संदेश

June, 2012 की पोस्ट दिखाई जा रही हैं

श्रीमच्‍छंकराचार्यविरचितं षट्पदीस्‍तोत्रम्

अविनयमपनय विष्‍णो दमय मन: शमय विषयमृगतृष्‍णाम् । भूतदयां विस्‍तारय तारय संसारसागरत: ।।1 दिव्‍यधुनीमकरन्‍दे परिमल‍परिभोगसच्चिदानन्‍दे । श्रीपतिपदारविन्‍दे भवभयखेदच्छिदे वन्‍दे ।।2 सत्‍यपि भेदापगमे नाथ तवाहं न मामकीनस्‍त्‍वम् । सामुद्रो हि तरंग क्‍वचन समुद्रो न तारंग: ।।3 उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्‍टे । दृष्‍टे भवति प्रभवति न भवति किं भवतिरस्‍कार: ।।4 मत्‍स्‍यादिभिरवतारैरवतारवतावता सदा वसुधाम् । परमेश्‍वर परिपाल्‍यो भवता भवतापभीतो अहम् ।।5 दामोदर गुणमन्दिर सुन्‍दरवदनारविन्‍द गोविन्‍द । भवजलधिमथनमन्‍दर परमं दरमपनय त्‍वं मे ।।6 नारायण करुणामय शरणं करवाणि तावकौ चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ।।7 इति श्रीमच्‍छंकराचार्यविरचितं षट्पदीस्‍तोत्रं सम्‍पूर्णम् ।।

श्रीविष्‍णोरष्‍टाविंशतिनामस्‍तोत्रम्

भगवत: विष्‍णो: एतानि अष्‍टाविंशतिनामानि गीताप्रेसगोरखपुरद्वारा प्रकाशितस्‍य विनयस्‍तोत्राणिपुस्‍तकात् अस्‍माभि: स्‍वीकृतमस्ति ।  तस्‍मै हार्द: धन्‍यवादा: ।अर्जुन उवाच किं नु नाम सहस्राणि जपते च पुन: पुन: । यानि नामानि दिव्‍यानि तानि चाचक्ष्‍व केशव ।।1 श्री भगवानुवाच मत्‍स्‍यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्‍दं पुण्‍डरीकाक्षं माधवं मधुसूदनम् ।।2 पद्मनाभं सहस्राक्ष्‍ां वनमालिं हलायुधम् । गोवर्धनं हृषीकेशं वैकुण्‍ठं पुरुषोत्‍तमम् ।।3 विश्‍वरूपं वासुदेवं रामं नारायणं हरिम् । दामोदरं श्रीधरं च वेदांगं गरुणध्‍वजम् ।।4 अनन्‍तं कृष्‍णगोपालं जपतो नास्ति पातकम् । गवां कोटिप्रदानस्‍य अश्‍वमेधशतस्‍य च ।।5 कन्‍यादानसहस्राणां फलं प्राप्‍नोति मानव: । अमायां वा पौर्णमास्‍यामेकादश्‍यां तथैव च ।।6 सन्‍ध्‍याकाले स्‍मरेन्नित्‍यं प्रात:काले तथैव च । मध्‍याह्ने च जपन्नित्‍यं सर्वपापै: प्रमुच्‍यते ।।7
इति श्रीकृष्‍णार्जुनसंवादे श्रीविष्‍णोरष्‍टाविंशतिनामस्‍तोत्रं सम्‍पूर्णम् ।

चन्द्रशेखर आजाद:

चित्र
पण्डितचन्‍द्रशेखर आजाद: 23 जुलाई 1906 त: 27 फरवरी 1931 पर्यन्‍तम्
उपनाम आजाद, पण्डितजी, बलराज,  'Quick Silver' च जन्‍मस्‍थानम् बदरका उन्‍नाव जनपद:, उत्‍तरप्रदेश जन्‍मस्‍थानम् अल्‍फ्रेडपार्क, इलाहाबाद आन्‍दोलनम् भारतीयस्‍वतन्‍त्रतासंग्राम प्रमुखसंगठनम् हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसिएशन, 1928
पण्डित चन्द्रशेखर ‘आजाद’ (२३ जुलाई, 1९०६ - २७ फरवरी, 1931) ऐतिहासिकदृष्‍ट्या भारतीयस्‍वतन्‍त्रतासंग्रामस्‍य महानसेनानायकः आसीत् । सः पण्डितरामप्रसादबिस्मिल, भगतसिंहादीनां महानक्रान्तिकारिणाम् अन्‍यतमः मित्रमपि आसीत् । 1922 ख्रीस्‍ताब्‍दे वर्षे गाँन्धिना असहयोग आन्‍दोलनस्‍य आकस्मिक् पिधाने तस्‍य विचारधारा परिवर्तिता, तेन क्रान्तिकारीगतिविधिषु संलग्‍नः अभूत् । तदैव सः हिन्‍दुस्‍तानरिपब्लिकनएसोसियन इत्‍यस्‍य समूहस्‍य सक्रियसदस्‍यतामपि स्‍वीकृतवान् । अनया संस्‍‍थया सः रामप्रसादबिस्मिलस्‍य नेतृत्‍वे 9 अगस्‍त 1925 ख्रीस्‍ताब्‍दे काकोरी काण्‍डमपि कृतवान् । अनन्‍तरं भूमिगतः अपि अभवत् । एतदनन्‍तरं 1927 ख्रीस्‍ताब्‍दे वर्षे बिस्मिलमहोदयेन सह एव चतुर्णाम् इतोपि बन्‍धूनां बलिदानानन्‍तर…

संस्‍कृतजगत् ईपत्रिका

संस्‍कृतजगत् ईपत्रिकाया: द्वितीयं संस्‍करणम् ।

चित्र
प्रिय बान्‍धवा: 
संस्‍कृतजगत् ईपत्रिकाया: द्वितीयसंस्‍करणाय भवतां प्रतीक्षा समाप्‍ता सम्‍प्रति ।  अस्‍या: पत्रिकाया: द्वितीयसंस्‍करणं भवतां सम्‍मुखे सम्‍प्रति प्रस्‍तूयते ।  अस्मिन् संस्‍करणे केचन बिन्‍दव: नूतन: अपि सन्ति ।  एतेषां पठनेन न केवलं भवतां मनोरंजनं भविष्‍यति अपितु भवतां ज्ञानवर्धनमपि भविष्‍यति ।  एतत् संस्‍करणं तल‍पूरितुम् अध:दत्‍तश्रृंखलासु कंचिदेकं नोदयन्‍तु । 
संस्‍कृतजगत् ईपत्रिका तलपूर्तिश्रृंखला 1 संस्‍कृतजगत् ईपत्रिका तलपूर्तिश्रृंखला 2 संस्‍कृतजगत् ईपत्रिका तलपूर्तिश्रृंखला 3
पत्रिकां पठित्‍वा कृपया आत्‍मन: विचारान् अस्‍मान् प्रेषयन्‍तु, येन पत्रिकाया: गुणवत्‍तावर्धनं कर्तुं वयं प्रयासं साधयेम । धन्‍यवादा:  संस्‍कृतजगत् 

रघुवंशमहाकाव्‍यम् (एकादश सर्गः)

कौशिकेन स किल क्षितीश्वरो रामं अध्वरविघातशान्तये । काकपक्षधरं एत्य याचितस्तेजसां हि न वयः समीक्ष्यते । । ११.१ । । कृच्छ्रलब्धं अपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणं । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता । । ११.२ । । यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियां । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः । । ११.३ । । तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः । । ११.४ । । तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ । धन्विनौ तं ऋषिं अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ । । ११.५ । । लक्ष्मणानुचरं एव राघवं नेतुं ऐच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा । । ११.६ । । रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीं अनुद्रुतौ । उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव । । ११.६* । । मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव । । ११.७ । । वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलं अप्यशोभत । तोयदागम इवोद्ध्यभिद्ययोर्नाम…

रघुवंशमहकाव्यम् (दशमः सर्गः)

पृथिवीं शासतस्तस्य पाकशासनतेजसः । किंचिदूनं अनूनर्द्धेः शरदां अयुतं ययौ । । १०.१ । । न चोपलेभे पूर्वेषां ऋणनिर्मोक्षसाधनं । सुताभिधानं स ज्योतिः शरदां अयुतं ययौ । । १०.२ । । मनोर्वंशश्चिरं तस्मिन्ननभिव्यक्तसंततिः । निमज्ज्य पुनरुत्थास्यन्नदः शोण इवाभवथ् । । १०.२* । । अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः । । १०.३ । । ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयां इष्टिं ऋत्विजः । । १०.४ । । तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिं । अभिजग्मुर्निदाघार्ताश्छायावृक्षं इवाध्वगाः । । १०.५ । । ते च प्रापुरुदन्वतं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणं । । १०.६ । । भोगिभोगादनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं । । १०.७ । । श्रियः पद्मनिषण्णायाः क्ष्ॐआन्तरितमेखले । अङ्के निक्षिप्तचरणं आस्तीर्णकरपल्लवे । । १०.८ । । प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकं । दिवसं शारदं इव प्रारम्भसुखदर्शनं । । १०.९ । । प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं । कौत्सुभाख्यं अपां सारं …

