां सर्वोत्तम: प्रतिपादक:, महत्कायं चास्ति ।  इदं ब्राह्मणं शुक्‍लयजुर्वेदस्‍य काण्‍व, माध्‍यन्दिन उभयो: शाखयो: प्राप्‍यते ।  काण्‍वशतपथब्राह्मणे 17 काण्‍डानि, 104 अध्‍याया:, 435 ब्राह्मणानि एवं …