रघुवंशमहाकाव्‍यम् चतुर्दशसर्ग:



उत्तिष्ठ वत्से ननु सानुजोऽसौ दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ । । १४.१ । ।
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।
विस्पष्टं अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भाथ् । । १४.२ । ।
आनन्दजः शोकजं अश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलं उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः । । १४.३ । ।
ते पुत्रयोर्नैरृतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दं अकामयेतां । । १४.४ । ।
क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वं उदीरयन्ती ।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे । । १४.५ । ।
उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां तां ऊचतुस्ते प्रियं अप्यमिथ्या । । १४.६ । ।
अथाभिषेकं रघुवंशकेतोः प्रारब्धं आनन्दजलैर्जनन्योः ।
निर्वर्तयां आसुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः । । १४.७ । ।
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।
तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः । । १४.८ । ।
तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव ।
राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत्पुनरुक्तदोषा । । १४.९ । ।
स मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गः ।
विवेष सौधोद्गतलाजवर्षां उत्तोरणां अन्वयराजधानीं । । १४.१० । ।
स्ॐइत्रिणा सावरजेन मन्दं आधूतवालव्यजनो रथस्थः ।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः । । १४.११ । ।
प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना ।
वनान्निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिरिवाभासे । । १४.१२ । ।
श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीं ।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः । । १४.१३ । ।
स्फुरत्प्रभामण्डलं आनुसूयं सा बिभ्रती शाश्वतं अङ्गरागं ।
रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा । । १४.१४ । ।
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः ।
बाष्पायमाणो बलिमन्निकेतं आलेख्यशेषस्य पितुर्विवेश । । १४.१५ । ।
कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः ।
तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः । । १४.१६ । ।
तथा च सुग्रीवविभीशणादीनुपाचरत्कृत्रिमसंविधाभिः ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन । । १४.१७ । ।
सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवं आदधानं । । १४.१८ । ।
प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः । । १४.१९ । ।
तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकं अन्वमंस्त । । १४.२० । ।
पितुर्नियोगाद्वनवासं एवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिं । । १४.२१ । ।
सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीथ् ।
षडाननापीतपयोधरासु नेता चमूनां इव कृत्तिकासु । । १४.२२ । ।
तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री । । १४.२३ । ।
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या । । १४.२४ । ।
तयोर्यथाप्रार्थितं इन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् । । १४.२५ । ।
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन । । १४.२६ । ।
तां अङ्कं आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्रां ।
विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणोऽभिलाषं । । १४.२७ । ।
सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि । । १४.२८ । ।
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तद्(?) ईप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितां अयोध्यां प्रासादं अभ्रंलिहं आरुरोह । । १४.२९ । ।
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे । । १४.३० । ।
स किंवदन्तीं वदतां पुरोगः स्वऋत्तं उद्दिश्य विशुद्धवृत्तः ।
सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः । । १४.३१ । ।
निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयं ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः । । १४.३२ । ।
कलत्रनिन्दागुरुणा किलैवं अभ्याहतं कीर्तिविपर्ययेण ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे । । १४.३३ । ।
किं आत्मनिर्वादकथां उपेक्षे जायां अदोषां उत संत्यजामि ।
इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः । । १४.३४ । ।
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुं ऐच्छथ् ।
अपि स्वदेहात्किं उतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः । । १४.३५ । ।
स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।
कौलीनं आत्माश्रयं आचचक्षे तेभ्यः पुनश्चेदं उवाच वाक्यं । । १४.३६ । ।
राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयं ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य । । १४.३७ । ।
पौरेषु सोऽहं वहुलीभवन्तं अपां तरङ्गेष्विव तैलबिन्दुं ।
सोढुं न तत्पूर्वं अवर्णं ईशे आलानिकं स्थाणुं इव द्विएपेन्द्रः । । १४.३८ । ।
तस्यापनोदाय फलप्रवृत्तावुपस्थितायां अपि निर्व्यपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव । । १४.३९ । ।
अवैमि चैनां अनघेति किं तु लोकापवादो बलवान्मतो मे ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः । । १४.४० । ।
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः । । १४.४१ । ।
तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः ।
यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः । । १४.४२ । ।
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशं ईशं ।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुं आसीदनुवर्तितुं वा । । १४.४३ । ।
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।
स्ॐयेति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश । । १४.४४ । ।
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स्ॐयेति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनां । । १४.४५ । ।
स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वथ् ।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया । । १४.४६ । ।
अथानुकूलश्रवणप्रतीतां अत्रस्नुभिर्युक्तधुरं तुरंगैः ।
रथं सुमन्त्र प्रतिपन्नरश्मिं आरोप्य वैदेहसुतां प्रतस्थे । । १४.४७ । ।
सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दथ् ।
नाबुद्ध कल्पद्रुमतां विहाय जातं तं आत्मन्यसिपत्त्रवृक्षं । । १४.४८ । ।
जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।
आख्यातं अस्यै गुरु भावि दुःखं अत्यन्तलुप्तप्रियदर्शनेन । । १४.४९ । ।
सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः । । १४.५० । ।
गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा शितया पुरस्ताथ् । । १४.५१ । ।
रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृह्यायां पुलिनेऽवतार्य ।
गङ्गां निषादाहृतनौविशेषस्ततार संधां इव सत्यसंधः । । १४.५२ । ।
अथ व्यवस्थापितवाक्कथंचित्स्ॐइत्रिरन्तर्गतबाष्पकण्ठः ।
औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनं उज्जगार । । १४.५३ । ।
ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम । । १४.५४ । ।
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावथ् । । १४.५५ । ।
सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः । । १४.५६ । ।
न चावदद्भर्तुरवर्णं आर्या निराकरिष्णोर्वृजिनादृतेऽपि ।
आत्मानं एव स्थिरदुःखबाजं पुनः पुनर्दुष्कृतिनं निनिन्द । । १४.५७ । ।
आश्वास्य रामावरजः सतीं तां आख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः । । १४.५८ । ।
सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते स्ॐयचिराय जीव ।
विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वं । । १४.५९ । ।
श्वश्रूजनं सर्वं अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिशेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति । । १४.६० । ।
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धां अपि यत्समक्षं ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य । । १४.६१ । ।
कल्याणबुद्धेरथ वा तवायं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः । । १४.६२ । ।
उपस्थितां पूर्वं अपास्य लक्ष्मीं वनं मया सार्धं असि प्रपन्नः ।
तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती । । १४.६३ । ।
निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादाथ् ।
भूत्वा शरण्या शरणार्थं अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने । । १४.६४ । ।
किं वा तवात्यन्तवियोगमोघे कुर्यां उपेक्षां हतजीवितेऽस्मिन् ।
स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयं अन्तर्गतं अन्तरायः । । १४.६५ । ।
साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेस्चरितुं यतिष्ये ।
तथा यथा मे जननान्तरेऽपि त्वं एव भर्ता न च विप्रयोगः । । १४.६६ । ।
नृपस्य वर्णाश्रमरक्षणं यत्स एव धर्मो मनुना प्रणीतः ।
निर्वासिताप्येवं अतस्त्वयाहं तपस्विसामान्यं अवेक्षणीया । । १४.६७ । ।
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः । । १४.६८ । ।
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावं अत्यन्तं आसीद्रुदितं वनेऽपि । । १४.६९ । ।
तां अभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वं आपद्यत यस्य शोकः । । १४.७० । ।
तं अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे ।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुर्त्राशिषं इत्युवाच । । १४.७१ । ।
जाने विषृश्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतं । । १४.७२ । ।
उथ्कातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे । । १४.७३ । ।
तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या । । १४.७४ । ।
तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन् ।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते । । १४.७५ । ।
अशून्यतीरां मुनिसंनिवेशैस्तमोऽपहन्त्रीं तमसां विगाह्य ।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः । । १४.७६ । ।
पुष्पं फलं चार्तवं आहरन्त्यो बीजं च बालेयं अकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गां उदारवाचो मुनिकन्यकास्त्वां । । १४.७७ । ।
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिं अवाप्स्यसि त्वं । । १४.७८ । ।
अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।
सायं मृगाध्यासितवेदिपार्श्वं स्वं आश्रमं शान्तमृगं निनाय । । १४.७९ । ।
तां अर्पयां आस च शोकदीनां तदागमप्रीतिषु तापसीषु ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु । । १४.८० । ।
ता इङ्गुदीस्नेहकृतप्रदीपं आस्तीर्णमेध्याजिनतल्पं अन्तः ।
तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः । । १४.८१ । ।
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः ।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार । । १४.८२ । ।
अपि प्रभुः सानुशयोऽधुना स्यात्किं उत्सुकः शक्रजितोऽपि हन्ता ।
शशंस सीतापरिदेवनान्तं अनुष्ठितं शासनं अग्रजाय । । १४.८३ । ।
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः । । १४.८४ । ।
निगृह्य शोकं स्वयं एव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
स भ्रातृसाधारणभोगं ऋद्धं राज्यं रजोरिक्तमनाः शशास । । १४.८५ । ।
तां एकभार्यां परिवादभीरोः साध्वीं अपि त्यक्तवतो नृपस्य ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः । । १४.८६ । ।
सीतां हित्वा दशमुखरिपुर्नोपयेम यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथं अपि परित्यागदुःखं विषेहे । । १४.८७ । ।

इति कालिदासविरचिते रघुवंशे चतुर्दशः सर्गः

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

गम् (जाना) धातु: - परस्‍मैपदी

फलानि ।।

संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)

समासस्‍य भेदा: उदाहरणानि परिभाषा: च - Classification of Samas and its examples .