उपनिषद् ग्रन्‍था:

यदिवेद‍वृक्षस्‍य ब्राह्मणग्रन्‍था: शाखा:, आरण्‍यकग्रन्‍था: तासु शाखासु उत्‍पन्‍नानि पुष्‍पाणि सन्ति चेत् तेषां पुष्‍पाणां सुगन्धि: तु निश्‍चयेन 'उपनिषद् ग्रन्‍था:' एव सन्ति ।  आशय: अस्ति यत् प्राचीनकाले यत् बीजं ऋषिभि: आरण्‍यके वपितमासीत् तदेव उपनिषत्‍सु पुष्पितं पल्‍लवितं च दृश्‍यते ।

वेदस्‍य अन्तिम: भाग: सन् एते ग्रन्‍था: 'वेदान्‍त' नाम्‍नापि अभिधीयन्‍ते ।

शंकराचार्यस्‍य दृष्‍टौ उपनिषदा: ब्रह्मविद्या: सन्ति ।  उपनिषद् शब्‍दस्‍योत्‍पत्ति: उप एवं च नि उपसर्गपूर्वकं सदलृ धातुना अभवत् ।  अत्र 'सदलृ' धातो: प्रयोग: - 1. विशरण, 2. गति: (ज्ञानं, प्राप्ति: वा), एवं च 3. अवशादन इति अर्थेषु अस्ति ।  एवं विधा उपनिषदस्‍य अभिप्राय: - अविद्याया: विशरणं (नाशनं), ब्रह्मविद्याया: प्राप्ति, एवं च सांसारिकदु:खानां शिथिलीकरणम् इति अस्ति ।  यद्यपि उपनिषदानां मुख्‍याभिप्राय: 'ब्रह्मविद्यया' एव अस्ति ।

एतासु उपनिषत्‍सु प्रमुखा: उपनिषदा: 10 सन्ति ।

''ईशकेनकठप्रश्‍नमुण्‍डमाण्‍डूक्‍यतित्तिर: ।

छान्‍दोग्‍य-ऐतरेयं च बृहदारण्‍यकं तथा ।।''

एताषामुपनिषदानामुपरि तु शंकराचार्यस्‍य भाष्‍यं प्राप्‍यते, किन्‍तु एतदिरिक्‍तमपि शंकराचार्येण श्वेताश्‍वतरोपनिषद्, कौशीतकिउपनिषद्, एवं च मैत्रायणीउपनिषदस्‍य वर्णनं कृतमस्ति ।  अतएव एते त्रयोदशग्रन्‍था: मुख्‍यउपनिषत्‍सु गण्‍यते ।

विषयवस्‍तु: - भारतीयदर्शनस्‍य बीजं यद्यपि ऋग्‍वेदादिष्वपि उपलभ्‍यते; परन्‍तु भारतीय-दर्शनस्‍य स्‍वरूपं पूर्णतया उपनिषत्‍सु एव प्राप्‍यते ।  उपनिषत्‍सु प्रमुखरूपेण ब्रह्मविद्याया: एव विवेचना अस्ति ।  ब्रह्म, आत्‍मा, माया, जगत्, पुनर्जन्‍म इत्‍यादय: उपनिषदानां प्रमुखा: प्रतिपाद्यविषया: सन्ति ।

उपर्युक्‍ततथ्‍यानाम् अतिरिक्‍तमपि उपनिषत्‍सु प्राणसिद्धान्‍त:, पुनर्जन्‍म, विद्या-अविद्या, सम्‍भूति-असम्‍भूति: आदय: अपि विषया: वर्णिता: सन्ति ।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

अव्यय पदानि ।।

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .

दृश् (पश्य्) (देखना) धातुः – परस्मैपदी

फलानि ।।