कालिदासविरचिते रघुवंशे ऊनविंशति: सर्गः

अग्निवर्णं अभिषिच्य राघवः स्वे पदे तनयं अग्नितेजसं ।
शिश्रिये श्रुतवतां अपश्चिमः पश्चिमे वयसि नैमिषं वशी । । १९.१ । ।
तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः ।
सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः । । १९.२ । ।
लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी ।
भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता । । १९.३ । ।
सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः ।
तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ् । । १९.४ । ।
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः । । १९.५ । ।
इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं ।
अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः । । १९.६ । ।
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं । । १९.७ । ।
तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं । । १९.८ । ।
युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः…

कालिदासविरचिते रघुवंशे अष्टादशः सर्गः

स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यं आहुर्निषधाख्यं एव । । १८.१ । ।
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन । । १८.२ । ।
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
क्ॐउद्वतेयः कुमुदावदातैर्द्यां अर्जितां कर्मभिरारुरोह । । १८.३ । ।
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपोअत्रां भुवं एकवीरः पुरार्गलादीर्घभुजो बुभोज । । १८.४ । ।
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः । । १८.५ । ।
नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभ्ॐआसं इव प्रजानां । । १८.६ । ।
तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं ।
मृगैरजर्यं जरस्पोदैष्टं अदेहबन्धाय पुनर्बबन्ध । । १८.७ । ।
तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः ।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षं इवाश्रिता श्रीः । । १८.८ । ।
स क्षेमधन्वानं अमोघधन्वा पुत्रं…

कालिदासविरचिते रघुवंशे सप्तदशः सर्गः

ऐथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादं इव चेतना । । १७.१ । ।
स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ । । १७.२ । ।
तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिं अग्राहयत्पिता । । १७.३ । ।
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यतैकं आत्मानं अनेकं वशिना वशी । । १७.४ । ।
स कुलोचितं इन्द्रस्य साहायकं उपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन सोऽवधि । । १७.५ । ।
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कं इव क्ॐउदी । । १७.६ । ।
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी । । १७.७ । ।
तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः ।
स्मरन्तः पश्चिमां आज्ञां भर्तुः संग्रामयायिनः । । १७.८ । ।
ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः ।
विमानं नवं उद्वेदि चतुःस्तम्भप्रतिष्टं । । १७.९ । ।
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितं । । १७.१० । ।
नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच…

कालिदासविरचिते रघुवंशे षोडषः सर्गः

अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रं एषां हि कुलानुसारि । । १६.१ । ।
ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः । । १६.२ । ।
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां ।
सुरद्विपानां इव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः । । १६.३ । ।
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषां अदृष्टपूर्वां वनितां अपश्यथ् । । १६.४ । ।
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध । । १६.५ । ।
अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः । । १६.६ । ।
लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारं अनिर्वृतानां मृणालिनी हैमं इवोपरागं । । १६.७ । ।
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति । । १६.८ । ।
तं अब्रवीत्सा ग…

कालिदासविरचिते रघुवंशे पञ्चदशः सर्गः

कृतसीतापरित्यागः स रत्नाकरमेखलां ।
बुभूजे पृथिवीपालः पृथिवीं एव केवलां । । १५.१ । ।
लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः । । १५.२ । ।
अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं । । १५.३ । ।
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां ।
धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः । । १५.४ । ।
ते रामाय वधोपायं आचख्युर्विबुधविषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति । । १५.५ । ।
आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ् । । १५.६ । ।
यः कश्चन रघूणां हि परं एकः परंतपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः । । १५.७ । ।
अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी ।
ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः । । १५.८ । ।
रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ् । । १५.९ । ।
आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान् । । १५.१० । ।
तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकी…