आरण्‍यकग्रन्‍था:

सायणाचार्यानुसारं येषां ग्रन्‍थानां मननं-चिन्‍तनं ग्रामस्‍य/नगरस्‍य कोलाहलपूर्णे वातावरणे सम्‍भवं नासीत् अत: अरण्‍यस्‍य एकान्‍त, शान्‍तवातावरणे अध्‍ययनं कृतं ते ग्रन्‍था: एव आरण्‍यकग्रन्‍था: इति ज्ञायन्‍ते ।  एते ग्रन्‍था: वेदानां रहस्‍यानाम् उद्घाटनं, प्राणविद्यासदृशगूढविद्याया: दार्शनिकविश्‍लेषणं च कुर्वन्ति ।

वस्‍तुत: आरण्‍यकग्रन्‍था: ब्राह्मणग्रन्‍थानां पूरकमेव सन्ति, सहैव उपनिषदानां प्रारम्भिकभाग: च सन्ति ।  ब्राह्मणग्रन्‍थेषु जटिलयज्ञप्रक्रिया वर्णिता भवति किन्‍तु आरण्‍यकग्रन्‍थेषु सामान्‍ययज्ञानां प्रतिपादनं कृतमस्ति ।  एते यज्ञा: वानप्रस्थिना अपि कर्तुं शक्‍यं भवन्ति स्‍म ।  एवं विधा वयं वक्‍तुं शक्‍नुम: यत् मन्‍त्रब्राह्मणात्‍मकं वेदस्‍य यस्मिन् अंशे आध्‍यात्मितत्‍वानां मीमांसा, प्राणविद्या तथा च प्रतीकोपासनाया: विषया: वर्णिता: सन्ति; स: अंश: आरण्‍यक इति नाम्‍ना अभिधीयते ।  महाभारतस्‍य आदिपर्वे कथनमस्ति ---

''नवनीतं यथा दध्‍नो, मलयाच्‍चन्‍दनं यथा ।

आरण्‍यकं च वेदेभ्‍य:, औषधिभ्‍योSमृतं यथा ।।''

विषयवस्‍तु: - आरण्‍यकानां मुख्‍यप्रतिपाद्यविषय: प्राणविद्या एवं च प्रतीकोपासना अस्ति ।  अस्‍य महत्‍वपूर्णं विवेचनं ऐतरेय, तैत्तिरीयं च ब्राह्मणयो: प्राप्‍यते ।  ऐतरेयारण्‍यकस्‍य निम्‍निलिखित: अंश: अत्‍यन्‍तम् उपादेय: अस्ति - ''प्राणेन सृष्‍ट्वान्‍तरिक्षं च वायुश्‍च ।  अन्‍तरिक्षं वा अनुचरन्ति ।  अन्‍तरिक्षमनुश्रृण्‍वन्ति ।  वायु: अस्‍मै पुण्‍यं गन्‍धमावहति ।  एवमेतौ प्राणपितरं परिचरतोSन्‍तरिक्षं च वायुश्‍च ।'' अनेन कथनेन स्‍पष्‍टमस्ति यत् अन्‍तरिक्ष: वायुश्‍च द्वौ अपि प्राणरूपीकार्यस्‍य कारणौ मन्‍येते ।  प्राण: पिता अस्ति अन्‍तरिक्ष: वायुश्‍च तस्‍य पुत्रौ स्‍त: ।  ऋग्‍वेदस्‍य पुरुषसूक्‍तेपि एवंविधैव कथनं प्राप्‍यते - ''.......................प्राणाद्वायुरजायत् ।।

एवं विधा वयं पश्‍याम: यत् आरण्‍यकेषु तेषां महाध्‍यात्मिकतत्‍वानां संकेत: प्राप्‍यते, यानि उपनिषदेषु पुष्पितानि-पल्‍लवितानि सन्ति ।

इति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

भू (होना) धातु: - परस्‍मैपदी