ब्राह्मणग्रन्‍था:


सायणाचार्यानुसारं यानि परम्‍परया मन्‍त्राणि न भवन्ति तानि ब्राह्मणानि एवं च यानि ब्राह्मणानि न सन्ति तानि मन्‍त्राणि सन्ति । शतपथब्राह्मणानुसारं ''ब्रह्म वै मन्‍त्र:'' 7/1/1/5 त: स्‍पष्‍टमस्ति यत् वैदिकमन्‍त्राणां व्‍याख्‍यानकारणात् एव 'ब्राह्मण' इति नामकरणं कृतमस्ति ।  'ब्रह्म' शब्‍दस्‍य अपर: अर्थ: 'यज्ञम्' इत्‍यपि भवति ।  अनेन प्रकारेण ब्राह्मणेषु मन्‍त्राणां, कर्माणां एवं च विनियोगानां व्‍याख्‍या अस्ति ।  एतेषां ब्राह्मणानां द्रष्‍टार: रचनाकार: वा आचार्या: इति कथ्‍यन्‍ते यद्यपि ऋचानां द्रष्‍टार: ऋषय: इति कथ्‍यन्ते ।
विषयवस्‍तु: -
ब्राह्मणानां मुख्‍यप्रतिपाद्यविषय: विधि: इति अस्ति; तथापि शाबर-भाष्‍ये ब्राह्मणानां प्रतिपाद्यविषयरूपेण वि‍धे: अंगभूतं सम्‍पूर्णं 10वस्‍तूनाम् उल्‍लेख: अस्ति ।
''हेतुर्निर्वचनं निन्‍दा प्रशंसा संशयो विधि: ।
प्रक्रिया पुराकल्‍पो व्‍यवधारण कल्‍पना ।
उपमानं दशैतेतो विधयो ब्राह्मणस्‍य तु ।।''
किन्‍तु एतेषु तु विधि:, विनियोग:, हेतु: अर्थवाद:, निरुक्ति: एवं च आख्‍यानस्‍य एव प्राधान्यम् अस्ति ।  एतेषु अपि 'विधि:' सर्वप्रमुखम् अस्ति ।
विधि: - यज्ञस्‍य विधानं कदा भवेत् ?  कथं भवेत् ?  तेषु केषां साधनानाम् आवश्‍यकता भवति ?  विभिन्‍नानां यज्ञानाम् अधिकारी क: भवति ?  एवं विधा जटिलयागप्रक्रियाया: विषयं समीकर्तुं 'ब्राह्मणानाम्' उदयम् अभवत् ।  ऐतरेय, शतपथ, गोपथादिब्राह्मणेषु अनेका: विधय: प्राप्‍यन्‍ते ।  उदाहरणार्थम् -  'वहिष्-पवमानस्‍य' कृते अध्‍वर्यु एवं च उद्गाता आदि पंचऋत्विजानां प्रसर्पणस्‍य विधानं कृतमस्ति ।  अस्मिन् समये ऋत्विजानां मौनं, शनै: शनै: च पादप्रचालनस्‍य विधानमस्ति ।  पंचऋत्विजा: (अध्‍वर्यु:, प्रस्‍तोता, उद्गाता, प्रतिहर्ता एवं च ब्रह्मा) अग्रत: पृष्‍ठत: क्रमश: पंक्तिबद्धरूपेण गमनं कुर्वन्ति ।  अस्मिन् समये अध्‍वर्यु: स्‍वहस्‍ते कुशं स्‍वीकृत्‍य गच्‍छति ।
विनियोग: - कस्‍य मन्‍त्रस्‍य प्रयोग: कस्‍य उद्देश्‍यस्‍य सिद्धौ करणीय: ?  एवं विधा मन्‍त्राणां विनियोगस्‍य उल्‍लेख: प्रथमत: 'ब्राह्मणग्रन्‍थेषु' एव दृश्‍यते ।  ताण्‍ड्यब्राह्मणस्‍य ''स न: पवस्‍व शं गवे'' अस्‍या: ऋचाया: गायनं पशूनां रोगनिवृत्‍यर्थं कृयते ।  ''आ नो मित्रावरुणा'' अस्‍य मन्‍त्रस्‍य प्रयोग: दीर्घरोगग्रस्‍तस्‍य रोगमुक्त्‍यर्थं कृयते ।  एवं विधा एव अनेका: विनियोगा: सन्ति ।
हेतु: – 'हेतो:' अभिप्रायं तत्‍कारणानां निर्देशेन अस्ति यं कर्मकाण्‍डस्‍य वि‍शेषविधौ उपयुक्‍तं उच्‍यते; यतोहि विधिविभाग: सयुक्तिकं भवति; कल्‍पनाजन्‍यं तु नैव ।  एतेषामेव कारणानां उक्ति: एव हेतु: कथ्‍यते ।  उदाहरणार्थम् - 'बहिष् पवमाने' पंचऋत्विजेषु अध्‍वर्यु: एव हस्‍ते दर्भमुष्टि: स्‍वीकृत्‍य चलेत् इत्‍यस्‍य अभिप्रायमस्ति यत् धावन् गच्‍छन्‍तं अश्‍वरूपधारी यज्ञदेवं दर्भमुष्टि: प्रदर्श्‍य प्रत्‍यागमनं कारयेत् ।
अर्थवाद: - 'अर्थवादे' निन्‍दा च प्रशंसा च द्वयोरपि निवेश: भवति ।  अर्थात् यागनिषिद्धवस्‍तो: निन्‍दा, यागोपयोगी वस्‍तूनां प्रशंसा च कृयते ।  यथा - यज्ञे माषस्‍य (उडद) निषिद्धि: सन् माषस्‍य निन्‍दा - ''अमेध्‍या वै माषा'' एवं च 'बहिष् पवमान' स्‍त्रोत्रस्‍य उपादेयता सन् अस्‍य स्‍तुति: कृतास्ति ।
निरुक्ति: - शब्‍दानां निर्वचनस्‍य (व्‍युत्‍पत्‍ते:) ब्राह्मणेषु पदे-पदे उल्‍लेख: प्राप्‍यते ।  अनेन अर्थानां मौलिकस्‍वरूपस्‍य अवगमने सहायता प्राप्‍यते ।  निरुक्‍तानां व्‍युत्‍पत्तिनां मूलम् एते ब्राह्मणग्रन्‍था: एव सन्ति ।
आख्‍यानम् - विधे: स्‍वरूपावगमनं कारयितुं एवं च विषयं सरसरोचकं च कारयितुम् आख्‍यानानां समायोजनं कृतमस्ति ।  एतानि आख्‍यानानि 1- दीर्घकाय:, 2- लघुकाय: च भेदात् द्विधा भवन्ति ।  स्‍वल्‍पकायआख्‍यानेषु ता: कथा: सन्ति या: सद्य: विधे: सयुक्तिकताप्रदर्शनं कुर्वन्ति ।  यथा - यज्ञदेवस्‍य अश्‍वरूपे गमनम्, वाक् इत्‍यस्‍य देवानां परित्‍याग: इत्‍यादि ।  दीर्घकायआख्‍यानेषु - पुरुरवा-उर्वशी; शुन:शेप इत्‍यादि आख्‍यानानि सन्ति ।
इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।