रघुवंशमहाकाव्‍यम् (एकादश सर्गः)


कौशिकेन स किल क्षितीश्वरो रामं अध्वरविघातशान्तये ।
काकपक्षधरं एत्य याचितस्तेजसां हि न वयः समीक्ष्यते । । ११.१ । ।
कृच्छ्रलब्धं अपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणं ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता । । ११.२ । ।
यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियां ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः । । ११.३ । ।
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः । । ११.४ । ।
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तं ऋषिं अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ । । ११.५ । ।
लक्ष्मणानुचरं एव राघवं नेतुं ऐच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा । । ११.६ । ।
रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीं अनुद्रुतौ ।
उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव । । ११.६* । ।
मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव । । ११.७ । ।
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलं अप्यशोभत ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितं । । ११.८ । ।
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव । । ११.९ । ।
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारं अपि न व्यभावयथ् । । ११.१० । ।
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे । । ११.११ । ।
नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदां ।
दर्शनेन लघुना यथा तयोः प्रीतिं आपुरुभयोस्तपस्विनः । । ११.१२ । ।
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा । । ११.१३ । ।
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यतां । । ११.१४ । ।
ज्यानिनिआदं अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी । । ११.१५ । ।
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया । । ११.१६ । ।
उद्यतैकभुजयष्टिं आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलां ।
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः । । ११.१७ । ।
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतां अगमदन्तकस्य तथ् । । ११.१८ । ।
बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलां ।
विष्टपत्रयपराजयस्थिरां रावणश्रियं अपि व्यकम्पयथ् । । ११.१९ । ।
राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा । । ११.२० । ।
नैरृतघ्नं अथ मन्त्रवन्मुनेः प्रापदस्त्रं अवदानतोषिताथ् ।
ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः । । ११.२१ । ।
वामनाश्रमपदं ततः परं पावनं श्रुअं ऋषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः । । ११.२२ । ।
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणं ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनं । । ११.२३ । ।
तत्र दीक्षितं ऋषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकं अन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव । । ११.२४ । ।
वीक्ष्य वेदिं अथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषितां ।
संभ्रमोऽभवदपोढकर्मणां ऋत्विजां च्युतविकङ्कतस्रुचां । । ११.२५ । ।
उन्मुखः सपदि लक्ष्मणाग्रजो बाणं आश्रयमुखात्समुद्धरन् ।
रक्षसां बलं अपश्यदम्बरे गृध्रपक्षपवनेरितध्वजं । । ११.२६ । ।
तत्र यावधिपती मखद्विषां तौ शरव्यं अकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते । । ११.२७ । ।
सोऽस्त्रं उग्रजवं अस्त्रकोविदः संदधे धनुषि वायुदैवतं ।
तेन शैलगुरुं अप्यपातयत्पाण्डुपत्त्रं इव ताडकासुतं । । ११.२८ । ।
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः । । ११.२९ । ।
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनं अभिनन्द्य विक्रमं ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः । । ११.३० । ।
तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः ।
आशिषां अनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना । । ११.३१ । ।
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलं । । ११.३२ । ।
तैः शिवेषु वसतिर्गताध्वभिः सायं आश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ । । ११.३३ । ।
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसां अनुग्रहः । । ११.३४ । ।
राघवान्वितं उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धं इव धर्मं अभ्यगाथ् । । ११.३५ । ।
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातं अपि वञ्चनां मनः । । ११.३६ । ।
यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः ।
रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः । । ११.३७ । ।
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया । । ११.३८ । ।
अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करं ।
तत्र नाहं अनुमन्तुं उत्सहे मोघवृत्ति कलभस्य चेष्टितं । । ११.३९ । ।
ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे । । ११.४० । ।
प्रत्युवाच तं ऋषिर्निशम्यतां सारतोऽयं अथ वा कृतं गिरा ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव । । ११.४१ । ।
एवं आप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिं इव कृष्णवर्त्मनि । । ११.४२ । ।
व्यादिदेश गणः सपार्श्वगान्कर्मुकाभरणाय मैथिलः ।
तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः । । ११.४३ । ।
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानौसारिणं येन बाणं असृजद्वृषध्वजः । । ११.४४ । ।
आततज्यं अकरोत्स संसदा विस्मयस्तिमितनेत्रं ईक्षितः ।
शैलसारं अपि नातियत्नतः पुष्पचापं इव पेशलं स्मरः । । ११.४५ । ।
भज्यमानं अतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रं उद्यतं इति न्यवेदयथ् । । ११.४६ । ।
दृष्टसारं अथ रुद्रकार्मुके वीर्यशुल्कं अभिनन्द्य मैथिलः ।
राघवाय तनयां अयोनिजां रूपिणीं श्रियं इव न्यवेदयथ् । । ११.४७ । ।
मैथिलः सपदि सत्यसंगरो राघवाय तनयां अयोनिजां ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् । । ११.४८ । ।
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसं ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलं इदं निमेरिति । । ११.४९ । ।
उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तं ।
गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतां अकालहृथ् । । ११.४९* । ।
अन्वियेष सदृशीं स च स्नुषां प्राप चैनं अनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितं । । ११.५० । ।
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनं अग्रजन्मनः ।
उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः । । ११.५१ । ।
आससाद मिथिलां स वेष्टयन्पिडितोपवनपादपां बलैः ।
प्रीतिरोधं असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगं आयतं । । ११.५२ । ।
तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः । । ११.५३ । ।
पार्थिवीं उदवहद्रघूद्वहो लक्ष्मणस्तदनुजां अथोर्मिलां ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे । । ११.५४ । ।
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः । । ११.५५ । ।
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थतां ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः । । ११.५६ । ।
एवं आत्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत । । ११.५७ । ।
तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीं उत्तटा इव नदीरयाः स्थलीं । । ११.५८ । ।
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः । । ११.५९ । ।
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः । । ११.६० । ।
भास्करश्च दिशं अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः । । ११.६१ । ।
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिं अधिकृत्य कृत्यविथ् ।
अन्वयुङ्क्त गुरुं ईश्वरः क्षितेः स्वन्तं इत्यलघयत्स तद्व्यथां । । ११.६२ । ।
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिराथ् । । ११.६३ । ।
पित्र्यं अंशं उपवीतलक्षणं मातृकं च धनुरूर्जितं दधथ् ।
यः सस्ॐअ इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः । । ११.६४ । ।
येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही । । ११.६५ । ।
अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनां इवोद्वहन् । । ११.६६ । ।
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितं ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः । । ११.६७ । ।
रामनाम इति तुल्यं आत्मजे वर्तमानं अहिते च दारुणे ।
हृद्यं अस्य भयदायि चाभवद्रत्नजातं इव हारसर्पयोः । । ११.६८ । ।
अर्घ्यं अर्घ्यं इति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशं उदग्रतारकां । । ११.६९ । ।
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना । । ११.७० । ।
क्षत्रजातं अपकारि वैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवाथ् । । ११.७१ । ।
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वं अक्षणोः ।
तन्निशम्य बहवता समर्थये वीर्यशृङ्गं इव भग्नं आत्मनः । । ११.७२ । ।
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मां अगाथ् ।
व्रीडं आवहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि । । ११.७३ । ।
बिभ्रतोऽस्त्रं अचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ ।
ह्ॐअ-धेनु-हरणाच्च हैहयस्त्वं च इर्तिं अपहर्तुं उद्यतः । । ११.७४ । ।
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मां अवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः । । ११.७५ । ।
विद्धि चात्तबलं ओजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलं अनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमं । । ११.७६ । ।
तन्मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां ।
तिष्ठतु प्रधनं एवं अप्यहं तुल्यबाहुतरसा जितस्त्वया । । ११.७७ । ।
कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतां अभययाचनाञ्जलिः । । ११.७८ । ।
एवं उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणं एव राघवः प्रत्यपद्यत समर्थं उत्तरं । । ११.७९ । ।
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवथ् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः । । ११.८० । ।
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितं ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः । । ११.८१ । ।
तावुभावपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव । । ११.८२ । ।
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यं आत्मनि ।
स्वं च संहितं अमोघं आशुगं व्याजहार हरसूनसंनिभः । । ११.८३ । ।
न प्रहर्तुं अलं अस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि ।
शंष किं गतिं अनेन पत्त्रिणा हन्मि लोकं उत ते मखार्जितं । । ११.८४ । ।
प्रत्युवाच तं ऋषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनं ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा । । ११.८५ । ।
भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागरां ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया । । ११.८६ । ।
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपं । । ११.८७ । ।
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकं ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः । । ११.८८ । ।
राघवोऽपि चरणौ तपोनिधेः क्षम्यतां इति वदन्समस्पृषथ् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये । । ११.८९ । ।
राजसत्वं अवधूय मातृकं पित्र्यं अस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययं अनुग्रहीकृतः । । ११.९० । ।
साधु याम्यहं अविघ्नं अस्तु ते देवकार्यं उपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजं ऋषिस्तिरोदधे । । ११.९१ । ।
स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि ।
स्वस्तिदानं अधिकृत्य चाक्षयं भार्गवोऽथ निजं आश्रमं ययौ । । ११.९१* । ।
तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातं ।
तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः । । ११.९२ । ।
अथ पथि गमयित्वा क्ëपरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पह् ।
पुरं अविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानां । । ११.९३ । ।

इति कालिदासविरचिते रघुवंशे एकादश सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .